संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथकर्णवेधः

धर्मसिंधु - अथकर्णवेधः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


दशमेद्वादशेवाह्निषोडशेकर्णबेधनम् । मासेषष्ठेसप्तमेवाअष्टमेदशमेपिवा १ द्वादशेवाततोऽब्देचप्रथमेवातृतीयके ।

नकर्तव्यंसमेवर्षेस्त्रीपुंसःश्रुतिवेधनम् २ तृतीयादिवत्सरेमासाःकार्तिकेपौषमासेवाचैत्रेवाफाल्गुनेपिवा ।

शुक्लपक्षःशुभःप्रोक्तोजन्ममासो निषेधितः १ भद्रायांविष्णुशयनेकर्णवेधंविवर्जयेत् ।

तेनकार्तिकमासविधिःशुक्लद्वादश्युत्तरं ज्ञेयः केचिन्मीनस्थसूर्येचैत्रंधनुस्थेपौषंमासंवर्जयन्ति द्वितीयादशमीषष्ठीसप्तमीचत्रयोदशी ।

द्वादशीपञ्चमीशस्तातृतीयाकर्णवेधने १ चन्द्रबुधगुरुशुक्रवाराः पुष्यपुनर्वसुमृगोत्तरात्रयहस्तचित्राश्विनीश्रवणरेवतीधनिष्ठाःशुभाः

विष्णुरुद्रब्रह्मसूर्यचन्द्रदिक्पालनासत्यसरस्वतीगोब्राह्मणगुरुपूजांकृत्वालकरसाङ्कितंकर्णपुंसः

पूर्वंदक्षिणविध्येत्पश्चाद्वामम् स्त्रीणांपूर्ववामं सौवर्णीराजपुत्रस्यराजतीविप्रवैश्ययोः ।

शूद्रस्यचायसीसूचीबालकाष्टांगुलामता १ कर्णरन्ध्रेवेश्छायाप्रविशेद्वर्धयेत्तथा । अन्यथादर्शनेतस्यपूर्वपुण्यविनाशनम् इतिकर्णवेधः ॥

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP