संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथ सीमन्तकालः

धर्मसिंधु - अथ सीमन्तकालः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथ सीमन्तकालः तच्चतुर्थेऽष्टमेषष्ठेपञ्चमेमासि वाहितम् ।

नवमेमासिसवाकुर्यादावद्भर्भविमोचनम् १ स्त्रीयद्यकृतसीमन्ताप्रसूयेतकदाचन ।

गृहीतपुत्राविधिवत्सातंसंस्कारमर्हति २ पक्षतिथिवारनक्षत्राणिपुंसवनोक्तान्येवप्रशस्तानि

क्वचिद्दशमीपर्यन्तंकृष्णोपि ग्राह्यःषष्ठ्यष्टमीद्वादश्योरिक्ताःपञ्चदशीचवर्ज्याः

तासुसंकटेचतुर्थीचतुर्दशीपौर्णिमास्योग्राह्याः क्रमेणाषष्टचतुर्दशनाडिकाआद्यास्त्यक्त्वाषष्ठ्यष्टमीद्वादश्योपिग्राह्याः

पुन्नक्षत्राणामलाभेरोहिणीरेवत्युत्तरात्रयाणि ग्राह्याणि उक्तनक्षत्राणांप्रथमान्त्यपादौत्यक्त्वामध्यमपादद्व्यंग्रह्यमित्युक्तम्

इदंकर्मसकृदेवकार्यमित्युक्तम् कात्यायनानांतुगर्भसंस्कारत्वात्प्रतिगर्भमावर्तनीयम् सीमन्तोन्नयनेपतिरेवकर्ता

गर्भाधानलोपेतत्प्रायश्चित्तार्थविप्रायगांदत्त्वापुंसवनादिकार्यम् तत्राश्वलायनानांदेशकालसंकीर्तनान्ते

ममास्यांभार्यायामुत्पत्स्यमानगर्भस्यगार्भिकबैजिकदोषपरिहारपुंरूपतासिद्धिज्ञानोदयप्रतिरोधपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थंपुंसवनमनवलोभनं
ममास्यांभार्यायांगर्भाभिवृद्धिपरिपन्थिपिशितरुधिरप्रियालक्ष्मीभूतराक्षसीगनदूरनिरसनक्षेम

सकलसौभाग्यनिदअनमहालक्ष्मीसमावेशनद्वाराप्रतिगर्भबीजगर्भसमुद्बवैनोनिबर्हणद्वाराच

श्रीपरमेश्वरप्रीत्यर्थंस्त्रीसंस्काररूपंसीमन्तोन्नयनाख्यंकर्मचत्रन्त्रेणकरिष्यइतिसंकल्पःसीमन्तेनसहत्रयाणांकरणेज्ञेयः

नान्दीश्राद्धेक्रतुदक्षसंज्ञकाविश्वेदेवाः पुंसवनस्यपृथक्त्वेवमानसंज्ञकमौपासनाग्निंप्रतिष्ठापयेत्

त्रयाणांसहत्वेमङ्गलनामानंप्रतिष्ठापयेत् गृह्याग्निविच्छेदेसर्वाधानिनश्चाग्न्युत्पत्तिःपूर्ववत् पुंसवनेप्रजापतिंचरुणा

सीमन्तेधातारंद्धिःराकांद्विःविष्णुंत्रिः प्रजापतिंसकृदाज्येनजुहुयात् अवशिष्टःप्रयोगोन्यत्रज्ञेयः

शाखान्तरेशुचतत्तद्‌ग्रन्थेभ्योज्ञेयःअत्रप्रतिसंस्कारंदशदत्रीस्त्रीन्‌वाब्राह्मणानभोजयेत् शक्तेनशतंशतम्

सीमन्ताङ्गभोजनेप्रायश्चित्तं पारिजाते ब्रह्मौदनेचसोमेचसीमन्तोन्नयनेतथा ।

जातश्राद्धेतथाभुक्त्वा भोक्ता चांद्रायणंचरेत् १ यद्वाअराइवेतिमन्त्रस्यशतवारंजपः

एतच्चआधानाङ्गब्रह्मौदनांगभोजन इवसीमन्तांगभोजनेज्ञेयम् नतुतद्दिनेतद्‌गृहेभोक्तृमात्रस्येतिपारिजातोक्तंयुक्तम् ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP