संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
दत्तक निर्णयः

धर्मसिंधु - दत्तक निर्णयः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


परगोत्रोत्पन्नदत्तकस्योपनयनमात्रेपालकगोत्रेणकृतेउपनयनोत्तरंप्रतिग्रहेवादत्तकेनाभिवादनश्राद्धादिकर्मसु

गोत्रद्वयोच्चारःकार्यः चूडादिसंस्कारेपालकेनकृतेपालकैकगोत्रएव

विवाहेतुसर्वदत्तकेनजनकपालकयोरुभयोरपिपित्रोर्गोत्रप्रवरसंबन्धिनीकन्यावर्जनीया

नात्रसाप्तपुरुषंपाञ्चपुरुषमित्येवंपुरुषनियमउपलभ्यते सापिण्ड्यंतुजनकगोत्रेणोपनयनेजनकपितृमात्रोःकुलेसाप्तपुरुषंपाञ्चपुरुषं

ग्रहीतृमातृपितृकुले त्रिपुरुषं ग्रहीतृगोत्रेणोपनयनमात्रेकृते उभयत्रपाञ्चपुरुषंपितृकुले मातृकुलेतु त्रिपुरुषं

जातकर्माद्युपनयनान्तसंस्कारेग्रहीत्राकृतेग्रहीतृकुलेसाप्तपुरुषं मातृतः पाञ्चपुरुषम् अतोन्यून्जनककुलेकल्प्यम्

केचित्तुदत्तकप्रवेशेकुलद्वयेपिसर्वथान्यूनमेवसापिंड्यमित्याहुः एवंदत्तकसंततेरपिसापिंड्यंज्ञेयम्

दत्तकस्यमरणेपूर्वापरपित्रोस्त्रिराजं सपिण्डानामेकाहमाशौचम् उपनीतदत्तकमरणादौ

पालकसपिण्डानादंशाहादीतिनीलकण्ठीयेदत्तकनिर्णये एवंदत्तकेनापिपूर्वापरपित्रोर्मृतौत्रिरात्रं

पूर्वापरसपिण्डानांमरणे एकाहम् पित्रोर्ध्वदौहिककरणे तु कर्मांगंदशाहमेव

दत्तकस्यपुत्रपौत्रादेर्जन्ममरणयोःसपिण्डानामेकाहःसगोत्रसपिण्डेदत्तीकृतेतुसर्वेषांदशरात्रमेव

पत्नीदुहित्रादिसत्त्वेपिदत्तकएव पितृधनभागीभवति दत्तकग्रहणोत्तरमौरसेजातेदत्तकश्चतुर्थांशभागी

नसमभागी केचित्तुप्रतिग्रहोत्राजाताद्युपनयनान्तसंस्कारेविधानेचकृते

औरससमानांशभागित्वम् संस्कारमात्रकरणेविधानाभावेविवाहमात्रलाभोनान्यधनलाभः

कतिपयसंस्कारकरणेचतुर्थांशलाभइत्याहुः दत्तकसत्त्वेप्यौरसस्यैव पित्रोः पिण्डदानेधिकारः

जनकस्यपिण्डदाभावेदत्तकएवजनकपालकयोरुभयोरपिश्राद्धंकुर्यात्धनंचोभयोर्गृह्णीयादिति

नीलकण्ठीये एवंदत्तकन्यायाअपिस्वीकारउक्तविधिनाकार्यः तत्रपरगोत्रोत्पन्नायाग्रहणेविवाहे

गोत्रद्वयवर्जनंप्राग्वत् पुत्रपत्न्योरभावेदत्तकन्यैव पितृधनभागिनी इतिदत्तोपयोगिसर्वनिर्णयः ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP