संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथनक्षत्रशान्तिः

धर्मसिंधु - अथनक्षत्रशान्तिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तत्रमूलनक्षत्रफलम् पिताम्रियेतमूलाद्येपादेपुत्रजनिर्यदि ।

द्वितीये जननीनाशोधननाशस्तृतीयके २ चतुर्थेकुलनाशोतःशान्तिःकार्याप्रयत्नतः ॥

क्वचिच्चतुर्थचरण शुभउक्तोमनीषिभिः ३ एवंचदुहितुर्ज्ञेयंमूलजातफलंबुधैः ॥

केचित्तु नकन्याहन्तिमूलर्क्षेपितरंमातरंतथा मूलजाश्वशुरंहन्तिश्चश्रूमाश्लेषजासुता १ ज्येष्ठायांतुपतिज्येष्ठंविशाखोत्थातुदेवरम् ।

शान्तिर्वापुष्कलास्याच्चेत्तर्हिदोषोनविद्यते२ इत्याहुः अभुक्तमूलसंभवंपरित्यजेत्तुबालकं समाष्टंकपिताथवानतन्मुखंविलोकयेत् ।

ज्येष्ठान्तेघटिकाचैकामूलादौघटिकाद्वयम् । अभुक्तमूलमथवासंधिनाडीचतुष्टयम् १ वृषालिसिंहेषुघटेचमूलंदिविस्थितंयुग्मतुलाङ्गनान्त्ये ।

पातालगंमेषधनुःकुलीरनक्रेषुमर्त्येष्वितिसंस्मरन्ति २ एतल्लग्नफलम् । स्वर्गेमूलेभवेद्राज्यं पातालेचधनागमः ।

मृत्युलोकेयदामूलंतदाशून्यंसमादिशेत् १ नवमांससार्पदोषोमूलदोषोऽष्टवर्षकम् ।

ज्येष्ठोमासान्पञ्चदशतावद्दर्शनवर्जनम् २ व्यतीपातेङ्गहानिःस्यात्परिघेमृत्युमादिशेत् ।

विकृताङ्गश्चहीनश्चसंध्ययोरुभयोरपि ४ तद्वत्सदन्तजातस्तुपादजातस्तथैवच ।

तस्माच्छान्तिंप्रकुर्वीतग्रहाणांक्रूरचेतसाम् ५ व्यतीपादादौग्रहमखसहितातत्तच्छान्तिरवश्यं कार्यां

इतरशान्तिषुग्रहमखोनावश्यकइत्यर्थः मुख्यकालंप्रवक्ष्यामिशान्तिहोमस्ययत्नतः ।

जातस्यद्वादशाहेतुजन्मर्क्षेवाशुभेदिने १ जननाद्वादशाहेशान्तिकरणेशान्त्युक्तनक्षत्राहुतिवह्निचक्रावलोकनादिकंनावश्यकम्

कालान्तरे आवश्यकम् एवमन्यशान्तिष्वपिज्ञेयम् ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP