संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
गर्भाधानहोमः

धर्मसिंधु - गर्भाधानहोमः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तत्रप्रथमर्तुगमनं गर्भाधानहोमंगृह्याग्नौकृत्वाकार्यम् द्वितीयादिकऋतुगमनेचनहोमादिकम्

येषांसूत्रेहोमोनोक्तस्तैर्होमवर्ज्यमंत्रपाठादिरूपोगर्भाधानसंस्कारःप्रथमगमनेकार्यः

आहिताग्नेरर्धाधानिनोऽनाहिताग्नेश्चौपासनाग्निसिद्धिसत्वेतत्रैवहोमः

औपासनाग्निविच्छेदेद्वादशदिनपर्यन्तमयाश्चेत्याज्याहुत्याततऊर्ध्वंप्रायश्चित्तपूर्वकंपुनःसंधानविधिनाग्निमुत्पाद्यतत्रकार्यः

तत्रप्रत्यब्दंप्राजापत्यकृच्छ्रप्रायश्चित्तम् तत्रेत्थंसंकल्पः

ममगृह्याग्निविच्छेददिनादारभ्यैतावन्तंकालंगृह्याग्निविच्छेदजनितदोषपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थं

गृह्याग्निविच्छेददिनादारभ्यैतावदब्दपर्यन्तंप्रत्यब्दमेकैककृच्छ्रान्यथा

शक्तितत्प्रत्याम्नायगोनिष्क्रयीभूतरजतनिषकनिष्कार्धनिष्कपादनिष्कपादार्धान्यतमद्रव्यदानेनाहमाचरिष्ये

तथाएतावद्दिनेषुगृह्याग्निविच्छेदनलुप्तसायंप्रातरौपासनहोमद्रव्यं

लुप्तदर्शपौर्णमासस्थालीपाकादिकर्मपर्याप्तव्रीह्याद्याज्यद्रव्यंचतन्निष्क्रयंवादातुमहमुत्सृजे

कृच्छ्रप्रत्याम्नायान्तरचिकीर्षायांतथोहःकार्यः अशीतिगुञ्जात्मकोनिष्कपादः अयंचतुर्गुणितोनिष्कः

एवंसंकल्प्यविच्छिन्नस्यगृह्याग्नेःपुनःसंधानं करिष्य इतिसंकल्पपूर्वकंस्वस्वसूत्रानुसारेणगृह्याग्निसंसाधयेत्

सर्वाधानिनापिएवमेव पुनःसंधानेनगृह्याग्निमुत्पाद्यगर्भाधानपुंसवनादिहोमःकार्यः

तत्रकृच्छ्रसंकल्पोहोमादिद्रव्यदानसंकल्पश्चनकार्यः गर्भाधानहोमंकर्तुंगृह्यपुनःसंधानकरिष्येइत्येवसंकल्पः

गर्भाधानान्तेऽग्नित्यागः अर्धाधानिनामपिपक्षद्वयम् गृह्याग्नौसायंप्रातर्होमस्थालीपाकाःकार्याइत्येकः

गृह्याग्निःकेवलं संरक्ष्योनतुतत्रहोमादिकार्यमित्यपरः आद्यपक्षेपूर्वोक्तहोमादिद्रव्यदानंकार्यम्

होमाद्यकरणपक्षेप्रायश्चित्तमात्रंकार्यनतुद्रव्यदानम्

द्विभार्यस्याग्निद्वयंसंसर्गात्पुर्वमुभयाग्न्यनुगतौउभयविच्छेददिनादब्दगणनयापृथक्ष्टथक्कृच्छ्र

प्रायश्चित्तंपृथक्पृथक्होमद्रव्यदानंस्थालीपाकद्रव्यदानंचकृत्वापुनःसंधानद्वयेनाग्निद्वयमुतपाद्याग्निद्वयसंसर्गविधायतत्रगर्भाधानहोमः

अग्निद्वयसंसर्गात्पूर्वंएकाग्न्यनुगतौ तन्मात्रप्रायश्चित्तंतद्धोमद्रव्यमात्रदानंचकार्यं नतुस्थालीपाकद्रव्यदानम्

भार्यान्तरस्यासन्निधानेयस्यांगर्भाधानंतदग्निविच्छेदप्रायश्चित्तादिनागृह्यमुत्पाद्यतत्रहोमः

सर्वत्रपुनःसंधानेस्थालीपाकानारम्भेस्थालीपाकादिद्रव्यदानंकृताकृतम् एवंयथायथंगृह्यसिद्धिंकृत्वा

ममास्यांभार्यायासंस्कारातिशयद्वाराऽस्यां जनिष्यमाणसर्वगर्भाणांबीजगर्भसमुद्भवैनोनिबर्हणद्वारा

श्रीपरमेश्वरप्रीत्यर्थगर्भाधानाख्यंकर्मकरिष्ये तदङ्गत्वेनस्वस्तिवाचनेत्यादिसंकल्प्य

पुण्याहवाचनमातृकापूजननान्दीश्राद्धादिकृत्वायथागृह्यंगर्भाधानसंस्कारःकार्यः

अत्रगर्भाधानकर्मणोब्रह्मदेवताकत्वात्पुण्याहवाचनान्तेकर्मांगदेवताब्रह्माप्रीयतामितिवदेत् औपासनाङ्गेस्वस्तिवाचने

अग्निसूर्यप्रजापतयःप्रीयन्तां स्थालीपाकारम्भेअग्निःप्रीयतामिति एवमन्यत्रग्रन्थान्तरादूह्यम् ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP