संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथत्रिकप्रसवशान्तिः

धर्मसिंधु - अथत्रिकप्रसवशान्तिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


सुतत्रयेसुताचेत्स्यात्तत्त्रयेवासुतोयदि । मातापित्रोः कुलस्यापितदानिष्टंमहद्भवेत् १ ज्येष्ठनाशोवित्तहानिर्दुःखवासुमहद्भवेत् ।

गोप्रसवंकृत्वा ममसुतत्रयजन्मानंतरंकन्याजननसूचितसर्वारिष्टेतिवा

कन्यात्रयजन्मानन्तरंपुत्रजननसृचितेतिवानिमित्तानुसारेणसंकल्पः स्थण्डिलपूर्वभागेग्रहस्थापनान्तेतदुत्तरतः

कलशपंचकेस्वर्णप्रतिमासुब्रह्मविष्णुमहेशेन्द्ररुद्रानावाह्यपूजयेत् तत्रमन्त्राः ब्रह्मज्ञान० इदंविष्णुं० त्र्यंबकं० यत इंद्र०

कद्रुदायेति ग्रहपीठदेवतान्वाधानान्ते ब्रह्माणंविष्णुं महेशंइन्द्रंरुद्रंचप्रत्येकंसमिदाज्यचरुतिलैः

प्रतिद्रव्यमष्टोत्तरसहस्त्राष्टोत्तरत्रिशताष्टोत्तरशतान्यतमसंख्याहुतिभिः शेषेणेत्यादि ॥

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP