संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथनागबलिः

धर्मसिंधु - अथनागबलिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


सचदर्शेपौर्णमास्यांपञ्चम्यामाश्लेषायुतनवम्यांवाकार्यः

तत्रपर्षदंप्रदक्षिणीकृत्यनत्वातग्रेगोवृषनिष्क्रयंनिधायसभार्यस्यममेहजन्मनि

जन्मान्तरेवाजातसर्पवधदोषपरिहारार्थंप्रायश्चित्तमुपदिशन्तुभवन्तः ।

सर्वेधर्मविवेक्तारइत्यादि० विप्रैश्चतुर्दशकृच्छ्र प्रायश्चित्तेनअमुकप्रत्याम्नायद्वारा

पूर्वोत्तराङ्गसहितेनाचरितेनतवशुद्धिर्भविष्यतीत्युपदिष्टोदेशकालौसंकीर्त्यपर्षदुपदिष्टंचतुर्दशकृच्छ्राप्रायश्चित्तममुकप्रत्याम्नायेनाहमाचरिष्ये

इतिसंकल्प्यवप नादिविधिनातदाचरेत् वपनासंभवेद्विगुणःकृच्छ्रप्रत्याम्नायःसर्पवधदोषपरिहारार्थमिमंलोहदण्डंसदक्षिणंतुभ्यमहंसंप्रदद

इतिदत्त्वागुर्वनुज्ञांलब्ध्वागोधूमव्रीहितिलान्यतमपिष्टेनसर्पाकृतिकृत्वाशूर्पेनिधायसर्पप्रार्थयेत् एहिपूर्वमृतः सर्पअस्मिन्पिष्टेसमाविश ।

संस्कारार्थमहंभक्त्याप्रार्थयामिसमाहितः १ आवाहनादिषोडशोपचारैःसंपूज्यनत्वाभोसर्प

इमंबलिगृहाणममाभ्युदयंकुरुइतिबलिंदत्त्वापादौप्रक्षाल्याचमेत् देशकालौसंकीर्त्यसभार्यस्यममेहजन्मनि

जन्मान्तरेवाज्ञानादज्ञानाद्वाजातसर्पवधोत्थदोषपरिहारार्थंसर्पसंस्कारकर्मकरिष्य

इतिसंकल्प्यस्थण्डिलेऽग्निंप्रतिष्ठाप्यध्यात्वाअस्मिन्सर्पसंस्कारहोमकर्मणिदेवतापरिग्रहार्थमन्वाधानंकरिष्ये

चक्षुषीआज्येनेत्यन्तेअग्नौअग्निंवायुंसूर्यंआज्येनसर्पमुखेप्रजापतिमाज्येन आज्यशेषेणसर्पसद्योयक्ष्येइतिसमिधावाधाय

अग्नेराग्नेयदिशिप्रोक्षितभूमौचितिंकृत्वाअग्निंचितिंचपरिसमुह्याग्नेयाग्रदर्भैःपरिस्तीर्यपरिषिच्यषट्‌पात्रासादनादि

चक्षुषीहुत्वासर्पंचित्यामारोप्यजलं श्रोत्रं चस्पृष्ट्वा अग्नौ भूःस्वाहाअग्नय

इदमित्यादिव्याह्रतित्रयेणाज्याहुतीर्हुत्वासमस्तव्याह्रतिभिश्चतुर्थीसर्पमुखेजुहुयात आज्यशेषंस्रुवेणैवसर्पदेहिनिषिञ्चेत

नात्रस्विष्टकृतादिशेषम् चमसजलैःसमस्तव्याह्रत्यासर्पपाणिनाप्रोक्ष्य अग्नेरक्षाणोवसिष्ठोग्निर्गायत्री सर्पायाग्निदानेवि०

अग्नेरक्षाणोअहंसऋक्‌ अथोपस्थानम् नमोअस्तुसर्पेभ्योयेकेचपृथिवीमनु । येअंतरिक्षेयेदिवितेभ्यः सर्पेभ्योनमः ।

येदोरोचनेदिवोयेवासूर्यस्यरश्मिभिः । येशामप्सुसदस्कृतंतेभ्यः० । याइषवोयातुधानानांयेवावनस्पतीरनु ।

येवावटेषुशेरतेतेभ्यः० । त्राहित्राहिमहाभोगिनसर्पोपद्रवदुःखतः । संततिंदेहिमेपुण्यांनिर्दुष्टांदीर्घजीविनीम् १

प्रपन्नंपाहिमांभक्त्याकृपालोदीनवत्सल । ज्ञानतोज्ञानतोवापिकृतः सर्पवधोमया २ जन्मांतरेतथैतस्मिन्मत्पूर्वैरथवाविभो ।

तत्पापंनाश यक्षिप्रमपराधंक्षमस्वमे ३ इतिसंप्रार्थ्यनागेन्द्रंस्नात्वागत्यततःपुनः ।

व्याह्रतिभिःक्षीराज्येनाग्निंसंप्रोक्ष्यहुतेसर्पजलेनाग्निंसिञ्चेत् यज्ञोपवीतिनासर्वंसर्पसंस्कारकर्मतु ।

नास्थिसंचयनंकुर्यात्स्नात्वाचम्यगृहंव्रजेत् १ सभार्यस्यकर्तुस्त्रिरात्रमाशौचंब्रह्मचर्यचकार्यम्

चतुर्थेऽहनिसचैलंस्नात्वाघृतपायसभक्ष्यैरष्टौविप्रान्भोजयेत तद्यथा सर्पस्वरूपिणेब्राह्मणायइदंतेपाद्यम् अनन्तस्वरूपिणे०

शेषस्वरुपि० कपिलस्व० नागस्व० कालिकस्व० शंखपालस्व० भूधरस्व० इत्यष्टसुदत्त्वास्वपादौप्रक्षाल्याचम्य

सर्पस्वरूपिणेब्रा० इदमासनं आस्यताम् एवमनन्तादिषु ततः सर्पस्थानेक्षणःक्रियतामित्यादि ओंतथा

प्राप्नोतुभवानप्राप्नवानि भोसर्परूपइदंतेगन्धं एवमनन्तादिषु एवं पुष्पधूपदीपवस्त्रादिदत्त्वाअन्नंपरिविष्यप्रोक्ष्य

सर्पाय इदमन्नंपरिविष्टंपरिवेक्ष्यमाणंचदत्तंदास्यमानंचातृप्तेरमृतरूपेणस्वाहासंपद्यनांनमम एवमनन्तादिभ्योपि

आचान्तेषुभोसर्प अयंतेबलिरित्यादिनाममन्त्रैर्बलिदानम् तेषुपिण्डेषुवस्त्रादिपूजाचकार्या इदमपिसर्वसव्येनैव

विप्रेभ्यस्ताम्बूलदक्षिणादिदत्त्वा आचार्यसंपूज्य कलशेसुवर्णनागमावाहनादिषोडशोपचारैःसंपूज्यप्रार्थयेत्

ब्रह्मलोकेचयेसर्पाःशेषनागपुरोगमाः । नमोस्तुतेभ्यःसुप्रीताःप्रसन्नाःसन्तु मेसदा १ विष्णुलोकेचयेसर्पावासुकिप्रमुखाश्चये ।

नमोस्तु० २ रुद्रलोकेचयेसर्पास्तक्षकप्रमुखास्तथा । नमोस्तु० ३ खाण्डवस्यतथादाहेस्वर्गंयेचसमाश्रिताः नमोस्तु० ४

सर्पसत्रेचयेसर्पाआस्तिकेनचरक्षिताः । नमोस्तु० ५ मलयेचैवयेसर्पाःकर्कोटप्रमुखाश्चये ।

नमोस्तु० ६ धर्मलोकेचयेसर्पावैतरण्यांसमाश्रिताः । नमो० ७ येसर्पाःपार्वतीयेषुदरीसंधिषुसंस्थिताः ।

नमोस्तु० ८ ग्रामेवायदिवारण्येसर्पाःप्रचरन्तिहि । नमो० ९ पृथिव्यांचैवयेसर्पायेसर्पाबिलसंस्थिताः ।

नमो १० रसातलेचयेसर्पाअनन्ताद्यामहाबलाः ।

नमो० ११ एवंस्तुत्वादेशकालौसंकीर्त्यकृतसर्पसंस्कारकर्मणःसांगतार्थमिमंहैनागंसकलशंसवस्त्रंसदक्षिणंतुभ्यमहंसंप्रददेनमम

अनेनस्वर्णनागदानेनानन्तादयोनागदेवताःप्रीयन्तामुआचार्यायगोदानम् यस्यस्मृत्याच०

मयाकृतंसर्पसंस्काराख्यकर्मतद्भवतांविप्राणांवचनात्परमेश्वरप्रासादात्सर्वं परिपूर्णमस्तु तथास्त्वितितेब्रूयुः

ब्राह्मणांस्तोषयेत् सांगतार्थब्राह्मणान् भोजयेत् कृत्वासर्पस्य संस्कारमनेनविधिनानरः । विरोगोजायतेक्षिप्रंसंततिलभतेशुभाम् १

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP