TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ४७

बृहत्पाराशरहोराशास्त्रम् - अध्याय ४७

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


दशाफलाद्यायः
श्रुताश्च बहुधा भेदा दशानां च मया मुने ।
फलं च कीदृशं तासां कृपया मे तदुच्यताम् ॥१॥
साधारणं विशिष्टञ्च दशानां द्विविधं फलम् ।
ग्रहाणां च स्वभावेन स्थानस्थितिवशेन च ॥२॥
ग्रहवीर्यानुसारेण फलं ज्ञेयं दशासु च ।
आद्यद्रेष्काणगे खेटे दशारम्भे फलं वदेत् ॥३॥
दशामध्ये फलं वाच्यं मध्यद्रेष्काणगे खगे ।
अन्ते फलं तृतीयस्थे व्यस्तं खेटे च वक्रगे ॥४॥
दशारम्भे दशादीशे लग्नगे शुभदृग्युते ।
स्वोच्चे स्वभे स्वमैत्रे वा शुभं तस्य दशाफलम् ॥५॥
षष्ठाऽष्टमव्ययस्थे च नीचास्तरिपुभस्थिते ।
अशुभं तत्फलं चाऽथ ब्रुवे सर्वदशाफलम् ॥६॥
मूलत्रिकोणे स्वक्षेत्रे स्वोच्चे वा परमोच्चगे ।
केन्द्रत्रिकोणलाभस्थे भाग्यकर्माधिपैर्युते ॥७॥
सूर्ये बलसमायुक्ते निजवर्गबलैर्युते ।
तस्मिन्दाये महत् सौख्यं धनलाभादिकं शुभम् ॥८॥
अत्यन्तं राजसन्मानमश्वांदोल्यादिकं शुभम् ।
सुताधिपसमायुक्ते पुत्रलाभं च विन्दति ॥९॥
धनेशस्य च सम्बन्धे गजान्तैश्वर्यमादिशेत् ।
वाहनाधिपसम्बन्धे वाहनात्रयलाभकृत् ॥१०॥
नृपलतुष्टिर्वित्ताढ्यः सेनाधीशः सुखी नरः ।
वस्त्रवाहनलाभश्च दशायां बलिनो रवेः ॥११॥
नीचे षडष्टके  रिःफे दुर्बले पापसंयुते ।
राहुकेतुसमायुक्ते दुह्स्थानाधिपसंयुते ॥१२॥
तस्मिन्दाये महापीडा धनधान्यविनाशकृत ।
राजकोपः प्रवासश्च राजदण्डो धनक्षयः ॥१३॥
ज्वरपीडा यशोहानिर्बन्धुमित्रविरोधकृत ।
पितृक्षयभयं चैव गृहे त्वशुभमेव च ॥१४॥
पितृवर्गे मनस्तापं जन्द्वेषं च विन्दति ।
शुभदृष्टियुते सूर्ये मध्ये तस्मिन् क्वचित्सुखम् ।
पापग्र्हेण सन्दृष्टे वदेत्पापफलं बुधः ॥१५॥
एवं सूर्यफलं विप्र संक्षेपादुदितं मया ।
विंशोत्तरीमतेनाथ ब्रुवे चन्द्रदशाफलम् ॥१६॥
स्वोच्चे स्वक्षेत्रगे चैव केन्द्रे लाभत्रिकोणगे ।
शुभग्रहेण संयुक्ते पूर्णे चन्द्रेबलैर्युते ॥१७॥
कर्मभाग्याधिपैर्युक्ते वाहनेशबलैर्युते ।
आद्यन्तैश्वर्यसौभाग्यधनधान्यादिलाभकृत ॥१८॥
गृहे तु शुभकार्याणि वाहनं राजदर्शनम् ।
यत्नकार्यार्थसिद्धिः स्याद् गृहे लक्ष्मीकटाक्षकृत् ॥१९॥
मित्रप्रभुवशाद्भाग्यं राज्यलाभं महत्सुखम् ।
अश्वान्दोल्यादिलाभं च श्वेतवस्त्रादिकं लभेत् ॥२०॥
पुत्रलाभादिसन्तोषं गृहगोधनसंकुलम् ।
धनस्थानगते चन्द्रे तुङ्गे स्वक्षेत्रगेऽपि वा ॥२१॥
अनेकधनलाभं च भाग्यवृद्धिर्महत्सुखम् ।
निक्षेपराजसन्मानं विद्यालाभं च विन्दति ॥२२॥
नीचे वा क्षीणचन्द्रे वा धनहानिर्भविष्यति ।
दुश्चिक्ये बलसंयुक्ते क्वचित्सौख्यं क्वचिद्धनम् ॥२३॥
दुर्बले पापसंयुक्ते देहजाड्यं मनोरुजम् ।
भृत्यपीडा वित्तहानिर्मातृवर्गजनाद्वधः ॥२४॥
षष्ठाष्टमव्यये चन्द्रे दुर्बले पापसंयुते ।
राजद्वेषो मनोदुःखं धनधान्यादिनाशनम् ॥२५॥
मातृक्लेषं मनस्तापं देहजाड्यं मनोरुजम् ।
दुःस्थे चन्द्रे बलैर्युक्ते क्वचिल्लाभं क्वचित्सुखम् ।
देहजाड्यं क्वचिच्चैव शान्त्या तत्र शुभं दिशेत् ॥२६॥
स्वभोच्चादिगतस्यैवं नीचशत्रुभगस्य च ।
ब्रवीमि भूमिपुर्तस्य शुभाऽशुभदशाफलम् ॥२७॥
परमोच्चगते भौमे स्वोच्चे मूलत्रिकोणगे ।
स्वर्क्षे केन्द्रत्रिकोणे वा लाभे वा धनगेऽपि वा ॥२८॥
सम्पूर्णबलसंयुक्ते शुभदृष्टे शुभांशके ।
राज्यलाभं भूमिलाभं धनधान्यादिलाभकृत् ॥२९॥
आधिक्यं राजसम्मानं वाहनाम्बरभूषणम् ।
विदेशे स्थानलाभं च सोदराणां सुखं लभेत् ॥३०॥
केन्द्रे गते सदा भौमे दुश्चिक्ये बलसंयुते ।
पराक्रमाद्वित्तलाभो युद्धे शत्रुजयो भवेत् ॥३१॥
कलत्रपुत्रविभवं राजसम्मानमेव च ।
दशादौ सुखमाप्नोति दशान्ते कष्टमादिशेत् ॥३२॥
नीचादिदुष्टभावस्थे भौमे बलविवर्जिते ।
पापयुक्ते पापदृष्टे सा दशा नेष्टदायिका ॥३३॥
एवं राहोश्च केतोश्च कथयामि गृहादिकम् ।
तयोर्दशाफलज्ञप्त्यै तवाऽग्रे द्विजनन्दन ॥३४॥
राहोस्तु वृषभं केतोर्वृश्चिकं तुङ्गसंज्ञकम् ।
मूलत्रिकोणकं ज्ञेयं युग्मं चापं क्रमेण च ॥३५॥
कुम्भाली च गृहौ प्रोक्तौ कन्यामीनौ च केनचित् ।
तद्दाये बहुसौख्यं च धनधान्यादिसम्पदाम् ॥३६॥
मित्र्प्रभुवशादिष्टं वाहनं पुत्रसम्भवः ।
नवीनगृहनिर्माणं धर्मचिन्ता महोत्सवः ॥३७॥
विदेशराजसन्मानं वस्त्रालङ्कारभूषणम् ।
शुभयुक्ते शुभैर्दृष्टे योगकारकसंयुते ॥३८॥
केन्द्रत्रिकोओणलाभे वा दुश्चिक्ये शुभराशिगे ।
महाराजप्रसादेन सर्वसम्पत्सुखावहम् ॥३९॥
यवनप्रभुसन्मानं ग्र्हे कल्याणसम्भवम् ।
रन्ध्रे वा व्ययगे राहौ तद्दाये कष्टमादिशेत् ॥४०॥
पापग्रहेण सम्बन्धे मारकग्र्हसंयुते ।
नीचराशिगते वापि स्थानभ्रंशो मनोव्यथा ॥४१॥
विनाशो दारपुत्राणां कुत्सितान्नं च भोजनम् ।
दशादौ देहपीडा च धनधान्यपरिच्युतिः ॥४२॥
दशामध्ये तु सौख्यं स्यात् स्वदेशे धनलाभकृत् ।
दशान्ते कष्टमाप्नोति स्थानभ्रंशो मनोव्यथा ॥४३॥
यः सर्वेषु नाभोगेषु बुधैरतिशुभः स्मृतः ।
तस्य देवेन्द्रपूज्यस्य कथयामि दशाफलम् ॥४४॥
स्वोच्चे स्वक्षेत्रगे जीवे केन्द्रे लाभत्रिकोणगे ।
मूलत्रिकोणलाभे वा तुंगांशे स्वांशगेऽपि वा ॥४५॥
राज्यलाभं महापौरुषं राजसन्मानकीर्तनम् ।
गजवाजिसमायुक्तं देवब्राह्मणपूजनम् ॥४६॥
दारपुत्रादिसौख्यं च वाहनांबरलाभजम् ।
यज्ञादिकर्मसिद्धिः स्याद्वेदान्तश्रवणादिकम् ॥४७॥
महाराजप्रसादेनाऽभीष्टसिद्धिः सुखावहा ।
आन्दोलिकादिलाभश्च कल्याणं च महत्सुखम् ॥४८॥
पुत्रदारादिलाभश्च अन्नदानं महत्प्रियम् ।
नीचास्तपापसंयुक्ते जीवै रिष्फाष्टसंयुते ॥४९॥
स्थानभ्रंशं मनस्तापं पुत्रपीडामहद्भयम् ।
पश्वादिधनहानिश्च तीर्थयात्रादिकं लभेत् ॥५०॥
आदौ कष्टफलं चैव चतुष्पाज्जीवलाभकृत् ।
मध्यान्ते सुखमाप्नोति राजसम्मानवैभवम् ॥५१॥
अथ सर्वेषु खेटेषु योऽतिहीनः प्रकीर्तितः ।
तस्य भास्करपुत्रस्य कथयामि दशाफलम् ॥५२॥
स्वोच्चे स्वक्षेत्रगे मन्दे मित्रक्षेत्रेऽथ वा यदि ।
मूलत्रिकोणे भाग्ये वा तुंगांशे स्वांशगेऽपि वा ॥५३॥
दुश्चिक्ये लाभगे चैव राजसम्मानवैभवम् ।
सत्कीर्तिर्धनलाभश्च विद्यावादविनोदकृत् ॥५४॥
महाराजप्रसादेन गजवाहनभूषणम् ।
राजयोगं प्रकुर्वीत सेनाधीशान्महत्सुखम् ॥५५॥
लक्ष्मीकटाक्षचिह्नानि राज्यलाभं करोति च ।
गृहे कल्याणसम्पत्तिर्दारपुत्रादिलाभकृत् ॥५६॥
षष्ठाष्टमव्यये मन्दे नीचे वाऽस्तङ्गतेऽपि वा ।
विषशस्त्रादिपीडा च स्थाभ्रंशं महद्भयम् ॥५७॥
पितृमातृवियोगं च दारपुत्रादिपीडनम् ।
राजवैसःअम्यकार्याणि ह्यनिष्टं बन्धनं तथा ॥५८॥
शुभयुक्तेक्षिते मन्दे योगकारकसंयुते ।
केन्द्रत्रिकोणलाभे वा मीनगे कार्मुके शनौ ॥५९॥
राज्यलाभं महोत्साहं गजश्वाम्बरसंकुलम् ॥६०॥
अथ सर्वनभोगेषु यः कुमारः प्रकीर्तितः ।
तस्य तारेशपुत्रस्य कथयामि दशाफलम्  ॥६१॥
स्वोच्चे स्वक्षेत्रसंयुक्ते केन्द्रलाभत्रिकोणगे ।
मित्रक्षेत्रसमायुक्ते सौम्ये दाये महत्सुखम् ॥६२॥
धनधान्यादिलाभं च सत्कीर्तिधनसम्पदाम् ।
ज्ञानाधिक्यं नृपप्रीतिं सत्कर्मगुणवर्द्धनम् ॥६३॥
पुत्रदारादिसौख्यं च देहारोग्यं महत्सुखम् ।
क्षीरेण भोजनं सौख्यं व्यापाराल्लभते धनम् ॥६४॥
शुभदृष्टियुते सौम्ये भाग्ये कर्माधिपे दशा ।
आधिपत्ये बलवती सम्पूर्ण्फलदादिका ॥६५॥
पापग्रहयुते दृष्टे राजद्वेषं मनोरुजम् ।
बन्धुजनविरोधं च विदेशगमनं लभेत् ॥६६॥
परप्रेष्यं च कलहं मूर्तकृर्च्छान्महन्भयम् ।
षष्ठाष्टमव्यये सौम्ये लाभभोगार्थनाशनम् ॥६७॥
वातपीडां धनं चैवं पाण्डुरोगं विनिर्दिशेत् ।
नृपचौराग्निभीतिं च कृषिगोभूमिनाशनम् ॥६८॥
दशादौ धनधान्यं च विद्यालाभं महत्सुखम् ।
पुत्रकल्याणसम्पत्तिः सन्मार्गे धनलाभकृत् ॥६९॥
मध्ये नरेन्द्रसन्मानमन्ते दुःखं भविष्यति ॥७०॥
यस्तमोग्रहयोर्मध्ये कबन्धः कथ्यते बुधैः ।
तस्य केतोरिदानीं ते कथेयामि दशाफलम् ॥७१॥
केन्द्रे लाभे त्रिकोणे व शुभराशौ शुभेक्षिते ।
स्वोच्चे वा शुभवर्गे वा राजप्रीतिं मनोनुगम् ॥७२॥
देशाग्रामाधिपत्यं च वाहनं पुत्रसम्भवम् ।
देशान्तरप्रयाणं च निर्दिशेत् तत् सुखावहम् ॥७३॥
पुत्रदारसुखं चैव चतुष्पाज्जीवलाभकृत् ।
दुश्चिक्ये षष्ठलाभे वा केतुर्दाये सुखं दिशेत् ॥७४॥
राज्यं करोति मित्रांशं गजवाजिसमन्वितम् ।
दशदौ राजयोगश्च दशामध्ये महद्भयम् ॥७५॥
अन्ते दूराटनं चैव देहविश्रमणं तथा ।
धने रन्ध्रे व्यये केतौ पापदृष्टियुतेक्षिते ॥७६॥
निगडं बन्धुनाशं च स्थानभ्रंशं मनोरुजम् ।
शूद्रसङ्गादिलाभं च कुरुते रोगसंकुलम् ॥७७॥
अथ भूतेषु यः शुक्रा मदरूपेण तिष्ठति ।
तस्य दैत्यगुरोर्विप्र कथयामि दशाफलम् ॥७८॥
परमोच्चगते शुक्रे स्वोच्चे स्वक्षेत्रकेन्द्रगे ।
नृपाऽभिषेकसम्प्राप्तिर्वाहनाऽम्बरभूषणम् ॥७९॥
गजाश्वपशुलाभं च नित्यं मिष्ठान्नभोजनम् ।
अखण्डमण्डलाधीशाराजसन्मानवैभवम् ॥८०॥
मृदङ्गवाद्यघोषं च गृहे लक्ष्मीकटाक्षकृत् ।
त्रिकोणस्थे निजे तस्मिन् राज्यार्थगृहहसम्पदः ॥८१॥
विवाहोत्सवकार्याणि पुत्रकल्याणवैभवम् ।
सेनाधिपत्यं कुरुते इष्टबन्धुसमागनम् ॥८२॥
नष्टराज्याद्धनप्राप्तिं गृहे गोधनसङ्ग्रहम् ।
षष्ठाष्टमव्यये शुक्रे नीचे वा व्ययराशिगे ॥८३॥
आत्मबन्धुजनद्वेषं दारवर्गादिपीडनम् ।
व्यवसायात्फ्लं नष्टं गोमहिष्यादिहानिकृत् ॥८४॥
दारपुत्रादिपीडा वा आत्मबन्धुवियोगकृत् ।
भाग्यकर्माधिपत्येन लग्नवाहनराशिगे ॥८५॥
तद्दशायां महत्सौख्यं देशग्रामाधिपालता ।
देवालयतडागादिपुण्यकर्मसु संग्रहः ॥८६॥
अन्नदाने महत्सौख्यं नित्यं मिष्ठान्नभोजनम् ।
उत्साहः कीर्तिसम्पत्ती स्त्रीपुत्रधनसम्पदः ॥८७॥
स्वभुक्तौ फलमेवं स्याद्बलान्यन्यानि भुक्तिषु ।
द्वितीयद्यूननाथे तु देहपीडा भविष्यति ॥८८॥
तद्दोषपरिहारार्थं रुद्रं वा त्र्यम्बकं जपेत् ।
स्वेतां गां महिषीं दव्यादारोग्यं च ततो भवेत् ॥८९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-07-26T08:20:11.5430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

federal state

  • न. संघराज्य 
  • संघराज्य 
  • न. संघ राज्य 
RANDOM WORD

Did you know?

गांवे, नद्या, समुद्र, देवदेवता किंवा अन्य नांवांची उत्पत्ती काय असेल? नांवे कशी पडली असतील?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.