संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ५०

बृहत्पाराशरहोराशास्त्रम् - अध्याय ५०

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


चरस्थिरादिसंज्ञा या दशाः प्रोक्ताः पुरा द्विज ।
शुभाऽशुभफलं तासां कथयामि तवाऽग्रतः ॥१॥
लग्नादिद्वादशान्तानां भावानां फलकीर्तने ।
तत्तद्राशीशवीर्येण यथायोग्यं प्रयोजयेत् ॥२॥
बलयुक्ते च राशीशे पूर्णं तस्य तदा फलम् ।
फलं मध्य्बले मध्यं बलहीने विपर्ययः ॥३॥
यो यो दशाप्रदो राशिस्तस्य रन्ध्रत्रिकोणके ।
पापखेटयुते विप्र तद्दशा दुःखदायिका ॥४॥
तृतीयषष्ठगे पापे ज्यादिः परिकीर्तितः ।
शुभखेटयुते तत्र जायते च पराजयः ॥५॥
लाभस्थे च शुभे पापे लाभो भवति निश्चितः ।
यदा दशाप्रदो राशिः शुभखेटयुतो द्विज ॥६॥
शुभक्षेत्रे हि तद्राशेः शुभं ज्ञेयं दशाफलम् ।
पापयुक्ते शुभक्षेत्रे पूर्वं शुभमसत्परे ॥७॥
पापर्क्षे शुभसंयुक्ते पूर्वं सौख्यं ततोऽशुभम् ।
पापक्षेत्रे पापयुक्ते सा दशा सर्वदुखदा ॥८॥
शुभक्षेत्रदशा राशौ युक्ते पापशुभैर्द्विज ॥९॥
पूर्वं कष्टं सुखं पश्चान्निर्विशङ्कं प्रजायते ।
शुभक्षेत्रे शुभं वाच्यं पापर्क्षे त्वशुभं फलम् ॥१०॥
द्वितीये पञ्चमे सौम्ये राजप्रीतिर्जयो ध्रुवम् ।
पापे तत्र गते ज्ञेयमशुभं तद्दशाफलम् ॥११॥
चतुर्थे तु शुभं सौख्यमारोग्यं त्वष्टमे शुभे ।
धर्मवृद्धिर्गुरुजनात्सौख्यं च नवमे शुभे ॥१२॥
विपरीते विपर्यासो मिश्रे मिश्रं प्रकीर्तितम् ।
पाके भोगे च पापाढ्ये देहपीडा मनोव्यथा ॥१३॥
सप्तमे पाकभोगाभ्यां पापे दारार्तिरीरिता ।
चतुर्थे स्थानहानिः स्यात्पञ्चमे पुत्रपीडनम् ॥१४॥
दशमे कीर्तिहानिः स्यान्नवमे पितृपीडनम् ।
पाकाद्रुद्रागते पापे पीडा सर्वाप्यबाधिका ॥१५॥
उक्तस्थानगते सौम्ये ततः सौख्यं विनिर्दिशेत् ।
केन्द्रस्थानगते सौम्ये लाभः शत्रुजपप्रदः ॥१६॥
जन्मकालग्रहस्थित्या सगोचगग्रहैरपि ।
विचारितैः प्रवक्तव्यं तत्तद्राशिद/साफलम् ॥१७॥
यश्च राशिः शुभाकान्तो यस्य पश्चाच्छुभग्रहाः ।
तद्दशा शुभदा प्रोक्ता विपरीते विपर्ययः ॥१८॥
त्रिकोणरन्ध्ररिष्फस्थैः शुभपापैः शुभाऽशुभम् ।
तद्दशायां च वक्तव्यं फलं दैवविदा सदा ॥१९॥
मेषकर्कतुलानक्रराशीनां च यथाक्रमम् ।
बाधा स्तानानि सम्प्रोक्ता कुभगोसिंहवृश्चिकाः ॥२०॥
पाकेशाक्रान्तराशौ वा बाधास्थाने शुभेतरे ।
स्थिते सति महाशोको बन्धनव्यसनामयाः ॥२१॥
उच्चस्वर्क्षग्र्हे तस्मिञ्छुभं सौख्यं धनागमः ।
तच्छून्यं चेदसौख्यं स्यात्तद्दशा न फलप्रदा ॥२२॥
बाधकव्ययषडरन्ध्रे राहुयुक्ते महद्भयम् ।
प्रस्थाने बन्धनप्राप्ती राजपीडा रिपोभयम् ॥२३॥
रव्यारराहुशनयो भुक्तिराशौ स्थिता यदि ।
तद्राशिभिक्तौ पतनं राजकोपान् महद्भयम् ॥२४॥
भुक्तिराशित्रिकोणे तु नीचखेटः स्थितो यदि ।
तद्राशौ वा युते नीचे पापे मृत्युभयं वदेत् ॥२५॥
भुक्तिराशौ स्वतुङ्गस्थे त्रिकोणे वापि खेचरे ।
यदा भुक्तिदशा प्राप्ता तदा सौख्यं लभेन्नरः ॥२६॥
नगरग्रामनाथत्वं पुत्रलाभं धनागमम् ।
कल्याणं भूरिभाग्यं च सेनपत्यं महोन्नतम् ॥२७॥
पाकेश्वरो जीवदृष्टः शुभराशिस्थितो यदि ।
तद्दशायां धनप्राप्तिर्मङ्गलं पुत्रसम्भवम् ॥२८॥
सितासितभयुग्माश्च सूर्यस्य रिपुराशयः ।
कौर्पितौलिघटाश्चेन्द्रोर्भौमस्य रिपुराशयः ॥२९॥
घटमीननृयुल्तौलिकन्या ज्ञस्य ततः परम् ।
कर्कमीनालिकुम्भाश्च राशयो रिपवः स्मृताः ॥३०॥
वृषतौलिनृयुक्कन्याराशयो रिपवो गुरोः ।
सिंहालिकर्कचापाश्च शुकस्य रिपुराशयः ॥३१॥
मेषसिंहधनुःकौर्पिकर्कटा शनिशत्रवः ।
एवं ग्राहन्तरदाशां चिन्तयेत्कोविदो द्विज ॥३२॥
ये राजयोगदा ये च शुभमध्यमता ग्रहाः ।
यस्माद्वा द्वित्रितुर्यस्थाः ग्रहाः शुभफलप्रदाः ॥३३॥
तद्दशानां शुभं ब्रूयाद्राजयोगादिसम्भवम् ।
शुभद्वयान्तरगतः पापोऽपि शुभदः स्मृतः ॥३४॥
गता शुभदशामध्यं दशा सौम्यस्य शोभना ।
शुभा यस्य त्रिकोणस्थस्तद्दशापि शुभप्रदा ॥३५॥
आरम्भान्तो मित्रशुभराश्योर्यदि फलं शुभम् ।
प्रतिराश्यैवमव्दाद्यं विभज्य तत्फलं वदेत् ॥३६॥
आरम्भात्तत्त्रिकोणे तु सौम्ये तु शुभभावहेत् ।
शुभराशौ शुभारम्भे दशा स्यादतिशोभना ॥३७॥
शुभादिराशौ पापश्चेद्दशारम्भे शुभा स्मृता ।
शुभारम्भे कथा केति प्रारम्भस्य फलं वदेत् ॥३८॥
आरम्भे पापराशौ वा यदीशो दुर्बलो द्विज ।
नीचादौ तद्दशाद्यन्ते वदेद्भाग्यविपर्ययम् ॥३९॥
यत्र स्थितो नीचखेटस्त्रिकोणे वाऽथ नीचगः ।
तथा राशीश्वरे नीचे सम्बन्धो नीचखेटकैः ॥४०॥
भाग्यस्य विपरीतत्वं करोत्येव द्विजोत्तम ।
धनधान्यादिहानिश्च देहे रोगभयं तथा ॥४१॥
राहोः केतोश्च कुम्भादि वृश्चिकादि चतुष्टयम् ।
स्वभं तत्र समारम्भस्तद्दशायां शुभं भवेत् ॥४२॥
यद्दशायां शुभं ब्रूयात्स चेन्मारकसंस्थितः ।
यस्मिन् राशौदशान्तःस्यात्तस्मिन् दृष्टे युतेऽपि वा ॥४३॥
शुक्रेण विधुना वा स्याद्राजकोपाद्धनक्षयः ।
दशान्तश्चेदरिक्षेत्रे राहुदृष्टयुतेऽपि वा ॥४४॥
इदं फलं शनेः पाके न विचिन्त्यं द्विजोत्तम ।
दशाप्रदे नक्रराशौ न विचिन्त्यमिदं फलम् ॥४५॥
राहुर्दशान्ते सर्वस्वनाशो मरणबन्धने ।
दशान्निर्वासनं वा स्यात्कष्टं वा महदश्नुते ॥४६॥
तत्त्रिकोणगते पापे निश्चयाद्दुःखमादिशेत् ।
एवं शुभाशुभं सर्वं निश्चयेन वदेद् बुधः ॥४७॥
राह्वाद्याश्रितराशिस्तु भवेद्यदि दशाप्रदः ।
तत्र कालेऽपि पूर्वोक्तं चिन्तनीयं प्रयत्नतः ॥४८॥
द/सारम्भो दशान्तो वा मारके चेन्न शोभनम् ।
तस्मिन्नेव च राहुश्चन्नरोधो द्रव्यनाशनः ॥४९॥
यत्र क्वापि च भे राहौ दशारम्भे विनाशनम् ।
गृहभ्रंशः समुद्दिष्टो धने राहुधनार्तिकृत् ॥५०॥
चन्द्र्शुक्रौ द्वादश चेद्राजकोपो भवेद्ध्रुवम् ।
भौमकेतू तत्र यदि वधोऽग्नेर्महती व्यथा ॥५१॥
चेन्द्रशुक्रौ धने विप्र यदि राज्यं प्रयच्छतः ।
दशारम्भे दशान्ते च द्वितीयस्थमिदं फलम् ॥५२॥
एवमर्गलभावानां फलं विज्ञैः प्रदर्शितम् ।
यस्य पापः शुभो वाऽपि ग्रहस्तिष्ठेच्छुभार्गले ॥५३॥
तेन द्रष्ट्रेक्षिते लग्नं पाबल्यायोपकल्प्यते ।
यदि पश्येद्ग्रहस्तन्न विपरीतार्गलस्थितः ॥५४॥
तद्भावस्य दशायास्तु विपरीतफलं भवेत् ।
सद्दृष्टेऽपि शुभं ब्रूयान्निर्विशंकं द्विजोत्तम ॥५५॥
यस्मिन्भावे शुभस्वामिसम्बन्धस्तुङ्गखेचरः ।
स्यात्तद्भावदशायां तु अन्त्यैश्वर्यमखण्डितम् ॥५६॥
यद्भावेशः स्वार्थराशिमधितिष्ठति पश्यति ।
स्यातद्भावदशाकाले धनलाभो महत्तरः ॥५७॥
यस्माद्व्ययगतो यस्तु तद्दशायां धनक्षयः ।
यस्मात्त्रिकोणगाः पापास्तत्रात्मशुभनाशनम् ॥५८॥
पुत्रहानिः पितुः पीडा मनस्तापो महान् भवेत् ।
यस्मात्त्रिकोण्गा रिःफरन्ध्रेशार्कारसूर्यजाः ॥५९॥
पुत्रपीडा द्रव्यहानिस्तत्र केत्वहिसङ्गमे ।
विदेशभ्रमणं क्लेशो भयं चैव पदे पदे ॥६०॥
तस्मात्षष्ठाष्टमे क्रूरनीचखेटादयः स्थिताः ।
रोगशत्रुनृपालेभ्यो मुहुः पीडा सुदुःसहा ॥६१॥
यस्माच्चतुर्थः क्रूरः स्याद्भूगृहक्षेत्रनाशनम् ।
पशुहानिस्तत्र भौमे गृहदाहः प्रमादकृत् ॥६२॥
शनौ हृदयशूलं स्यात्सूर्ये राजप्रकोपनम् ।
सर्वस्वहरणं राहौ विषचौरादिजं भयम् ॥६३॥
यस्माद् दशमभे राहुः पुण्यतीर्थाटनं भवेत् ।
यस्मात्कर्मायभाग्यर्क्षगतः शोभनखेचराः ॥६४॥
विद्यार्थधर्मसत्कर्मख्यातिपौरुषसिद्धयः ।
यतः पञ्चमकामारिगताः स्वोच्चशुभग्रहाः ॥६५॥
पुत्रदारादिसंप्राप्तिर्नृपपूजा मह्त्तरा ।
यस्मान्पुत्रायकर्माम्बुनवलग्नाधिपाः स्थिताः ॥६६॥
तत्तद्भावार्थसिद्धिः स्याच्छ्रेयो योगानुसारतः ।
यस्मिन् गुरुर्वा शुक्रोवा शुभेशो वापि संस्थितः ॥६७॥
कल्याणं सर्वसंपत्तिर् देवब्राह्मणतर्पनम् ।
यत्चतुर्थे तुङ्गखेटाः शुभस्वामी ग्रहश्च वा ॥६८॥
वाहनग्रामलाभश्च पशुवृद्धिश्च भूयसी ।
तत्र चन्द्रे च लाभः स्याद्बहुधान्यरसान्वितः ॥६९॥
पूर्णे विधौ निधिप्राप्तिर्लभेद्वा मणिसञ्जयम् ।
तत्र सुक्रे भृदङ्गादिवाद्यगानपुरस्कृतः ॥७०॥
आन्दोलिकाप्तिर्जीवे तु कनकांदोलिका ध्रुवम् ।
लग्नकर्मेशभाग्येशतुङ्गस्थशुभयोगतः ॥७१॥
सर्वोत्कर्षमहैश्वर्यसाम्राज्यादिमहत्फलम् ।
एवं तत्तद्भावदायफलं यत्स्याद्विचिन्तयेत् ॥७२॥
एकैकोडुदशा स्वीयैर्गुणैरष्टादशात्मभि ।
भिन्नं फलविपाकं तु कुर्याद्वै चित्रसंयुतम् ॥७३॥
परमोच्चे तुङ्गमात्रे तदर्वाक्तदुपर्यपि ।
मूलत्रिकोणभे स्वर्क्षे स्वाधिमित्रग्रहस्य भे ॥७४॥
तत्कालसुहृदो गेहे उदासीनस्य भे तथा ।
शर्तोर्भेऽधिरिपोर्भे च नीचान्तादूर्ध्वदेशभे ॥७५॥
तस्मादर्वाङ् नीचमात्र नीचान्ते परमांशके ।
नीचारिवर्गे सखले स्ववर्गे केन्द्रकोणभे ॥७६॥
व्यवस्थितस्य खेटस्य समरे पीडितस्य च ।
गाढपूढस्य च दशापचितिः स्वगुणैः फलम् ॥७७॥
परमोच्चगतो यस्तु योऽतिवीर्यसमन्वितः ।
सम्पूर्णाख्या दशा तस्य राज्यभोओग्यशुभप्रदा ॥७८॥
लक्ष्मीकटाक्षचिह्नानां चिरवासगृहप्रदा ।
तुङ्गमात्रगतस्यापि तथा वीर्याधिकस्य च ॥७९॥
पूर्णाख्या बहुलैश्वर्यदायिन्यापि रुजप्रदा ।
अतिनीचगतस्यापि दुर्बलस्य ग्रहस्य तु ॥८०॥
रिक्ता त्वनिष्टफलदा व्याध्यनर्थमृतिप्रदा ।
अत्युच्चेऽप्यतिनीचस्थे मध्यगस्यावरोहिणी ॥८१॥
मित्रोच्चभावप्राप्तस्य मध्याख्या ह्यर्थदा दशा ।
नीचांतादुच्चभागान्तं भषट्के मध्यगस्य च ॥८२॥
दशा चारोहिणी नीचरिपुभांशगतस्य च ।
अधमाख्या भयक्लेशव्याधिदुःखविवर्धिनी ॥८३॥
नामानुरूपफलदाः पाककाले दशा इमाः ।
भाग्येशगुरुसम्बन्धो योगदृक्केन्द्रभादिभिः ॥८४॥
परेषामपि दायेषु भग्योपक्रममुन्नयेत् ।
जातको यस्तु फलदो भग्ययोगप्रदोऽथ यः ॥८५॥
सफलो वक्रिमादूर्ध्वमन्यानपि च खेचरान् ।
दुर्बलानसमर्थांश्च फलदानेषु यागतः ॥८६॥
तारतम्यात्सुसम्बन्धा दशा ह्येताः फलप्रदाः ।
स्वकेन्द्रादिजुषां तेषां पूर्णार्द्धांघ्रिव्यवस्थया ॥८७॥
शीर्षोदयभगाः स्वस्वदशादौ स्वफलप्रदाः ।
उभयोदयराशिस्थदशा मध्यफलप्रदा ॥८८॥
पृष्ठोदयर्क्षगाः खेटाः स्वदशान्ते फलप्रदाः ।
निसर्गतश्च तत्काले सुहृदां हरणे शुभम् ॥८९॥
सम्पादयेत्तदा कष्टं तद्विपर्ययगामिनाम् ।
दशेशाक्रांतभावर्क्षादारभ्य द्वादशर्क्षकम् ॥९०॥
भक्त्वा द्वादशराशीनां दशाभुक्ति प्रकल्पयेत् ।
एकैकराशेर्या तत्र सुहृत्स्वक्षेत्रगामिनी ॥९१॥
तस्यां राज्यादिसम्पत्तिपूर्वकं शुभमीरयेत् ।
दुःस्थानरिपुगेहस्थनीचक्रूरयुता च या ॥९२॥
तस्यामनर्थकलहं रोगमृत्युभयादिकम् ।
बिन्दुभूयस्त्वशून्यत्ववशात् स्वीयाष्टवर्गके ॥९३॥
वृद्धिं हानिं च तद्राशिभावस्य स्वगृहात्क्रमात् ।
भावयोजनया विद्यात्सुतस्त्र्यादिशुभाऽशुभम् ॥९४॥
धात्वादिराशिभेदाच्च धात्वादिग्रहयोगतः ।
शुभपापनशाभेदाच्छुभपापयुतैरपि ॥९५॥
इष्टानिष्टस्थानभेदात् फलभेदात् समुन्नयेत् ।
एवं सर्वग्रहाणां च स्वां स्वामन्तर्दशामपि ॥९६॥
स्वराशितो राशिभुक्तिं प्रकल्प्य फलमीरयेत् ।
अन्तरन्तर्दशां स्वीयां विभज्यैवं पुनः पुनः ॥९७॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP