संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
गर्भाधानविधिसंक्षेपः

धर्मसिंधु - गर्भाधानविधिसंक्षेपः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


यदिज्वरादिभिरातुराचतुर्थेहनिस्नातुंनशक्तातदातामन्यानारीनरोवादशवारं

स्पृष्ट्वास्ष्टष्ट्वास्नायादाचामेच्चप्रतइस्नानमातुरस्यवस्त्रमन्यदन्यत्परिधापनीयम्

अन्तेस्पृष्टानांसर्ववस्त्राणांत्यागःआर्द्रवस्त्रादिव्यवधानेनशुद्धवस्त्रग्रहणान्तेब्राह्मणभोजनात्पुण्याहवाचनच्चशुद्धिः

सर्वेषामप्यातुराणामेवंशुद्धिर्विधीयते ।

एवंशुद्ध्यन्तेशुभेदिनेदुष्टरजोदर्शनप्रयुक्तांशौनकोक्तांभुवनेह्वरीशान्तिंग्रन्थान्तरोक्तांवाशान्तिविधायगर्भाधनंकार्यम्

सूर्यग्रहेरजोदर्शनेहैमंसूर्यबिम्बंत

न्नक्षत्ररूपंचसिसेनराहुंचकृत्वासंपूज्यार्कसमिद्भिःसूर्यं नक्षत्रेशंप्लक्षैराहुदूर्वाभिर्हुत्वाज्यचरुतिलैश्चजुहुयात्

चन्द्रग्रहेराजतंचन्द्रबिम्बंपालाश्यश्चसमिधइतिविशेषः

ग्रहणव्यतीपातादिबहुतरदोषेरजोदर्शनेतुद्वितीयादिरजोदर्शनेशान्तिपूर्वकंगर्भाधानंकार्यम्

गर्भाधानेगुरुशुक्रास्ताधिकमासादिदोषोनास्ति यदितुप्रथमरजोदर्शनेशान्तिर्नकृता द्वितीयादिरजोदर्शनेशुक्रास्तादिदोषप्रसक्तिस्तदा

निमित्तानन्तरमेवयत्रनैमित्तिकनुष्ठानंतत्रास्तादिदोषाभावोमुख्यकालातिक्रमेतु

अस्तादिदोषोस्त्येवेतिसामान्यनिर्णयानुसारेणऋतुशान्तिरस्तादौनकार्या तदनुरोधेनगर्भाधानंचनकार्यमितिभाति

शान्तिश्चसग्रहमखैवकार्या शान्तौभुवनेश्वरीप्रधानदेवता इन्द्रेन्द्राण्यौपार्श्वदेवते एवंकलशत्रयेपिप्रतिमात्रयस्थापनम्

ग्रहाणामर्कादिसमिधश्चरुराज्यंचद्रव्यम् प्रधानदेवतायादूर्वास्तिलमिश्रगोधूमाःपायसमाज्यंचेतिहविश्चतुष्टयम् एवंपार्श्वदेघतयोरपि

पायसस्यस्थण्डिलाग्नौश्रपणमेवकार्यम् नतुगृहसिद्धस्यग्रहणम्

ग्रहहोमार्थंगृहसिद्धचरुःपात्रासादनकालेपायसश्रपणार्थमेकास्थालीगृहसिद्धान्नसंस्कारार्थमपरेतिस्थालीद्वयम्

अनेककर्तृकाज्यहोमप्रसक्तावनेकमुवासादनम् आज्येनसहहविस्त्रयस्यगृहसिद्धान्नस्यचपर्यग्निकरणम्

सुवादिसंमार्गान्तेगृहसिद्धान्नमासादितचरुस्थाल्यामादायाग्नावधिश्रित्याभिधारणादिबर्हिरासादनान्तंकुर्यात् ततः

पायसाभिधारणाद्यासादनान्तम् अन्वाधानेहविस्त्यागेचप्रधानदेवतायाभुवनेश्वरीपदेनसवितृपदेनवोच्चारः गायत्र्याहोमोक्तेः

आज्यभान्तेयजमानोन्वाधानानुसारेण

प्रतिदैवतमष्टाविंशत्याहुतिपर्याप्तमर्कादिजातीयसमिच्चर्वाज्यात्मकंहविस्त्रयंसूर्यायसोमायभौमायबुधायबृहस्पतयेशुक्रायशनयेराहवेकेतवेनमम

अष्टाष्टसंख्यापर्याप्तंहविस्त्रंयंतत्तदधिदेवताप्रत्यधिदेवताभ्योनमम चतुश्चतुःसंख्यापर्याप्तंतद्वविस्त्रयं

विनायकादिभ्यःक्रतुसंरक्षणक्रतुसाद्गुण्यदेवताभ्योनमम

अष्टोत्तरशतसंख्याकाहुतिपर्याप्तंदूर्वातिलगोधूमपायसाज्येतिहविश्चतुष्ट्यंभुवनेश्वर्यैनमम

यद्वा सवित्रेनमम एवमष्टाविंशतिसंख्यापर्याप्तंतच्चतुष्टयमिन्द्रेन्द्राणीभ्यांनममेतित्यागंकुर्यात्

बहुतरदोषेऽष्टोत्तरसहस्त्रसंख्याकोहोमोभुवनेश्वर्याइन्द्रेन्द्राण्योरष्टोत्तरशतसंख्याकः इन्द्रेन्द्राण्योर्होमः

कृताकृतः होमान्तेग्रहादिवलयःभुवनेश्वर्यादिबलयोऽभिषेकश्चेतिसंक्षेपःसमन्त्रकःसविस्तरः

प्रयोगःस्वस्वशाखीयानुसारेणज्ञेयःसंकल्पःस्वस्तिवाग्विप्रवरणंभूतनिःसृतिः ।

पञ्चगव्यैर्भूमिशुद्धिर्मुख्यदैवतपूजनम् १ अग्निप्रतिष्ठासूर्यादिग्रहस्थापनपूजनम् ।

देवतान्वाहितिःपात्रासादनंहविषांकृतिः २ यथाक्रमंत्यागहोमावितिपौर्वाङ्कःक्रमः ।

पूजास्विष्टंनवाहुत्याबलिःपूर्णाहुतिस्तथा ३ पूर्णपात्रविमोकाद्यग्न्यर्चनान्तेभिषेचनम् ।

मानस्तोकेतिभूतिश्चदेवपूजाविसर्जने ४ श्रेयोग्रहोदक्षिणादिदानंकर्मेश्वरार्पणम् ।

क्रमोयमुत्तराङ्गानांप्रायः स्मार्तेष्वितिस्थितिः ५ एवंमदनरत्नोक्ताबौधायनोक्ताचशान्तिःकौस्तुभेद्रष्टव्या

प्राग्रजोदर्शनात्पत्नीगमनेब्रह्महत्यादोषोक्तेःकिंचित्प्रायश्चित्तंविधेयमितिभाति ऋतौतुगमनमावश्यकंअन्यथाभ्रूणहत्यादोषः

अयंचमनसिकामेसति द्वेषादिनास्त्रियमनुपगच्छतोज्ञेयः विरक्तस्यनकोपिदोषइतिश्रीभागवतेलोकेव्यवायेतिपद्येटीकायांचस्पष्टम्

ऋतुकालस्तुरजोदर्शनमारभ्यषोडशदिनपर्यन्तंज्ञेयः तत्रप्रथमदिनचतुष्ट्यैकादशत्रयोदशदिनेषुगमनं वर्ज्यम्

अवशिष्टदशदिनेषुपुत्रार्थिनासमदिनेकन्यार्थि नाविषमदिनेगमनकार्यम् तत्राप्युत्तरोत्तररात्रीणांप्राशस्त्यम्

एकस्यांरात्रौसकृदेवगमनंकार्यम् सकृद्गमनंचयुगासुसर्वासुआवश्यकमितिकेचित्

स्त्रीणांवरमनुस्मरन्‌पत्नीच्छयानृतावापिगच्छन्नदोषभाक्किंतुब्रह्मचर्यहानिमात्रम् ऋतौगच्छतियोभार्यामनृतौनैवगच्छति ।

यावज्जीवंब्रह्मचारीमुनिभिःपरिकीर्तितः १

अष्टमीचतुर्दशीपौर्णिमाऽमावास्यासूर्यसंक्रान्तिवैधृतिव्यतीपात

परिघपूर्वदलविष्टिसंध्यासुमातापित्रोर्मृतदिनेशादधतत्प्राग्‌दिनेजन्मनक्षत्रेदिवाचस्त्रीगमनं वर्ज्यम् ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP