संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथग्रहणशान्तिः

धर्मसिंधु - अथग्रहणशान्तिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


ग्रहणेचन्द्रसूर्यस्यप्रसूतिर्यदिजायते । इत्थंसंजायते यस्तुतस्यमृत्युर्नसंशयः १ व्याधिःपीडाचदारिद्र्यंशोकश्चकलहोभवेत् ।

अत्रगोमुखप्रसवःकार्य इतिभाति ग्रहमखःकृताकृतः संकल्पेसूर्यग्रहणकालिकप्रसूतिसूचितेत्याद्यूहः

ग्रहणकालिकनक्षत्रस्यनक्षत्रदेवतायावा हेमप्रतिमां सूर्यग्रहे सूर्यस्यहेनप्रतिमां चन्द्रग्रहेराजतंचन्द्राबिम्बंकृत्वोभयत्र

सीसेनराहोर्नागाकृति कृत्वागोमयोपलिप्तेशुचिदेशेश्वेतवस्त्रोपरिदेवतात्रयपूजनम् नात्रकलशस्थापनादितत्रमध्येआकृष्णेनेतिसूर्य

दक्षिणतःस्वर्भानोरधइतिराहुं उत्तरतोनक्षत्रदेवतां पूजयेत् चन्द्रग्रहेतुआप्यायस्वेतिमध्येचन्द्रःपूज्यः

पार्श्वयोराहुनक्षत्रंदेवतेपूर्ववत् अन्वाधाने सूर्यग्रहेसूर्यअर्कसमिदाज्यचरुतिलैःप्रत्येकमष्टोत्तरशतसंख्यया राहूं

दूर्वाज्यचरुतिलैस्तावत्संख्यैर्नक्षत्रदेवताञ्जलवृक्षसमिदाज्यचरुत्लैस्तावत्संख्यया शेषेणेत्यादि चन्द्रग्रहेच

चन्द्रं पालाशसमिदाज्यचरुतिलैः शेषंपूर्ववत

अन्तेग्रहकलशोदकेनपञ्चगव्यपञ्चत्वक्पञ्चपल्लवादियुतलौकिकोदकेनचलौकिकेनैवाभिषेकः

वेधकालेजन्मनिनैवशान्तिः किंतुदुष्टकालत्वाद्रुद्राभिषेकः कार्यइतिभाती ॥

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP