संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथनक्षत्रगण्डान्तशान्तिः

धर्मसिंधु - अथनक्षत्रगण्डान्तशान्तिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


रेवत्याश्लेषाज्येष्ठानक्षत्राणामन्त्यघटीद्वयमश्विनीमघामूलानामाद्यघटीद्वयमितिघटिकाचतुष्टयमितंत्रिविंधनक्षत्रगण्डान्तम्

अश्चिनीमघामूलानांपूर्वार्धेबाध्यतेपिता । पूषाहिशकपश्चार्धेजननीबाध्यतेशिशोः १ सर्वेषांगण्डजातानांपरित्यागोविधीयते ।

वर्जयेद्दर्शनंयावत्तस्यषाण्मासिकंभवेत् २ शान्तिर्वापुष्कलाकार्यासोममन्त्रेणभक्तिमान्‍ ।

अस्यशिशोरेवत्यश्विनीसंध्यात्मकगण्डान्तजननसूचितारिष्टनिरासार्थं नक्षत्रगण्डान्तशान्तिकरिश्य

इत्यादिसंकल्पः गोमुखप्रसवंकृत्वाषोडशपलमष्टपलंवाचतुः पलं वा कांस्यपात्रं

विधायतस्मिन्पायसंपयोवानिक्षिप्यतत्रनवनीतपूर्णंशङ्खंनिधायतस्मिन्‌राजतं

चन्द्रबिम्बंसंस्थाप्यसोमोहमितिध्यानपूर्वकंचंद्रमाप्यायस्वेतिपूजयेत्

पूजान्ते आप्यायस्वेतिमन्त्रस्यसहस्त्रंजपः ग्रहमकहोमःकार्यः नात्रप्रधानदेवताहोमः

ग्रन्थांतरेतुताम्रकलशेराजप्रतिमायांबृहस्पतिमन्त्रेणवागीश्वरं

संपूज्यतदुत्तरेकुम्भचतुष्टयेपञ्चपल्लवादिकंकुङ्कुमचन्दनंकुष्ठगोरोचनानि

क्षिप्त्वावरुणंपूजयेदित्युक्तम् आचार्यायसशङ्खसमौक्तिकचन्द्रदानम्

ग्रंथान्तरपक्षेताम्रपात्रसहितवागीश्वरदानं आयुर्वृद्ध्यर्थंसहस्त्राक्षेणेतिमन्त्रजपः दशावरब्राह्मणभोजनंचेति ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP