संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ६६

बृहत्पाराशरहोराशास्त्रम् - अध्याय ६६

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


भगवन् भवताऽख्यातं ग्रहभावादिजं फलम् ।
बहुनामृषिवर्याणामाचार्याणां च सम्मतम् ॥१॥
संकरात् तत्फलानां च ग्रहाणां गतिसङ्करात् ।
इत्थमेवेति नो सर्वे ज्ञात्वा वक्तुमलं नराः ॥२॥
कलौ पापरतानां च मन्दा बुद्धिर्युतो नृणाम् ।
अतोऽल्पबुद्धिगम्यं यत् शास्त्रमेतद् वदस्य मे ॥३॥
तत्तत्कालग्रहस्थित्या मानवानां परिस्फुटम् ।
सुखदुःखपरिज्ञानमायुषो निर्णयं तथा ॥४॥
साधु पृष्टं त्वया ब्रह्मन् कथयामि तवाग्रतः ।
लोकेयात्रापरिज्ञानमायुषो निर्णयं तथा ॥५॥
संकरस्याविरोधञ्च शास्त्रस्यापि प्रयोजनम् ।
जनानामुपकारार्थं सावधानमनाः शृणु ॥६॥
लग्नादिव्ययपर्यन्तं भावा संज्ञानुरूपतः ।
फलदाः शुभसंदृष्टा युक्ता वा शोभना मताः ॥७॥
ते तूच्चादिभगैः खेटैर्न चास्तारिभनीचगैः ।
पापैर्दृष्टयुता भावाः कल्याणेतरदायकाः ॥८॥
तैरःतारिभनीचस्थैर्न च मित्रस्वभोच्चगैः ।
एवं समान्यतः प्रोक्तं होराशास्त्रज्ञसूरिभिः ॥९॥
मयैयत् सकलं प्रोक्तं पूर्वाचार्यानुवर्तिना ।
आयुश्च लोकयात्रां च शास्त्रस्यास्यते प्रयोजनम् ॥१०॥
निश्चेतुं तन्न सक्नोति वसिष्ठो वा बृहस्पतिः ।
किं पुनर्मनुजास्तत्र विशेषात्तु कलौ युगे ॥११॥
सामान्यांशो विशेषांशो ज्योतिःशास्त्रं द्विधोदितम् ।
प्रोक्तः सामान्यभागस्तु निश्चयांशस्तु कथ्यते ॥१२॥
यथा लग्नाच्च चन्द्राच्च ग्रहाणां भावजं फलम् ।
तथाऽन्येभ्योऽपि खेटेभ्यो विचिन्त्यं दैवविद्वरैः ॥१३॥
अतो रव्यादिखेटानां सलग्नानां पृथक् पृथक् ।
अष्टानां सर्वभावोत्थं यथोक्तमशुभं शुभम् ॥१४॥
ज्ञात्वाऽदौ करणं स्थानं बिन्दुरेखोपलक्षितम् ।
क्रमादष्टकवर्गस्य वाच्यं स्पष्टफलं यथा ॥१५॥
ततुस्वायुस्त्रिरिष्फेषु पञ्च कामे सुखेऽर्णवाः ।
अरौ भाग्ये त्रयः पुत्रे षट् करौ खे भवे च भूः ॥१६॥
लग्नेन्दुजीवशुक्रज्ञास्तनौ स्वे मरणेऽपि च ।
रविभौमार्कि चन्द्रार्या व्यये ज्ञेन्दुसितायकाः ॥१७॥
सुखे होरेन्दुशुक्राश्च धर्मेऽर्कार्किकुजा अरौ ।
होराज्ञार्येन्दवः कामे भवे दैत्येन्द्रपूजितः ॥१८॥
सहजेऽर्कार्किशुक्रार्यभौमाः खे गुरुभार्गवौ ।
सुतेऽर्कार्कीन्दुलग्नारशुक्राः स्युः करणं रवेः ॥१९॥
भाग्यस्वयोश्च षड् वेश्ममृतिहोरासु पञ्च च ।
मानदुश्चिक्ययोरेकः सुते वेदा अरिस्त्रियोः ॥२०॥
त्रयो व्ययेष्टावाये च शून्यं शीतकरस्य तु ।
होरार्कारार्किभृगवोङ्गज्ञार्केन्द्वार्कभार्गवाः ॥२१॥
जीवोर्कार्कीन्दुलग्नारा होरेन्दुगुरुभास्कराः ।
सितज्ञार्याः कुजतनुमन्दास्ते सितशीतगू ॥२२॥
होरार्कारार्किविज्जीवाः शनिः खं सकलाः क्रमात् ।
व्ययवेश्मसुतस्त्रीषु षड् सप्त धनधर्मयोः ॥२३॥
होरामृत्युवोः शरा वेदा विक्रमे खे त्रयः क्षते ।
द्वौ भवे शून्यमेवं स्यात् करणं भूमिजस्य तु ॥२४॥
कुजस्यार्केन्दुविज्जीवसित लग्नशनी च तु ।
सितारगुरुमन्दाः स्युर्धर्मोक्तेषु कुजं विना ॥२५॥
चन्द्रारगुरुशुक्रार्किलग्नानि कुजभास्करी ।
ज्ञेन्द्वर्कसितलग्नार्या एषु शुक्रं विना ततः ॥२६॥
विना शनिं सप्त धर्मे सितेन्दुज्ञा वियत्ततः ।
अर्कार्किज्ञेन्दुलग्नाराः करणं प्रोच्यते क्रमात् ॥२७॥
तनुस्वगृहकर्मारिधर्मेष्वग्निर्मृगौ करौ ।
भ्रातृस्त्रियो रसा लाभे शून्यं पुत्रे व्यये शराः ॥२८॥
बुधास्यर्केन्दुगुरवो गुरुसूर्यबुधाः क्रमात् ।
लग्नार्कारार्किचन्द्रार्या ज्ञार्कार्या हि बुधस्य तु ॥२९॥
जीवारेन्द्वार्किलग्नानि शुक्रमन्नधरासुताः ।
ज्ञेन्दुलग्नार्कशुक्रार्या ज्ञार्कौ जीवेन्दुलग्नकाः ॥३०॥
अर्कार्यशुक्रः शून्यं च होरेन्द्वारार्किभार्गवाः ।
रूपं धनाययोः खे द्वौ व्यये सप्त क्षतेऽर्णवाः ॥३१॥
मृतिविक्रमयो पञ्च गुरोः शेषेषु वन्हियः ।
लग्ने शुक्रेन्दुमन्दाः स्वे आये मन्दश्च विक्रमे ॥३२॥
लग्नारेन्दुज्ञभृगवः सुतेर्कार्यकुजा गृहे ।
शुक्रमन्देन्दवो द्यूने बुधशुक्रशनैश्चराः ॥३३॥
जीवारार्केन्दवः शत्रौ सर्वे मन्दं विना व्यये ।
कर्मणीन्दुशनी धर्मे मन्दारगुरवो मृगौ ॥३४॥
लग्नार्किसितचन्द्रज्ञाः करणं च गुरोरिदम् ।
सुतायुर्विक्रमेष्वक्षि तनुस्वव्ययखेष्विषुः ॥३५॥
अष्टौ स्त्रियामरौ षड् भूर्धर्मे मित्रेऽक्षि खं भवे ।
लग्ने स्वेऽर्कारविज्जीवमन्दाः सर्वे च कामभे ॥३६॥
अर्कार्यौ विक्रमस्थाने सुतेऽर्कारौ शुभे रविः ।
सुखेऽकबुधजीवाः स्युर्भौमज्ञौ मृतिभे द्वज ॥३७॥
शुक्रार्केन्द्वार्किलग्नार्याः शत्रौ शून्यं भवे व्यये ।
होरार्किबुधशुक्रार्यास्तन्वारज्ञेन्द्विनाश्च खे ॥३८॥
स्वस्त्रीधर्मेषु सप्ताङ्गं मृतिहोरागृहेषु च ।
आज्ञाभ्रातृव्यये वेदा रूपं शत्रौ सुते शराः ॥३९॥
आये शून्यं शनेरेवं करणं प्रोच्यते बुधैः ।
गृहे तनौ च लग्नार्कौ स्वस्त्रियोश्च रविं विना ॥४०॥
हित्वा धर्मे बुधं माने लग्नाररविचन्द्रजान् ।
ततो भ्रातरि जीवार्कबुधशुक्राः क्षते रविः ॥४१॥
व्यये लग्नेन्दुमन्दार्काः सितार्कन्दुज्ञलग्नकाः ।
सुते मृतौ बुधार्कौ च हित्वाऽये खं शनेर्विदः ॥४२॥
उक्ताऽन्ये स्थानदातार इति स्थानं विदुर्बुधाः ।
अथ स्थानग्रहान् वक्ष्ये सुखबोधाय सुरिणाम् ॥४३॥
स्वायस्तनुषु मन्दारसूर्या जीवबुधौ सुते ।
विक्रमे ज्ञेन्दुलग्नानि लग्नार्कार्किकुजा गृहे ॥४४॥
ते च ज्ञेन्दू खभे चाऽये सर्वे शुक्रं विना व्यये ।
लग्नशुक्रबुधाः शत्रौ ते च जीवसुधाकरौ ॥४५॥
द्यूनेऽर्कारार्किशुक्राश्च धर्मेर्कारार्किविद्गुरुः ।
ज्ञेन्दुजीवाः कुजार्यौ ज्ञार्केन्द्वारार्कितनूशनाः ॥४६॥
जीवशुक्रबुधा भौमबुधशुक्रशनैश्चराः ।
रवीन्द्वारार्किलग्नानि रवीन्द्वार्यज्ञभार्गवाः ॥४७॥
अर्कज्ञजीवाः शुक्रेन्दू ते च तौ लग्नभूसुतौ ।
सर्वे शून्यं क्रमात्प्रोक्तं स्थानं शीतकरस्य च ॥४८॥
लग्नमन्दकुजा भौमो होराज्ञेन्दुदिनाधिपाः ।
मन्दारौ ज्ञरवी ज्ञेन्दुजीवार्कतनुभार्गवाः ॥४९॥
मन्दारौ तौ सित श्चार्किः कुजार्कार्यार्किलग्नकाः ।
सर्वे गुरुसितौ स्थानं भौमस्तैवं विदुर्बुधाः ॥५०॥
लग्नमन्दारशुक्रज्ञा लग्नारेन्दुसितार्कजाः ।
शुक्रज्ञौ लग्नचन्द्रार्किसितारा ज्ञार्कभार्गवाः ॥५१॥
जीवज्ञार्केन्दुलग्नानि भूमिपुत्रशनैश्चरौ ।
तौ च लग्नेन्दु शक्रार्या मन्दारार्कज्ञभार्गवाः ॥५२॥
लग्नमन्दारविच्चन्द्राः सर्वे जीवज्ञभास्कराः ।
गुरोर्लग्ने सुखे जीव लग्नाराक्रबुधा धने ॥५३॥
चन्द्रशुक्रौ च दुश्चिक्ये मन्दार्यार्काः शनिर्व्यये ।
सुते शुक्रेन्दुलग्नज्ञमन्दाश्चन्द्रं विना त्वरौ ॥५४॥
लग्नारार्याऽर्केन्दवोऽस्ते मृगौ जीवार्कभूसुताः ।
धर्मे शुक्रार्कलग्नेन्दुबुधा मन्दं विनाऽयभे ॥५५॥
माने गुरुबुधारार्कशुक्रहोरास्तथा विदुः ।
लग्नशुक्रेन्दव स्ते ते ज्ञार्क्या रास्ते ज्ञवर्जिताः ॥५६॥
सुतभे लघ्नशशिजशशाङ्कार्यार्किभार्गवाः ।
ज्ञारौ शून्यं सिताऽर्केन्दुगुरुलग्नशनैश्चराः ॥५७॥
सर्वे रविं विना शुक्रगुरुमन्दाश्च मानभे ।
सर्वे कुजेन्दुरवयः क्रमात् भृगुसुतस्य च ॥५८॥
शने रवितनू सूर्यो लग्नेन्दुकुजसूर्यजाः ।
लग्नार्कौ जीवमन्दाराः सर्वे सूर्यं विना क्षते ॥५९॥
अर्कोऽर्कज्ञौ बुधोऽर्कारतनुज्ञाः सकलास्ततः ।
कुजज्ञगुरुशुक्राश्च क्रमात् स्थानमिदं विदुः ॥६०॥
तनौ तुर्ये च वह्निः स्याद् दुश्चिक्ये द्वौ धने शराः ।
बुद्धिमृत्यंकरिःफेषु षट् खेशक्षतराशिषु ॥६१॥
रूपंस्त्रियां गुरुं त्यक्त्वा लग्नस्य करणं त्विदम् ।
होरासूर्येन्दवो लग्ने लग्नारेन्द्विनसूर्यजाः ॥६२॥
गुरुज्ञौ लग्नचन्द्रारा लसूचंमंबुसौरयः ।
क्षते शुक्रस्तथा चैकः कामे सर्वे गुरुं विना ॥६३॥
मृगौ भृगुबुधौ त्यक्त्वा धर्मे गुरुसितौ विना ।
कर्मण्याये तथा शुक्रोव्यये सूर्येन्दुवर्जिताः ॥६४॥
लग्नस्येदं तु संप्रोक्तं करणं द्विजपुङ्गव ।
अथ स्थानं प्रवक्ष्यामि लग्नस्य द्विजपुङ्गव ॥६५॥
आर्किज्ञशुक्रगुर्वाराः सौम्यदेवेज्यभार्गवाः ।
हित्वा सौम्यगुरू शेषाः सूज्ञेज्यभृगुसूर्यजाः ॥६६॥
तथा जीवभृगू बुद्धौ सर्वे शुक्रं विना क्षते ।
जीव एकस्तथा द्यूने मृगौ सौम्यभृगू तथा ॥६७॥
धर्मे गुरुसितावेव खे भवे शुक्रमन्तरा ।
सूर्यचन्द्रौ तथा रिष्फे स्थानं लग्नस्य कीर्तितम् ॥६८॥
करणं बिन्दुवत् लेख्यं स्थानं रेखास्वरूपकम् ।
करणं त्वशुभदं प्रोक्तं स्थानं शुभफलप्रदम् ॥६९॥
दशारेखा लिखेदूर्ध्वास्तिर्यग् रेखाश्चतुर्दश ।
नगेशकोष्ठसंयुक्तं चक्रमेवं प्रजायते ॥७०॥
तिर्यगष्टसु कोष्ठेषु विलग्नसहितान् खगान् ।
आद्येषूर्ध्वाधरेष्वेवं भावसंख्या लिखेद् बुधः ॥७१॥
यथोक्तं विन्यसेत् तत्र करणं स्थानमेव वा ।
ततः शुभाऽशुभं ज्ञात्वा जातकस्य फलं वदेत् ॥७२॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP