संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय २२

बृहत्पाराशरहोराशास्त्रम् - अध्याय २२

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


लाभभावफलञ्चाथ कथयामि द्विजोत्तम ।
श्रूयतां जातको लोके यच्छुभत्वे सदा सुखी ॥१॥
लाभाधिपो यदा लाभे तिष्टेत् केन्द्रत्रिकोणयोः ।
बहुलाभं तदा कुर्यादुच्चे सूर्यांशगोऽपि वा ॥२॥
लाभेशे धनराशिस्थे धनेशे केन्द्रसंस्थिते ।
गुरुणा सहिते भावे गुरुलाभं विनिर्दिशेत् ॥३॥
लाभेशे विक्रमे भावे शुभग्रहसमन्विते ।
षट्त्रिंशे वत्सरे प्राप्ते सहस्रद्वयनिष्कभाक् ॥४॥
केन्द्रत्रिकोणगे लाभनाथे शुभसमन्विते ।
चत्वारिंशे तु सम्प्राप्ते सहस्रार्धसुनिष्कभाक् ॥५॥
लाभस्थाने गुरुयुते धने चन्द्रसमन्विते ।
भाग्यस्थानगते शुक्रे षट्सहस्राधिपो भवेत् ॥६॥
लाभाच्च लाभगे जीवे बुधचन्द्रसमन्विते ।
धनधान्याधिपः श्रीमान्त्रत्नाद्याभरणैर्युतः ॥७॥
लाभेशे लग्नभावस्थे लग्नेशे लाभसंयुते ।
त्रयस्त्रिंशे तु सम्प्राप्ते सहस्रनिष्कभाग् भवेत् ॥८॥
धनेशे लाभराशिस्थे लाभेशे धनराशिगे ।
विवाहात्परतश्चैव बहुभाग्यं समादिशेत् ॥९॥
भ्रातृपे लाभराशिस्थे लाभेशे भ्रातृसंस्थिते ।
भ्रातृभावाद्धनप्राप्तिदिव्याभरणसंयुतः ॥१०॥
लाभेशे नीचभेऽस्ते वा त्रिके पापसमन्विते ।
कृते भूरिप्रयत्नेऽपि नैव लाभः कदाचन ॥११॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP