TransLiteral Foundation
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ५२

बृहत्पाराशरहोराशास्त्रम् - अध्याय ५२

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


विंशोत्तरीमतेन सूर्यदशान्तर्दशाफलाध्यायः
स्वोच्चे स्व्भे स्थितः सूर्यो लाभे केन्द्रे त्रिकोणके ।
स्वदशायां स्वभुक्तौ च धनधान्यादिलाभकृत् ॥१॥
नीचाद्यशुभराशिस्थो विपरीतं फलं दिशेत् ।
द्वितीयद्यूननाथेऽर्के त्वपमृत्युभयं वदेत् ॥२॥
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ।
सूर्यप्रीतिकरीं शान्तिं कुर्यादारोग्यलब्धये ॥३॥
सूर्यस्याऽन्तर्गते चन्द्रे लग्नात्केन्द्रत्रिकोणगे ।
विवाहं शुभकार्यं च धनधान्यसमृद्धिकृत् ॥४॥
गृहक्षेत्राभिवृद्धिं च पशुवाहनसम्पदाम् ।
तुङ्गे वा स्वर्क्षगे वाऽपि दारसौख्यं धनागमम् ॥५॥
पुत्रलाभसुखं चैव सौख्यं राजसमागमम् ।
महाराजप्रसादेन इष्टसिद्धिसुखवाहम् ॥६॥
क्षीणे वा पापसंयुक्ते दारपुत्रादिपोडनम् ।
वैषम्यं जनसंवादं भृत्यवर्गविनाशनम् ॥७॥
विरोधं राजकलहं धनधान्यपशुक्षयम् ।
षष्ठाष्टमव्यये चन्द्रे जलभीतिं मनोरुजम् ॥८॥
बन्धनं रोगपीडां च स्थानविच्युतिकारकम् ।
दुःस्थानं चापि चित्तेन दायादजनविग्रहम् ॥९॥
निर्दिशेत् कुत्सितान्नं च चौरादिनृपपीडनम् ।
मूत्रकृच्छादिरोगश्च देहपीडा तथा भवेत् ॥१०॥
दायेशाल्लभभाग्ये च केन्द्रे वा शुभसंयुते ।
भोगभाग्यादिसन्तोषदारपुत्रादिवर्द्धनम् ॥११॥
राज्यप्राप्तिं महत्सौख्यं स्थानप्राप्तिं च शाश्वर्ताम् ।
विविआहं यज्ञदीक्षां च सुमाल्यामबरभूषणम् ॥१२॥
वाहनं पुत्रपौत्रादि लभते सुखवर्द्धनम् ।
दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ॥१३॥
अकाले भोजनं चैव देशाद्देशं गमिष्यति ।
द्वितीयद्यूननाथे च ह्यपमृत्युर्भविष्यति ।
श्वेतां गां महिषीं गद्याच्छान्ति कुर्यात्सुखाप्तये ॥१४॥
सूर्यस्यान्तर्गते भौमे स्वोच्चे स्वक्षेत्रलाभगे ।
लग्नात्केन्द्रत्रिकोणे वा शुभकार्यं समादिशेत् ॥१५॥
भूलाभं कृषिलाभं च धनधान्यविवर्धनम् ।
गृहक्षेत्रादि लाभं च रक्तवस्त्रादिलाभकृत् ॥१६॥
लग्नाधिपेन संयुक्ते सौख्यं राजप्रियं वदेत् ।
भाग्यलाभाधिपैर्युक्ते लाभश्चैव भविष्यति ॥१७॥
बहुसेनाधिपत्यं च शत्रुनाशं मनोदृढम् ।
आत्मबन्धुसुखम् चैव भ्रातृवर्द्धनकं तथा ॥१८॥
दायेशाद्व्ययरन्ध्रस्थे पापैर्युक्ते च वीक्षिते ।
आधिपत्यबलैर्हीने क्रूरबुद्धिं मनोरुजम् ॥१९॥
कारागृहे प्रवेशं च कथयेद् बन्धुनाशनम् ।
भ्राऋवगविरोधं च कर्मनाशमथापि वा ॥२०॥
नीचे वा दुर्बले भौमे राजमूलाद्धनक्षयः ।
द्वितीयद्यूननाथे तु देहे जाड्यं मनोरुजम् ॥२१॥
सुब्रह्मजपदानं च वृषोत्सर्गं तथैव च ।
शान्तिं कुर्वीत विद्यिवदायुरारोग्यसिद्धिदाम् ॥२२॥
सूर्यस्यान्तर्गते राहौ लग्नात्केन्द्रत्रिकोणगे ।
आदौ द्विमासपर्यन्तं धननाशो महद्भयम् ॥२३॥
चौरादिव्रणभीतिश्च दारपुत्रादिपीडनम् ।
तत्परं सुखमाप्नोति शुभयुक्ते शुभांशके ॥२४॥
देहारोग्यं मनस्तुष्टि राजप्रीतिकरं सुखम् ।
लग्नादुपचये राहौ योगकारकसंयुते ॥२५॥
दायेशाच्छुभराशिस्थे राजसन्मानमादिशेत् ।
भाग्यवृद्धिं यशोलाभं दारपुत्रादिपीडनम् ॥२६॥
पुत्रोत्सवादिसन्तोषं गृहे कल्याणशोभनं ।
दायेशादथ रिष्फस्थे रन्ध्रे वा बलवर्जिते ॥२७॥
बन्धनं स्थाननाशश्च कारागृहनिवेशनम् ।
चौरादिव्रणभीतिश्च दारपुत्रादिवर्द्धनम् ॥२८॥
चतुष्पाज्जीवनाशश्च गृहक्षेत्रादिनाशनं ।
गुल्मक्षयादिरोगश्च ह्यतिसारादिपीडनं ॥२९॥
द्विस्फस्थे तथा राहौ तत्स्थानाधिपसंयुते ।
अपमृत्युभयं चैव सर्पभीतिश्च सम्भवेत् ॥३०॥
दुर्गाजपं च कुर्वीत् छागदानं समाचरेत् ।
कृष्णां गां महिषीं दद्यच्छान्तिमाप्नोत्यसंशयम् ॥३१॥
सूर्यस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे मित्रस्य वर्गस्थे विवाहं राजदर्शनम् ॥३२॥
धनधान्यादिलाभ च पुत्रलाभं महत्सुखं ।
महाराजप्रसादेन इष्टकार्यार्थलाभकृत् ॥३३॥
ब्राह्मण्प्रियसन्मानं प्रियवस्त्रादिलाभकृत् ।
भाग्यकर्माधिपवशाद्राज्यलाभं वदेद् द्विज ॥३४॥
नरवाहनयोगश्च स्थानाधिक्यं महत्सुखम् ।
दायेशाच्छुभराशिस्थे भाग्यवृद्धिः सुखावहा ॥३५॥
दीनधर्मक्रियायुक्तो देवताराधनप्रियः ।
गुरुभक्तिर्मनःसिद्धिः पुण्युकर्मादिसंग्रहः ॥३६॥
राशेशाद्रिपुरन्ध्रस्थे नीचे वा पापसंयुते ।
दारपुत्रादिपीडा च देहपीडा महद्भयम् ॥३७॥
राजकोपं प्रकुरुतेऽभीष्टवस्तुविनाश्नम् ।
पापमूलद्द्रव्यनाशं देहभ्रष्टं मनोरुजम् ॥३८॥
स्वर्णदानं प्रकुर्वीत स्वेष्टजाप्यं च कारयेत् ।
गवां कपिलवर्णानां दानेनारोग्यमादिशेत् ॥३९॥
सूर्यस्यान्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे ।
शत्रुनाशो महत्सौख्यं स्वल्पधान्यार्थलाभकृत् ॥४०॥
विवाहादिसुकार्यञ्च गृहे तस्य शुभावहम् ।
स्वोच्चे स्वक्षेत्रगे मन्दे सुहृद्ग्रहसमन्विते ॥४१॥
गृहे कल्याणसम्पत्तिर्विवाहादिषु सत्क्रिया ।
राजसन्मानकीर्तिश्च नानावस्त्रधनागमम् ॥४२॥
दायेशादथ रन्ध्रस्थे व्यये वा पापसंयुते ।
वातशूलमहाव्याधिज्वरातीसारपीडनम् ॥४३॥
बन्धनं कार्यहानिश्च वित्तनाशो महद्भयम् ।
अकश्मात्कलहश्चैव दायादजनविग्रहः ॥४४॥
भुक्त्यादौ मित्रहानिःस्यान्मध्ये किञ्चित्सुखावहम् ।
अन्ते क्लेशकरं चैव नीचे तेषां तथैव च ॥४५॥
पितृमातृवियोगश्च गमनागममं तथा ।
द्वितीयद्यूननाथे तु अपमृत्युभयं भवेत् ॥४६॥
कृष्णां गां महिषीं दद्यान्मृत्युञ्जयजपं चरेत् ।
छागदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् ॥४७॥
सूर्यास्यान्तर्गते सौम्ये स्वोच्चे वा स्वर्क्षगेऽपि वा ।
केन्द्रत्रिकोणलाभस्थे बुधे वर्गबलैर्युते ॥४८॥
राज्यलाभो महोत्साहो दारपुत्रादिसौख्यकृत् ।
महारजप्रसादेन वाहनाम्बरभूषणं ॥४९॥
पुण्यतीर्थफलावाप्तिर्गृहे गोधनसंकुलम् ।
भाग्यलाभाधिपैर्युक्ते लाभवृद्धिकोरो भवेत् ॥५०॥
भाग्यपंचमकर्मस्थे सन्मानो भवति ध्रुवम् ।
सुकर्मधर्मबुद्धिश्च गुरुदेवद्विजार्जनम् ॥५१॥
धनधान्यादिसंयुक्तो विवाहः पुत्रसम्भवः ।
दायेशाच्छुभराशिस्थे सौम्ययुक्ते महत्सुखम् ॥५२॥
वैवाहिकं यज्ञकर्म दानधर्मजपादिकम् ।
स्वनामाङ्कितपद्यानि नामद्वयमथाऽपि वा ॥५३॥
भोजनाम्बरभूषाप्तिरमरेशो भवेन्नरः ।
दायेशाद्रिपुरन्ध्रस्थे रिष्फगे नीचगेऽपि वा ॥५४॥
देहपीडा मनस्तापो दारपुत्रादिपीडनम् ।
भुक्त्यादौ दुःखमाप्नोति मध्ये किञ्चित्सुखावहम् ॥५५॥
अन्ते तु राजभीतिश्च गमनागमनं तथा ।
द्वितीये द्यूननाथे तु देहजाड्यं ज्वरादिकम् ॥५६॥
विष्णुनामसहस्रं च ह्यन्नदानं च कारयेत् ।
रजतप्रतिमादानं कुर्यादारोग्यसिद्धये ॥५७॥
सूर्यस्यान्तर्गते केतौ देहपीडा मनोव्यथा ।
अर्थव्ययं राजकोपं स्वजनादेरुपद्रवम् ॥५८॥
लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमम् ।
मध्ये तत्क्लेशमाप्नोति मृतवार्तागमं वदेत् ॥५९॥
अथाष्टमव्यये चैवं दायेशात्पापसंयुते ।
कपोलदन्तरोगश्च मूत्रकृर्च्छस्य सम्भवः ॥६०॥
स्थानविच्युतिरर्थस्य मित्रहानिः पितुर्मृतिः ।
विदेशगमनं चैव शत्रुपीडा महद्भयम् ॥६१॥
लग्नादुपचये केतौ योगकारकसंयुते ।
शुभांशे शुभवर्गे च शुभकर्मफलोदयः ॥६२॥
पुत्रदारादिसौख्यं च सन्तोषं प्रियवर्द्धनम् ।
विचित्रवस्त्रलाभश्च यशोवृद्धिः सुखावहा ॥६३॥
द्वितीयाद्यूननाथे वा ह्यपमृत्युभयं वदेत् ।
दुर्गाजपं च कुर्वीत छागदानं सुखाप्तये ॥६४॥
सूर्यस्यान्तर्गते शुक्रे त्रिकोणे केन्द्रगेऽपि वा ।
स्वोच्चे मित्रस्ववर्गस्थेऽभीष्टस्त्रीभोग्यसम्पदः ॥६५॥
ग्रामान्तरप्रयाणं च भाह्मणप्रभुदर्शनम् ।
राज्यलाभो महोत्साहश्छत्रचामरवैभवम् ॥६६॥
गृहे कल्याणसम्पत्तिर्नित्यं मिष्ठान्नभोजनम् ।
विद्रुमादिरत्नलाभो मुक्तावस्त्रादि लाभकृत् ॥६७॥
चतुष्पाज्जीवलाभः स्याद्बहुधान्यधनादिकम् ।
उत्साहः कीर्तिसम्पत्तिर्नरवाहनसम्पदः ॥६८॥
षष्ठाष्टमव्यये शुक्रे दायेशाद्बलवर्जिते ।
राजकोपो मनःक्लेशः पुत्रस्त्रीधननाशनम् ॥६९॥
भुक्त्यादौ मध्यमं मध्ये लाभः शुभकरो भवेत् ।
अन्ते यशोनाशनं च स्थानभ्रंशमथापि वा ॥७०॥
बन्धुद्वेषं वदेद् वापि स्वकुलाद्भोगनाशनम् ।
भार्गवे द्यूननाथे तु देहे जाड्यं रुजोभयम् ॥७१॥
रन्ध्ररिष्फसमायुक्ते ह्यपमृत्युर्भविष्यति ।
तद्दोषपरिहारार्थं मृत्युर्जयजपं चरेत् ॥७२॥
श्वेतां गां महिषीं दद्याद्रुद्रजाप्यं च कारयेत् ।
ततः शान्तिभवाप्नोति शङ्करस्य प्रसादतः ॥७३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-07-26T08:25:33.3970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कंदर्प

  • पु. १ मदन ; कामदेव . ' ऐसा नियतु कां कंदर्पु । ' - ज्ञा ७ . ५१ . ' कोटि कंदर्प लोपती पुढे । ऐसें सुंदर लावण्य रुपडें । - संवि १७ . १६४ . ( सं . कदर्प ) २ ( ल .) कांदा . ( सं . कंद + दर्प = कुत्सित दर्प (?)) - र्पाचें घर - न . योनी ; स्त्रीजनेंद्रिय ; स्मरमंदिर - गृह - कूप . ' कुश्चित कंदर्पाचें घर । म्याचि साचार सेविलें । ' - एभा २६ . ११२ . 
  • m  A name of कामदेव. An onion. 
  • ०केली पु. शृंगार ; मदनक्रीडा ; सुरतक्रीडा , संभोग . ' तेथ कंदर्पूकेळी खेळती युगळें । राजहंसाचीं ॥ ' - शिशु ६४९ . 
RANDOM WORD

Did you know?

प्रदक्षिणा कशी व कोणत्या देवास किती घालावी ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site