संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथपतिधर्माः

धर्मसिंधु - अथपतिधर्माः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


गर्भिणीवाञ्छितंद्रव्यंतस्यैदद्याद्यथोचितम् ।

सूतेचिरायुषंपुत्रमन्यथादोषमर्हति १ सिन्धुस्नानंद्रुमच्छेदंवपनंप्रेतवाहनम् ।

विदेशगमनंचैवनकुर्याद्भार्भिणीपतिः २ वपनंमैथुनंतीर्थंश्राद्धंभोजनमेवच ।

वर्जयेत्सप्तमान्मासान्नावआरोहणंतथा ३ युद्धादिवास्तुकरणंनखकेशविकर्तनम् ।

चौलंशवान्गमनंविवाहंचविवर्जयेत् ४ मुण्डनंपिण्डदानंचप्रेतकर्मचसर्वशः ।

नजीवत्पितृकःकुर्याद्भर्भिणीपतिरेवच ५ अत्रकर्तनमपिनिषिध्यते वपनस्यनिषेधेपि

कर्तनंतुविधीयतइतिवाक्यंतुजीवात्पितृकादीनांयोवपननिषेधस्तत्रकर्तनविधिपरम् एतदपवादः

क्षौरंनैमित्तिकंकुर्यान्निषेधेसत्यपि ध्रुवम् । पित्रोःप्रेतविधानंचगर्भिणीपतिराचरेत् १ अन्वष्टक्याष्टयोर्गर्भिणीपतिः

पिण्डदानंकुर्यात् केचित्पित्रोःप्रतिसांवत्सरिकेपिण्डदानंकुर्वन्ति दर्शमहालयादिषु नैवकार्यम् ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP