TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ४६

बृहत्पाराशरहोराशास्त्रम् - अध्याय ४६

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


दशाध्याय
सर्वज्ञोऽसि महर्षे त्वं कृपया दीनवत्सल ।
दशाः कतिविधाः सन्ति तन्मे कथय तत्त्वतः ॥१॥
साधु पृष्टं स्वया विप्र लोकानुग्रहकारिणा ।
कथयामि तवाग्रेऽहं दशभेदाननेकशः ॥२॥
दशाबहुविधास्तासु मुख्या विंशोत्तरी मता ।
कैश्चिदष्टोत्तरी कैश्चित् कथिता षोडशोत्तरी ॥३॥
द्वादशाब्दोत्तरी विप्र दशा पञ्चोत्तरी तथा ।
दशा शतसमा तद्वत् चतुराशीतिवत्सरा ॥४॥
द्विसप्ततिसमा षष्टिसमा षड्त्रिंशवत्सरा ।
नक्षत्राधारिकाश्चेताः कथिताः पूर्वसूरिभिः ॥५॥
अथा कालदशा चक्रदशा प्रोक्ता मुनीश्वरैः ।
कालचक्रदशा चाऽया मान्यासर्वदशासु या ॥६॥
दशाऽथ चरपर्याया स्थिराख्या च दशा द्विज ।
केन्द्राद्य च दशा ज्ञेया कारकादिग्रहोद्भवा ॥७॥
ब्रह्मग्रहाश्रितर्क्षाद्या दशा प्रोक्ता तु केनचित् ।
माण्डूकी च दशा नाम तथा स्थूलदशा स्मृता ॥८॥
योगार्धजदशा विप्र दृग्दशा च ततः परम् ।
त्रिकोणाख्या दशा नाम तथा राशिदशा स्मृता ॥९॥
पञ्चस्वरदशा विप्र विज्ञेया योगिनीदशा ।
दशा पैण्डी तथांशी च नैसर्गिकदशा तथा ॥१०॥
अष्टवर्गदश सन्ध्यादसा पाचकसंज्ञिका ।
अन्यास्तारादशाद्याश्च न स्वर्गाः सर्वसम्मताः ॥११॥
कृत्तिकातः समारभ्य त्रिरावृत्य दशाधिपाः ।
आचंकुरागुशबुकेशुपूर्वा विहगाः क्रमात् ॥१२॥
वह्निभाज्जन्मभं यावद् या संख्या नवतष्टिता ।
शेषाद्दशाधिपो ज्ञेयस्तमारभ्य दशां नयेत् ॥१३॥
विंशोत्तरशतं पूर्णमायुः पूर्वमुदाहृतम् ।
कलै विंशोत्तरी तस्माद् दशा मुख्या द्विजोत्तम ॥१४॥
दशासमाः क्रमादेषां षड् दशाऽश्वा गजेन्दवः ।
नृपाला नवचन्द्राश्च नवचन्द्रा नगा नखाः ॥१५॥
दशामनां भयातघ्नं भभोगेन हृतं फलम् ।
दशाया भुक्तवर्षाद्य भोग्यं मानाद् विशोधितम् ॥१६॥
लग्नेशात् केन्द्रकोणस्थे राहौ लग्नं विना स्थिते ।
अष्टोत्तरी दशा विप्र विज्ञेया रौद्रभादितः ॥१७॥
चतुष्कं त्रितयं तस्मात् चतुष्कं त्रितयं पुनः ।
एवं स्वजन्मभं यावद् विगणय्य यथाक्रमम् ॥१८॥
सूर्यश्चन्द्रः कुजः सौम्यः शनिर्जीवस्तमो भृगुः ।
एते दशाधिपा विप्र ज्ञेयाः केतुं विना ग्रहाः ॥१९॥
रसाः पञ्चेन्दवो नागाः सप्तचन्द्राश्च खेन्दवः ।
गोऽब्जाः सूर्याः कुनेत्राश्च रव्यादीनां दशासमाः ॥२०॥
दशाब्दांघ्रिश्च पापानां शुभानां त्र्यंश एव हि ।
एकैकभे दशामानं विज्ञेयं द्विजसत्तम ॥२१॥
ततस्तद्यातभोगाध्यां भुक्तं भोग्यं च साधयेत् ।
विंशोत्तरीवदेवात्र ततस्तत्फलमादिशेत् ॥२२॥
कृष्णपक्षे दिवा जन्म शुक्लपक्षे तथा निशि ।
तदा ह्यष्टोत्तरी चिन्त्या फलार्थञ्च विशेषतः ॥२३॥
चन्द्रहोरागते कृष्णे सूर्यहोरागते सितेए ।
लग्ने नृणां फलज्ञप्त्यै विचिन्त्या षोडशोत्तरी ॥२४॥
पुष्यभाज्जन्मभं यावद् या संख्या गजतष्टिता ।
रविर्भौमो गुरुर्मन्दः केतुश्चन्द्रो बुधो भृगुः ॥२५॥
इति क्रमाद् दशाधीशाः ज्ञेया राहुं विना ग्रहाः ।
रुद्राद्येकोत्तराः संख्या धृत्यन्तं वत्सराः क्रमात् ॥२६॥
शुक्रांशके प्रजातस्य विचिन्त्या द्वादशोत्तरी ।
जन्मभात् पौष्णभं यावत् संख्या हि वसुतष्टिता ॥२७॥
सूर्यो गुरुः शिखी ज्ञोऽगुः कुजो मन्दो निशाकरः ।
विना शुक्रं दशाधीशा द्विचयात् सप्ततः समाः ॥२८॥
अर्कांश कर्कलग्ने पञ्चोत्तरी मता ।
मित्रर्क्षाज्जन्मभं यावत् संख्या सप्तविभाजिता ॥२९॥
एकादिशेषे विज्ञ्याः क्रमात्सप्तदशाधिपाः ।
रविर्ज्ञोऽर्कसुतो भौमः शुक्रश्चन्द्रो वृहस्पतिः ॥३०॥
एकोत्तराच्च विज्ञेया द्वादशाद्याः क्रमात्समाः ।
धृत्यन्ताः सप्तखेटानां राहुकेतू विना द्विज ॥३१॥
वर्गोत्तमगते लग्ने दशा चिन्त्या शताब्दिका ।
पौष्ण्भाज्जन्मपर्यन्तं गणयेत् सप्तभिर्भजेत् ॥३२॥
शेषाङ्के रवितो ज्ञेया दशा शतसमाह्वया ।
रविश्चन्द्रो भृगुर्ज्ञश्च जीवो भौमः शनिस्तथा ॥३३॥
क्रमदेते दशाधीशा बाणा बाणा दिशो दश ।
नखा नखाः खरामाश्च समाज्ञेया द्विजोत्तम ॥३४॥
कर्मेशे कर्मगे ज्ञेया चतुराशीतिका दशा ।
पवनाज्जन्मभं यावद् या सण्ख्या सप्तभाजिता ॥३५॥
शेषे रवीन्दुभौमज्ञा गुरुशुक्रशनैश्चराः ।
दशाधीशाः क्रमादेषां ज्ञेया द्वादशवत्सराः ॥३६॥
मूलाज्जन्मर्क्षपर्यन्तं गणयेदष्टभिर्भजेत् ।
शेषाद्दशाधीपा ज्न्' एया अष्टौ रव्यादयः क्रमात् ॥३७॥
नव वर्षाणि सर्वेषां विकेतूनां नभःसदाम् ।
लग्नेशे सप्तमे यस्य लग्ने वा सप्तमाधिपे ॥३८॥
चिन्तनीया दशा तस्य द्विसप्ततिसमाह्वया ।
विंशोत्तरीवदत्राऽपि भुक्तं भोग्यं च साधयेत् ॥३९॥
यदार्को लग्नराशिस्थश्चिन्त्या षष्टिसमा तदा ।
दास्रात् त्रयं चतुष्कं च त्रयं चेति पुनः पुनः ॥४०॥
गुर्वर्कभूसुतानां च दशा दश दशाब्दकाः ।
ततः शशिज्ञशुक्रार्कपुत्रागूनां रसाब्दकाः ॥४१॥
श्रवणाज्जन्मभं यावत् संख्या वसुविभाजिता ।
शेषे चन्द्ररवीज्यारबुधार्किभृगुराहवः ॥४२॥
क्रमाद्दशाधिपास्तेषामेकाद्येकोत्तराः समा ।
लग्ने दिनेऽर्कहोरायां चन्द्रहोरागते निशि ॥४३॥
सूर्यस्याऽर्धास्तयः पूर्वं परस्तादूदयादपि ।
पञ्च पञ्च घटी सन्ध्या दशनाडी प्रकीर्तिता ॥४४॥
सन्ध्याद्वयञ्च विंशत्या नाडिकाभिः प्रकीर्तितम् ।
दिनस्य विंशतिर्घट्यः पूर्णसंज्ञा उदाहृताः ॥४५॥
निशायाः मुग्धसंज्ञाश्च घटिका विंशतिश्च याः ।
सूर्योदये च या सन्ध्या खण्डाख्या द/सनाडिका ॥४६॥
अस्तकाले च या सन्ध्या सुधाख्या दशनाडिका ।
पूर्णमुग्धघटीमाने द्विगुणे तिथिभिर्भजेत् ॥४७॥
तथा खण्डसुधाघट्यौ चतुर्घ्ने तिथिभिर्भजेत् ।
लब्धं वर्षादिकं मानं सूर्यादीनां खचारिणाम् ॥४८॥
एकादिसंख्यया निघ्नं दशामानं पृथक् क्रमात् ।
राहुकेतुयुतानां च नवानां कालसंज्ञकम् ॥४९॥
रात्रौ लग्नाश्रिताद्राशेर्दिने लग्नेश्वराश्रिताम् ।
सन्ध्यायां वित्तभावस्थान्नेया चक्रदशा बुधैः ॥५०॥
दशा वर्षाणि राशीनामेकैकस्य दशामितिः ।
क्रमाच्चक्रस्थितानाञ्च विज्ञातव्या द्विजोत्तम ॥५१॥
अथाऽहं शङ्करं नत्वा कालचक्रदशां ब्रुवे ।
पार्वत्यै कथिता पूर्वं सादरं या पिनाकिना ॥५२॥
तस्याः सारं समुद्धृत्य तवाग्रे द्विजमन्दन ।
शुभाऽशुभं मनुष्याणां यथा जानन्ति पण्डिताः ॥५३॥
द्वादशारं लिखेच्चक्रं तिर्यगूर्घ्वसमानकम् ।
गृहा द्वादश जायन्ते सव्येऽसव्ये द्विधा द्विज ॥५४॥
द्वितीयादिषु कोष्ठेषु राशीन् मेषादिकान् लिखेत् ।
एवं द्वादशराश्याख्यं कालचक्रमुदीरितम् ॥५५॥
अश्विन्यादित्रयं सव्यमार्गे चक्रे व्यवस्थितम् ।
रोहिण्यादित्रयं चैवमपसव्ये व्यविस्थितम् ॥५६॥
एवमृक्षविभागं हि कृत्वा चक्रं समुद्धरेत् ।
अश्विन्यदितिहस्तक्षेमूलप्रोष्ठपदाभिधाः ॥५७॥
वह्निवातादिविश्वर्क्षरेवत्यः सव्यतारकाः ।
एतद्दशोषुपादानामश्विन्यादौ च वीक्षयेत् ॥५८॥
देहजीवौ कथं वीक्ष्यौ नक्षत्राणां पदेषु च ।
विशदं तत्प्रकारं च मैत्रेय कथयामयहम् ॥५९॥
देहजीवौ मेषचापौ दास्राद्यचरणस्य च ।
मेषाद्याश्चापपर्यन्तं राशिपाश्च दशाधिपाः ॥६०॥
मृगयुग्मे देहजीवौ द्वितीयचरणे स्मृतौ ।
क्रमात् मिथुनपर्यन्तं राशिपाश्च दशाधिपाः ॥६१॥
दास्रादिदशताराणां तृतीयचरणे द्विज ।
गौर्देहो मिथुनं जीवो द्व्येकार्केशदशाङ्कपाः ॥६२॥
क्वक्षिरामर्क्षनाथाश्च दशाधिपतयः क्रमात् ।
अश्विन्यादिदशौडूनां चतुर्थचरणे तथा ॥६३॥
कर्कमीनौ देहजीवौ कर्कादिनवराशिपाः ।
दशाधीशाश्च विज्ञेया नवैते द्विजसत्तम ॥६४॥
यमेज्यचित्रातोयर्क्षाऽहीर्बुध्न्याः सव्यतारकाः ।
एतत्पञ्चोडुपादानां भरण्यादौ विचिन्तयेत् ॥६५॥
याम्यप्रथमपादस्य देहजीवावलिर्झषः ।
नागागर्तुपयोधीषुरामाक्षीन्द्वर्कभेश्वराः ॥६६॥
याम्यद्वितीयपादस्य देहजीवौ घटाङ्गने ।
रुद्रदिङ्नन्दचन्द्राक्षिरामाब्धीष्वङ्गभेश्वराः ॥६७॥
याम्यतृतीयपादस्य देहजीवौ तुलाङ्गने ।
सप्ताष्टाङ्कदिगीशार्कगजाद्रिरमभेश्वराः ॥६८॥
कर्को देहो धनुर्जीवो याम्यतुर्यपदे द्विज ।
वेदबाणाग्निनेत्रेन्दुसूर्येशाशाङ्कभेश्वराः ॥६९॥
सप्तमेवं विजानीयादसव्यं कथयाम्यहम् ।
द्वादशारां लिखेच्चकं पूर्ववद् द्विजसत्तम ॥७०॥
द्वितीयादिषु कोष्ठेषु वृश्चिकाद् व्यस्तमालिखेएत् ।
रोहिणी च मघा द्वीशः कर्णश्चेति चतुष्टयम् ॥७१॥
उक्तं चाऽसव्यनाक्षत्रं पूर्वाचार्यैर्द्विजोत्तम ।
एतद्वेदोडुपादानां रोहिनीवन्निरीक्षयेत् ॥७२॥
रोहिण्यादिपदे देहजीवौ कर्किधनुर्धरौ ।
नवदिग्रुद्रसूर्येन्दुनेत्राग्नोष्वब्धिभेश्वराः ॥७३॥
धातृद्वितीचरणे देहजीवौ तुलस्त्रियौ ।
अङ्कागवसुसूर्येशदिगङ्कवसुजूकपाः ॥७४॥
तृतीयचरणे ब्राह्म देएहजीवौ घटाङ्गने ।
षड्बाणब्धिगुणक्षीन्दुनन्ददिग्रुद्रभेश्वराः ॥७५॥
रोहिण्यन्तपदे देहजीवावलिजषौ स्मृतौ ।
सूर्येन्दुद्विगुणेष्वब्धितर्कशैलाष्टभेश्वराः ॥७६॥
चान्द्ररौद्रभगार्यम्णमित्रेन्दुवसुवारुणम् ।
एतत्ताराष्टकं विज्ञैर्विज्ञेयं चान्द्रवत् क्रमात् ॥७७॥
कर्को देहो झषो जीवो मृगाद्यचरणे द्विज ।
व्यस्तान्मीनादिकर्कान्तराशिपाश्च दशाधिपाः ॥७८॥
गौर्देहो मिथुनं जीवो द्वितीयचरणे मृगे ।
त्रिद्व्येकाङ्कदिशीशार्कचन्द्राक्षिभवनाधिपाः ॥७९॥
देहजीवौ नक्रयुग्मे तृतीयचरणे मृगे ।
त्रिबाणाब्धिरसागाष्टसूर्येशदशभेश्वराः ॥८०॥
मेषो देहो धनुर्जीवो चतुर्थचरणे मृगे ।
व्यस्ताच्चापादिमेषान्तराशिपाश्च दशाधिपाः ॥८१॥
अपसव्यगणे त्वेवं देहजीवदशादिकम् ।
पार्वत्यै शम्भुना प्रोक्तमिदावींकथितं मया ॥८२॥
केषां च कति वर्षाणि दशेशानां महामुने ।
दशाया भुक्तभोग्याद्यं तदारम्भ प्रचक्ष्व मे ॥८३॥
भूतैकविंशगिरयो नवदिक्षोडशाब्धयः ।
सूर्यादीनां दशाब्धाः स्यू राशीनां स्वामिनो वशात् ॥८४॥
नरस्य जन्मकाले वा प्रश्नकाले यदंशकः ।
तदादिनवराशिनामब्दास्तस्यायुरुच्यते ॥८५॥
सम्पूर्णायुर्भवेदादावर्धमंशस्य मध्यके ।
अंशान्ते परमं कष्टमित्याहुरपरे बुधाः ॥८६॥
ज्ञात्वैवं स्फुटसिद्धान्तं राश्यंशं गणयेद् बुधः ।
अनुपातेन वक्ष्यामि तदुपायमतः परम् ॥८७॥
गततारास्त्रिभिर्भक्ताः शेषं चैव चतुर्गुणम् ।
वर्तमानपदेनाढ्यं राशीनामंशको भवेत् ॥८८॥
मेषे शतं वृषेऽक्षाष्टौ मिथुने त्रिगजाः समाः ।
कर्कटेऽङ्गगजाः प्रोक्तास्तावन्तस्तत्त्रिकोणयोः ॥८९॥
जनो यत्रांशके जातो गतनाडीपलादिभिः ।
तदांशस्य हताः स्वाब्दाः पञ्चभूमिविभाजिताः ॥९०॥
एवं महादशारम्भो भवेदंशाद्यथा क्रमात् ।
गणयेन्नवपर्यन्तं तत्तदायुः प्रकीर्तितम् ॥९१॥
पदस्य भुक्तघट्याद्यैः स्वाब्दमानं हतं ततः ।
भभोगांघ्रिहृतं भुक्तं भोग्यं मानाद् विशोधितम् ॥९२॥
चन्द्राङ्कांशकला भुक्ताः स्वाब्दमानहता हृताः ।
द्विशत्या भुक्तवर्षाद्यं ज्ञेयं भोग्यं ततो बुधैः ॥९३॥
सव्याख्ये प्रथमांशो यः स देह इति कथ्यते ।
अन्त्यांशो जीवसंज्ञः स्याद् विलोममपसव्यके ॥९४॥
देहादिं गणयेत् सव्ये जीवादिमपसव्यके ।
एवं विज्ञाय दैवज्ञस्ततस्तत्फलमादिशेत् ॥९५॥
कालचक्रगतिः प्रोक्ता त्रिधा पूर्वमहर्षिभिः ।
मण्डूकाख्या गतिश्चैका मर्कटीसंज्ञकाऽपरा ॥९६॥
सिंहावलोकनाख्या च तृतीया परिकीर्तिता ।
उत्प्लुत्य गमनं विज्ञा मण्डूकाख्यं प्रचक्षते ॥९७॥
पृष्ठतो गमनं नाम मर्कटीसंज्ञकं तथा ।
वाणाच्च नवपर्यन्तं गतिः सिंहावलोकनम् ॥९८॥
कन्याकर्कटयोः सिंहयुग्मयोर्मण्डूय्की गतिः ।
कर्ककेसरिणोरेवं कथ्यते मर्कटीं गतिः ॥९९॥
मीनवृश्चिकयोश्चापमेषयोः सैंहिकी गतिः ।
इति सञ्चिन्त्य विज्ञेयं कालचक्रदशाफलम् ॥१००॥
मण्डूकगतिकाले हि सव्ये बन्धुजने भयम् ।
पित्रोर्वा विषशस्त्राग्निज्वरचोरादिजं भयम् ॥१०१॥
केसरीयुग्ममण्डूके मातुर्मरण्मादिशेत् ।
स्वमृतिं राजभितिं वा सन्निपातभयं भवेत् ॥१०२॥
मर्कटीगमने सव्ये धनधान्यपशुक्षयः ।
पितुर्मरणमालस्यं तत्समानां च व मृतिः ॥१०३॥
सव्ये सिंहावलोके तु पशुभीतिर्भवेन्नृणाम् ।
सुहृत्स्नेहादिनाशश्च समानजनपीडनम् ॥१०४॥
पतनं वापि कूपादौ विषशस्र्ताग्निजं भयम् ।
वाहनात् पतनं वापि ज्वरार्तिः स्थाननाशनम् ॥१०५॥
मण्डूकगमने वामे स्त्रीसुतादिप्रपीडनम् ।
ज्वरं च श्वापदाद् भीतिं वदेद् विज्ञः पदच्युतिम् ॥१०६॥
मर्कटीगमने वाऽपि जलभीतिं पदच्युतिम् ।
पितुर्नाशं नृपक्रोधं दुर्गारण्याटनं वदेत् ॥१०७॥
सिंहावलोकने वामे पदभ्रंशः पितुर्मृतिः ।
तत्समानमृतिर्वाऽपि फलमेवं विचिन्तयेत् ॥१०८॥
मीनात् तु वृश्चिके याते ज्वरो भवति निश्चितः ।
कन्यातः कर्कटे याते भ्रातृबन्धुविनाशनम् ॥१०९॥
सिंहात्तु मिथुने याते स्त्रिया व्याधिर्भवेद् ध्रुवम् ।
कर्कटाच्च हरौ याते वधो भवति देहिनाम् ॥११०॥
पितृबन्धुमृतिं विद्याच्चापान्मेषे गते पुनः ।
भयं पापखगैर्युक्ते शुभखेटयुते शुभम् ॥१११॥
शुभं वाऽप्यशुभं वाऽपि कालचक्रदशाफलम् ।
राशिदिक्भागतो वापि पूर्वादिदिग्तभश्चरात् ॥११२॥
तद्दिगावभागे वक्तव्यं तद्दशासमये नृणाम् ।
यथोपदेशमार्गेण सर्वेषां द्विजसत्तम ॥११३॥
कन्यातः कर्कटे याते पूर्वभागे महत्फलम् ।
उत्तरं देशमाश्रित्य शुभा यात्रा भविष्यति ॥११४॥
सिंहात्तु मिथुने याते पूर्वभागं विवर्जयेत् ।
कार्यान्तेऽपि च नैऋत्यां सुखं यात्रा भविष्यति ॥११५॥
कर्कटात् सिंहभे याते कार्यहानिश्च दक्षिणे ।
दक्षिणां दिशमाश्रित्य प्रत्यगागमनं भवेत् ॥११६॥
मीनात्तु वृश्चिके याते उदग् गच्छति सङ्कटम् ।
चापाच्च मकरे याते सङ्कटं जायते ध्रुवम् ॥११७॥
चापान्मेषे तु यात्रायां व्याधिर्बन्धो मृतिर्भवेत् ।
वृश्चिके तु सुखं सम्पत् स्त्रीप्राप्तिश्च द्विजोत्तम ॥११८॥
सिंहाच्च कर्कटे याते पस्चिमां वर्जयेद्दिशम् ।
शुभयोगे शुभं ब्रूयादशुभे त्वशुभं फलम् ॥११९॥
शूरश्चौरश्च मेषांशे लक्ष्मीवांश्च वृषांशके ।
मिथुनांशे भवेज्ज्ञानी कर्कांशे नृपतिर्भवेत् ॥१२०॥
सिंहांशे राजमान्यश्च कन्यांशे पण्डितो भवेत् ।
तुलांशे राजमन्त्री स्याद् वृश्चिकांशे च निर्धनः ॥१२१॥
चापांशे ज्ञानसम्पन्नो मरकांशे च पापकृत् ।
कुम्भांशे च वणिक्कर्मा मीनांशे धनधान्यवान् ॥१२२॥
देहो जीवोऽथवा युक्तो रविभौमार्किराहुभिः ।
एकैकयोगे मृत्युः स्याद् बहुयोगे तु का कथा ॥१२३॥
क्रूरैर्युक्ते तनौ रोगं जीवे युक्ते महद् भयम् ।
आधी रोगो भवेद् द्वाभ्या.मपमृत्युस्र्तिभिर्भवेत् ॥१२४॥
चतुर्भिर्मृतिमापन्नो देहे जीवेऽशुभैर्युते ।
युगपद्देहजीवौ च क्रूरग्रहयुतौ तदा ॥१२५॥
राजचोरादिभीतिश्च मृतिश्चापि न संशयः ।
वह्निवाधा रवौ ज्ञेया क्षीणेन्दौ च जलाद् भयम् ॥१२६॥
कुजे शस्त्रकृता पीडा वायुवाधा बुधे भवेत् ।
गुल्मवाधा शनौ ज्ञेया राहौ केतौ विषाद् भयम् ॥१२७॥
देहजीवगृहे यातो बुधो जीवोऽथवा भृगुः ।
सुखस्म्पत्कराः सर्वे रोगशोकविनाशनाः ॥१२८॥
मिश्रगृहैश्च संयुक्ते मिश्रं फलमवाप्नुयात् ।
पापक्षेत्रदशाकाले देहजीवौ तु दुःखितौ ।
शुभक्षेत्रदशाकाले शुभं भवति निश्चितम् ॥१२९॥
शुभयुक्ताशुभक्षेत्रदशा मिश्रफला स्मृता ।
क्रूरयुक्तशुभक्षेत्रदशा मिश्रफला तथा ॥१३०॥
जनानां जन्मकाले तु यो राशिस्तनुभावगः ।
तस्य चक्रदशाकाले देहारोग्यं सुखं महत् ॥१३१॥
शुभे पूर्णसुखं पापे देहे रोगादिसम्भवः ।
स्वोच्चादिगतखेटाढ्ये राज्यमानधनाप्तयः ॥१३२॥
धनभावे च यो राशिस्तस्य चक्रदशा यदा ।
तदा सुभोजन.म् पुत्रस्त्रिसुखं च धनाप्तयः ॥१३३॥
विद्याप्तिर्वाक्पटुत्वं च सुगोष्ठ्या कालयापनम् ।
शुभर्क्षे फलमेवं स्यात् पापभे फलमन्यथा ॥१३४॥
तृतीयभावराशेस्तु कालचक्रदशा यदा ।
तदा भ्रातृसुखं शौर्यं धैर्यं चापि महत्सुखम् ॥१३५॥
स्वर्णाभरणवस्त्राप्तिः सम्मानं राजसंसदि ।
शुभर्क्षे फलमेवं स्यात् पापर्क्षे फलमन्यथा ॥१३६॥
सुखभावगतर्क्षस्य कालचक्रदशा यदा ।
तदा बन्धुसुखं भूमिगृहराज्यसुखाप्तयः ॥१३७॥
आरोग्यमर्थलाभश्च वस्त्रवाहनजं सुखम् ।
शुभर्क्षे शोभनं ज्ञेयं पापभे फलमन्यथा ॥१३८॥
सुतभावगतर्क्षस्य कालचक्रदशा यदा ।
सुतस्त्रीराज्यसौख्याप्तिरारोग्यं मित्रसंगमः ॥१३९॥
विद्याबुद्धियशोलाभो धैर्यं च विक्रमोदयः ।
शुभराशौ शुभं पूर्णं पापर्क्षे फलमन्यथा ॥१४०॥
रिपुभावगतर्क्षस्य कालचक्रदशा यदा ।
तदा चोरादिभूपाग्निविषशस्त्रभयं महत् ॥१४१॥
प्रमेहगुल्मपण्ड्वादिरोगाणामपि संभवः ।
पापर्क्षे फलमेवं स्यात् शुभर्क्षे मिश्रमादिशेत् ॥१४२॥
जायाभावगतर्क्षस्य कालचक्रदशा यदा ।
तदा पाणिग्रहः पत्नीपुत्रलाभादिकं सुखम् ॥१४३॥
कृषियोधनवस्त्राप्तिर्नृपपूजा महद्यशः ।
शुभराशौ फलं पूर्णं पापराशौ च तद्दलम् ॥१४४॥
मृत्युभावस्थितर्क्षस्य कालचक्रदशा तदा ।
स्थाननाशं महद् दुःखं बन्धुनाशं धनक्षयम् ॥१४५॥
दारिद्र्यमन्नविद्वोपमरिभीतिं च निर्दिशेत् ।
पापराशौ फलं पूर्णं शुभराशौ च तद्दलम् ॥१४६॥
धर्मभावगतर्क्षस्य कालचक्रदशा यदा ।
तदा पुत्रकलत्रार्थकृषिगेहसुखं वदेत् ॥१४७॥
सत्कर्मधर्मसंसिद्धिं महज्जनपरिग्रहम् ।
शुभराशौ शुभं पूर्णं पापराशौ च तद्दलम् ॥१४८॥
कर्मभावगतर्क्षस्य कालचक्रदशा यदा ।
राज्याप्तिर्भूपसम्मानं पुत्रदारादिजं सुखम् ॥१४९॥
सत्कर्मफलमैश्वर्यं सद्गोष्ठ्या कालयापनम् ।
शुभराशौ फलं पूर्णं पापराशौ च मिश्रितम् ॥१५०॥
लाभभावस्थितर्क्षस्य कालचक्रदशा यदा ।
पुत्रस्त्रीबन्धुसौख्याप्तिर्भूपप्रीतिर्महत्सुखम् ॥१५१॥
धनवस्त्राप्तिरारोग्यं सतां सङ्गश्च जायते ।
शुभराशौ फलं पूर्णं पापराशौ च खण्डितम् ॥१५२॥
व्ययभावगतर्क्षस्य कालचक्रदशा तदा ।
उद्योगभङ्गमालस्यं देहपीडां पदच्युतिम् ॥१५३॥
दारिद्यं कर्मवैफल्यं तथा व्यर्थव्ययं वदेत् ।
पापराशौ फलं त्वेवं शुभराशौ च तद्दलम् ॥१५४॥
लग्नादिव्ययपर्यन्तं भानां चरदशां ब्रुवे ।
तस्मात् तदीशपर्यन्तं संख्यामत्र दशां विदुः ॥१५५॥
मेषादित्रित्रिभैर्ज्ञेयं पदमोजपदे क्रमात् ।
दशाब्दानयने कार्या गणना व्युत्क्रमात् समे ॥१५६॥
वृश्चिकाधिपती द्वौ च केतुभौमौ स्मृतौ द्विज ।
शनिराहु च कुम्भस्य स्वामिनौ परिकीर्तितो ॥१५७॥
द्विनाथक्षेत्रयोरत्र क्रियते निर्णयोऽधुना ।
द्वावेवाधिपती विप्र युक्तौ स्वर्क्षे स्थितौ यदि ॥१५८॥
वर्ष द्वादशकं तत्र न चेदेकादि चिन्तयेत् ।
एकः स्वक्षेत्रयोऽन्यस्तु परत्र यदि संस्थितः ॥१५९॥
तदाऽन्यत्र स्थितं नाथं परिगृह्य दशां नयेत् ।
द्वावप्यन्यर्क्षगौ तौ चेत् तमोर्मध्ये च यो बली ॥१६०॥
तत एव दशा ग्राह्या क्रमाद् वोत्क्रमतो द्विजः ।
बलस्याऽत्र विचारे स्यादग्रहात् सग्रहो बली ॥१६१॥
द्वावेव सग्रहौ तौ चेत् बली तत्राधिकग्रहः ।
ग्रहयोगसमानत्वे ज्ञेयं राशिबलाद् बलम् ॥१६२॥
ज्ञेयाश्चरस्थिरद्वन्द्वाः क्रमतो बलशालिनः ।
राशिसत्त्वसमानत्वे बहुवर्षो बली भवेद् ॥१६३॥
एकः स्वोच्चगतश्चाऽन्यः परत्र यदि संस्थितः ।
गृह्णीयादुच्चखेटस्थं राशिमन्यं विहाय वै ॥१६४॥
उच्चखेटस्य सद्भावे वर्षमेकं च निक्षिपेत् ।
तथैव नीचखेटस्य वर्षमेकं विशोधयेत् ॥१६५॥
एवं सर्वं समालोच्य जातकस्य फलं वदेत् ॥१६६॥
क्रमादुत्क्रमतो वाऽपि धर्मभावपदक्रमात् ।
लग्नराशिं समारभ्य विज्ञश्चरदशां नयेत् ॥१६७॥
अथाऽहं संप्रवक्ष्यामि स्थिरसंज्ञां दशां द्विज ।
चरे सप्त स्थिरे चाऽष्टौ द्वन्द्वे नव समाः स्मृताः ॥१६८॥
स्थिरत्वाच्च दशाब्दानां स्थिराख्येति निगद्यते ।
ब्रह्मखेटाश्रितर्क्षादिर्दशेयं परिवर्तते ॥१६९॥
योऽसौ ब्रह्मग्रहः प्रोक्तः कथं स ज्ञायते मुने ।
इति स्पष्टतरं ब्रूहि कृपाऽस्ति यदि ते मयि ॥१७०॥
षष्ठाष्टव्ययनाथेषु यो बली विषमर्क्षगः ।
पृष्ठस्थितो भवेद् ब्रह्मां बलिनो लग्नजाययोः ॥१७१॥
कारकादष्टमेशो वा ब्रह्माऽप्यष्टभावगः ।
शनौ पाते च ब्रह्मत्त्वे ब्रह्मा तत्षष्ठखेचरः ॥१७२॥
बहवो लक्षणक्रान्ता ज्ञेयस्तेष्वधिकांशकः ।
अंशसाम्ये बलाधिक्याद् विज्ञेयो ब्रह्मखेचरः ॥१७३॥
योगार्धे च दशामानं द्वयोर्योगार्धसम्मितम् ।
लग्नसप्तमप्राण्यादिर्दशेयं च प्रवर्तते ॥१७४॥
लग्नसप्तमयोर्मध्ये यो राशिर्बलवान् भवेत् ।
ततः केन्द्रादिसंस्थानां राशीनाञ्च बलक्रमात् ॥१७५॥
कारकादपि राशीनां खेटानां चैवमेव हि ।
दशाब्दाश्चरवज्ज्ञेयाः खेटानां च स्वभावधि ॥१७६॥
द्विराश्यधिपक्षेटस्य गण्येदुभयावधि ।
उभयोर्धिक संख्या कारकस्य दशा समाः ॥१७७॥
आत्मकारकमारभ्य कारकाख्यदशा क्रमात् ।
लग्नात् कारकपर्यन्तं संख्यामत्र दशां विदुः ॥१७८॥
मण्डूकापरपर्याया त्रिकूटाख्यदशा द्विज ।
लग्नसप्तमयोर्मध्ये यो राशिर्बलवान् भवेत् ॥१७९॥
ततः क्रमेणौजराशौ समे नेया तथोऽत्क्रमात् ।
त्रिकूटानां च विज्ञेयाः स्थिरवच्च दशा समाः ॥१८०॥
निर्याणस्य विचारार्थं कैश्चिछूलदशा स्मृता ।
लग्नसप्तमतो मृत्युभयोर्यो बलवान् भवेत् ॥१८१॥
तदादिर्विषमे विप्र क्रमादुत्क्रमतः समे ।
दशाब्दाः स्थिरवत्तत्र बलिमारकभे मृतिः ॥१८२॥
जन्मलग्नत्रिकोणेषु यो राशिर्बलवान् भवेत् ।
तमार्भ्य नयेद् धीमान् चरिपर्यायवद् दशाम् ॥१८३॥
क्रमादुत्क्रमतो ग्राह्यं त्रिकोणं विषमे समे ।
त्रिकोणाख्यदशा प्रोक्ता समा नाथावसानकाः ॥१८४॥
लग्नाद् धर्मस्य तद्दृष्टराशीनां च दशास्ततः ।
दशमस्य च तद्दृष्टराशीनां च नयेत् पुनः ॥१८५॥
एकादशस्य तद्दृष्टराशीनां स्थिरवत् समाः ।
प्रवृत्ता दृग् वशाद्यस्माद् दृग्दशेयं ततः स्मृता ॥१८६॥
चरे व्युत्क्रमतो ग्राह्या दृग्योग्याः स्थिरभे क्रमात् ।
विषमे क्रमतो द्वन्द्वे राशयो व्युत्क्रमात् समे ॥१८७॥
ऋक्षे लग्नादिराशीनां दशा राशिदशा स्मृता ।
भयातं रविभिर्निघ्नं भभोगविहृतं फलम् ॥१८८॥
राश्याद्यं लग्नराश्यादौ योज्यं द्वादशशेषितम् ।
तदारभ्य क्रमादोजे दशा ज्ञेयोत्क्रमात् समे ॥१८९॥
दशाब्दा भुक्तभागघ्ना त्रिंशता विहृताह् फलम् ।
भुक्तं वर्षादिकं ज्ञेयं भोग्यं मानाद् विशोधितम् ॥१९०॥
अकारादीन् स्वरान् पञ्च प्रथमं विन्यसेत् क्रमात् ।
कादिहान्तांल्लिखेद् वर्णान् स्वराधो ङञणोज्झितान् ॥१९१॥
तिर्यक् पंक्तिक्रमेणैव पञ्चपञ्चविभागतः ।
न प्रोक्ता ङञणा वर्णा नामादौ सन्ति ते नहि ॥१९२॥
चेद् भवन्ति तदा ज्ञेया गजडास्ते यथाक्रमात् ।
यत्र स्वरे स्वनामाद्यवर्णः स्यात् तत्स्वरादयः ॥१९३॥
क्रमात् पंच दशाधीशाः द्वादशद्वादशाब्दकाः ।
स्वराणां च क्रमाज्ज्ञेयाः दशास्वन्तर्दशादयः ॥१९४॥
पूर्वमेव मया प्रोक्ता वर्णदाख्या दशा द्विज ।
इदानीं शम्भुना प्रोक्ता कथ्यते योगिनी दशा ॥१९५॥
मङ्गला पिङ्गला धन्या भ्रामरी भद्रिका तथा ।
उल्का सिद्धा संकटा च योगिन्योऽष्टौ प्रकीर्तिताः ॥१९६॥
मङ्गलातोऽभवच्चन्द्रः पिङ्गलातो दिवाकरः ।
धन्यातो देवपूज्योऽभूद् भ्रामरीतोऽभवत् कुजः ॥१९७॥
भर्दिकातो बुधो जातस्तथोल्कातः शनैश्चरः ।
सिद्धातो भार्गवि जातः संकटातस्तमोऽभवद् ॥१९८॥
जन्मर्क्ष च त्रिभिर्युक्तं वसुभिर्भागमाहरेत् ।
एकादिशेषे विज्ञेया योगिन्योः मङ्गलादिकाः ॥१९९॥
एकाद्येकोत्तरा ज्ञेयाः क्रमादासां दशासमाः ।
नक्षत्रयातभोगाभ्यां भुक्तं भोग्यं च साधयेत् ॥२००॥
येषां यदायुः संप्रोक्तं पैण्डमांशं निसर्गजम् ।
तक्षत् तेषां दशा ज्ञेया पैण्डी चांशी निसर्गजा ॥२०१॥
बली लग्नार्कचन्द्राणां यत्तस्य प्रथमा दशा ।
तत्केन्द्रादिगतानां च ज्ञेया बलवशात्ततः ॥२०२॥
अष्टवर्गबलेनैषां फलानि परिचिन्तयेत् ।
अष्टवर्गदशाश्चैताः कथिताः पूर्वसूरिभिः ॥२०३॥
परायुर्द्वादशो भागस्तस्य सन्ध्या प्रकीर्तिता ।
तन्मिता लग्नभादीनां क्रमात् सन्ध्यादशा स्मृता ॥२०४॥
सन्ध्या रसगुणा कार्या चन्द्रवह्निहृता फलम् ।
संस्थाप्यं प्रथमे कोष्ठे तदर्धं त्रिषु विन्यसेत् ॥२०५॥
त्रिभागं वसुकोष्ठेषु विन्यस्य तत्फलं वदेत् ।
एवं द्वादशभावेषु पाचकानि प्रकल्पयेत् ॥२०६॥
विंशत्तरिदशेवाऽत्र कैश्चित् तारादशा स्मृता ।
आशंकुरागुशबुकेश्वादिस्थानेषु तारकाः ॥२०७॥
अन्मसम्पत्विपत्क्षेमप्रत्यरिः साधको बधः ।
मैत्रं परममैत्रं च केन्द्रस्थबलिनो ग्रहात् ॥२०८॥
ज्ञेया तारादशा विप्र नामतुल्यफलप्रदा ।
यस्य केन्द्रे स्थितः खेटो दशेयं तस्य कीर्तिता ॥२०९॥
इति ते कथिता विप्र दश भेदा अनेकधा ।
एतदन्तर्दशाभेदान् कथयिष्यामि चाग्रतः ॥२१०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-07-26T08:17:16.3570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

portfolio

  • पु. रोखासंग्रह 
  • १.संविभाग, २ंइवेश सूची 
  • पु. कार्यविभाग 
  • न. खाते 
More meanings
RANDOM WORD

Did you know?

हिंदू धर्मात मुलाचे जावळ काढतात परंतु मुलीचे का काढत नाहीत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.