संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथप्रयोगेविशेषः

धर्मसिंधु - अथप्रयोगेविशेषः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


गर्भाधानादिसंस्कारलोपेप्रत्येकंपादकृच्छ्रं

बुद्धिपूर्वमकरणेप्रत्येकमर्धकृच्छ्रंप्रायश्चित्तंजातकर्मणःकालातिपत्तिनिमित्तकाज्यहोमपूर्वकंकार्यम् तद्यथा जातकर्मणः

कालातिपत्तिनिमित्तकदोषपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थंप्रायश्चित्तहोमंकरिष्य

इतिसंकल्प्याग्निस्थापनेध्माधानादिपाकयज्ञतन्त्रसहितंवह्निस्थापनाज्यसंस्कारपात्रसंस्कारमात्रसहितंवाभुर्भुवःस्वः

स्वाहेतिसमस्तव्याह्रत्याज्यहोमंकुर्यात्

होमंसमाप्यगर्भाधानपुंसवनानवलोभनसीमन्तोन्नयनलोपजनितदोषपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थंएतावतः

पादकृच्छ्रान्‌बुद्धिपूर्वकलोपेर्धकृच्छ्रान्तप्रत्याम्नायगोनिष्क्रयीभूतयथाशक्तिरजतद्रव्यदानेनाहमाचरिष्यइतिसंकल्प्य

द्रव्यंदद्यात् जातकर्मनाम्नोःसहचिकीर्षायांपूर्वोक्तजातकर्मसंकल्पवाक्यमुच्चार्य

अस्यकुमारस्यायुरभिवृद्धिव्यवहारसिद्धिबीजगर्भसमुद्भवैनोनिबर्हणद्वाराश्रीपरमेश्वरप्रीत्यर्थं नामकर्मच

तन्त्रेणकरिष्यइतिसंकल्प्यस्वस्तिवाचनादिकुर्यात् तत्र जातकर्मनामकर्मणोः पुण्याहंभवन्तोब्रुवन्त्वित्युक्त्वा

अस्यकुमारस्यजातकर्मणेएतन्नाम्नेअस्मचैस्वस्तिभवन्तोब्रुवन्त्विस्वस्तिपर्यायेवदेत्

तदनुसारेणैवविप्रप्रतिवचनम् केवलनामाचिकीर्षायां नामकर्मणःपुण्याहमित्युक्त्वा

स्वस्तिपर्यायेअमुकनाम्नेअस्मैस्वस्तिभवन्तिब्रुवन्त्वितिवदेत् विप्राश्चामुकनाम्नेअस्मैस्वस्तितिप्रतिब्रूयुः

लेखनादौनामत्रयंशर्मादिपदरहितंकृत्वाव्यावहारिकनामशर्माद्यन्तंकुर्यात्

अभिवादनेनाक्षत्रनामापिशर्माद्यन्तंसर्वत्रोच्चारणीयम् अवशिष्टःप्रयोगःप्रयोगग्रन्थेषु ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP