संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय १७

बृहत्पाराशरहोराशास्त्रम् - अध्याय १७

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अथ विप्र फलं वक्ष्ये षष्ठभावसमुद्भवम् ।
देहे रोगव्रणाद्यं तत् श्रूयतामेकचेतसा ॥१॥
षष्ठाधिपः स्वगेहे वा देहे वाऽप्यष्टमे स्थितः ।
तदा व्रणा भवेद्देहे षष्ठराशिसमाश्रते ॥२॥
एवं पित्रादिभावेशास्तत्तत्कारकसंयुताः ।
व्रणाधिपयुताश्चापि षष्ठाष्टमयुता यदि ॥३॥
तेषामपि व्रणं वाच्यमादित्ये न शिरोव्रणम् ।
इन्दुना च मुखे कण्ठे भौमेन ज्ञेन नाभिषु ॥४॥
गुरुणा नासिकायां च भृगुणा नयने पदे ।
शनिना राहुणा कुक्षौ केतुना च तथा भवेत् ॥५॥
लग्नाधिपः कुजक्षेत्रे बुधभे यदि संस्थितः ।
यत्र कुत्र स्थितो ज्ञेन वीक्षितो मुखरुक्प्रदः ॥६॥
लग्नाधिपौ कुजबुधौ चन्द्रेण यदि संयुतौ ।
राहुणा शनिना सार्द्धं कुष्ठं तत्र विनिर्दिशेत् ॥७॥
लग्नाधिपं विना लग्ने स्थितश्चेत्तमसा शशी ।
स्वेतकुष्ठं तदा कृष्णकुष्ठं च शनिना सह ॥८॥
कुजेन रक्तकुष्ठं स्यात्तत्तदेवं विचारयेत् ।
लग्ने षष्ठाष्टमाधोशौ रविणा यदि संयुतौ ॥९॥
ज्वरगण्डः कुजे ग्रन्थिः शस्त्रव्रणमथापि वा ।
बुधेन पित्तं गुरुणा रोगाभावं विनिर्दिशेत् ॥१०॥
स्त्रीभिः शुक्रेण शशिना वायुना संयुतो यदि ।
गण्डश्चाण्डालतो नाभौ तमःकेतुयुते भयम् ॥११॥
चन्द्रेण गण्डः सलिलैः कफश्लेष्मादिना भवेत् ।
एवं पित्रादिभानां तत्तत्कारकयोगतः ॥१२॥
गण्डं तेषां वदेदेवमुह्यमत्र मनीषिभिः ।
रोगस्थानगते पापे तदीशे पापसंयुते ॥१३॥
राहुणा संयुते मन्दे सर्वदा रोगसंयुतः ।
रोगस्थानगते भौमे तदीशे रंध्रसंयुते ॥१४॥
षड्वर्षे द्वादशे वर्षे ज्वररोगी भवेन्नरः ।
षष्ठस्थानगते जीवे तद्गृहे चन्द्रसंयुते ॥१५॥
द्वाविंशौकोनविंशेऽब्दे कुष्ठरोगं विनिर्दिशेत् ।
रोगस्थानं गतो राहुः केन्द्रे मान्दिसमन्विते ॥१६॥
लग्नेशे नाशराशिस्थे षड्विंशे क्षयरोगता ।
व्ययेशे रोगराशिस्थे तदीशे व्ययराशिगे ॥१७॥
त्रिंशद्वर्षैकोनवर्षे गुल्मरोगं विनिर्दिशेत् ।
रिपुस्थेनगते चन्द्रे शशिना संयुते सति ॥१८॥
पञ्चपञ्चाशदब्देषु रक्तकुष्ठं विनिर्दिशेत् ।
लग्नेशे लग्नराशिस्थे मन्दे शत्रुसमन्विते ॥१९॥
एकोनषष्टिवर्षे तु वातरोगार्दितो भवेत् ।
रंध्रेशे रिपुराशिस्थे व्ययेशे लग्नसंस्थिते ॥२०॥
चन्द्रे षष्ठेश्संयुक्ते वसुवर्षे मॄगाद्भयम् ।
षष्ठाष्टमगतो रहुस्तस्मादष्टगते शनौ ॥२१॥
जातस्य जन्मतो विप्र प्रथमे च द्वितीयके ।
वस्तरेऽग्निभयं तस्य त्रिवर्षे पक्षिदोषभाक् ॥२२॥
षष्ठाष्टमगते सूर्ये तद्व्यये चन्द्रसंयुतः ।
पंचमे नवमेऽब्दे तु जलभीतिं विनिर्दिशेत् ॥२३॥
अष्टमे मन्दसंयुक्ते तस्माद्वा द्वादशे कुजः ।
त्रिंशाब्दे दशमेऽब्दे तु स्फोटकादि विनिर्दिशेत् ॥२४॥
रंध्रेशे राहुसंयुक्ते तदंशे रंध्रकोणगे ।
द्वाविंशेऽष्टादशे वर्षे ग्रन्थिमेहादिपीडनम् ॥२५॥
लाभेशे रिपुभावस्थे रोगेशे लाभराशिगे ।
एकत्रिंशत्समे वर्षे शत्रुमूलाद्धनव्ययः ॥२६॥
सुतेशे रिपुभावस्थे षष्ठेशे गुरुसंयुते ।
व्ययेशे लग्नभावस्थे तस्य पुत्रो रिपुर्भवेत् ॥२७॥
लग्नेशे षष्ठराशिस्थे तदीशे षष्ठराशिगे ।
दशमैकोनविंशेऽब्दे शुनकाद्भीतिरुच्यते ॥२८॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP