संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ४४

बृहत्पाराशरहोराशास्त्रम् - अध्याय ४४

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


बहुधाऽऽयुर्भवा योगाः कथिता भवताऽधुना ।
नृणां मारकभेदाश्च कथ्यन्तां कृपया मुने ॥१॥
तृतीयमष्टमस्थानमायुःस्थानां द्वयं द्विज ।
मारकं तद्व्ययस्थानं द्वितीयं सप्तमं तथा ॥२॥
तत्रापि सप्तमस्थानाद् द्वितीयं बलवत्तरम् ।
तयोरीशौ तत्र गताः पापिनस्तेन संयुताः ॥३॥
ये खेटाः पापिनस्ते च सर्वे मारकसंज्ञकाः ।
तेषां दशाविपाकेषु सम्भवे निधनं नृणाम् ॥४॥
अल्पमध्यमपूर्णायुः प्रमाणमिह योगजम् ।
विज्ञाय प्रथमं पुंसां मारकं परिचिन्तयेत् ॥५॥
अलाभे पुनरेतेषां सम्बन्धेन व्ययेशितुः ।
क्वचिच्छुभानां च दशस्वष्टमेशदशासु च ॥६॥
केवलानां च पापानां दशासु निधनं क्वचित् ।
अल्पनीयं बुधैर्नृणां मारकाणामदर्शने ॥७॥
सत्यपि स्वेन सम्बन्धे न हन्ति शुभभुक्तिषु ।
हन्ति सत्यप्यसम्बन्धे मारकः पापभुक्तिषु ॥८॥
मारकग्रहसम्बन्धान्निहन्ता पापकृच्छनिः ।
अतिक्रम्येतरान् सर्वान् भवत्यत्र न संशयः ॥९॥
अथाऽन्यदपि वक्ष्यामि द्विज मारकलक्षणं ।
त्रिविधाश्चायुषो योगाः स्वल्पायुर्मध्यमोत्तमाः ॥१०॥
द्वाविंशात् पूर्वमल्पायुर्मध्यमायुस्ततः परम् ।
चतुष्षष्ट्याः पुरस्तात् तु ततो दीर्घमुदाहृतम् ॥११॥
उत्तमायुः शतादूर्ध्वं ज्ञातव्यं द्विजसत्तम ।
जनैर्विंशतिवर्षान्त्यमायुर्ज्ञातं न शक्यते ॥१२॥
जपहोमचिकित्साद्यैर्बालरक्षां हि कारयेत् ।
म्रियन्ते पितृदोषैश्च केचिन्मातृग्रहैरपि ॥१३॥
केचित् स्वारिष्ट्योगाच्च त्रिविधा बालमृत्यवः ।
ततः परं नृणामायुर्गणयेद् द्विजसत्तम ॥१४॥
अथाऽन्यदपि वक्ष्यामि नृणां मारकलक्षणम् ।
अल्पायुर्योगजातस्य विप्भे च मृतिर्भवेत् ॥१५॥
मध्यायुर्योगजस्यैवं प्रत्यरौ च मृतिर्भवेत् ।
दीर्घायुर्योगजातस्य वधभे तु मृतिर्भवेत् ॥१६॥
द्वाविंशत्र्यंशपश्चैव तथा वैनाशिकाधिपः ।
विपत्ताराप्रत्यरीशा वधभेशंस्तथैव च ॥१७॥
आद्यान्तपौ च विज्ञेयौ चन्द्राक्रान्तगृहाद् द्विज ।
मारकौ पापखेटौ तौ शुभौ चेद्रोगदौ स्मृतौ ॥१८॥
षष्ठाधिपदशायां च नृणां निधनसम्भवः ।
षष्ठाष्टरिष्फनाथानामपहारे मृतिर्भवेत् ॥१९॥
मारका बहवः खेटा यदि वीर्यसमन्विताः ।
तत्तद्दशान्तरे विप्र रोगकष्टादिसंभवः ॥२०॥
उक्ता ये मारकास्तेषु प्रबलो मुख्यमारकः ।
तदवस्थानुसारेण मृतिं वा कष्टमादिशेत् ॥२१॥
रहुश्चेदथवा केतुर्लग्ने कामेऽष्टमे व्यये ।
मारकेशान्मदे वाऽपि मारकेशेन संयुतः ॥२२॥
मारकः स च विज्ञेयः स्वदशान्तर्दशास्वपि ।
मकरे वृश्चिके जन्म राहुस्तस्य मृतिप्रदः ॥२३॥
षष्ठाऽष्टरिष्फगो राहुस्तद्दये कष्टदो भवेत् ।
शुभग्रहयुतो दृष्टो न तदा कष्टकृन्मतः ॥२४॥
लग्नात् तृतीयभावे तु बलिना रविणा युते ।
राजहेतुश्च मरणं तस्य ज्ञेयं द्विजोत्तम ॥२५॥
त्रितीये चेन्दुना युक्ते दृष्टे वा यक्ष्मणा मृतिः ।
कुजेन व्रणशस्त्राग्निदाहाद्यैर्मरणं भवेत् ॥२६॥
तृतीये शनिराहुभ्यां युक्ते दृष्टेऽपि वा द्विज ।
विषार्तितो मृतिर्वाच्या जलाद्वा वह्निपीडनात् ॥२७॥
गर्तादुच्चात् प्रपतनाद् बन्धनाद् वा मृतिर्भवेत् ।
तृतीये चन्द्रमान्दिभ्यां युक्ते वा वीक्षिते द्विज ॥२८॥
कृमिकुष्ठादिना तस्य मरणं भवति ध्रुवम् ।
तृतीये बुधसंयुक्ते वीक्षिते वापि तेन च ॥२९॥
ज्वरेण मरणं तस्य विज्ञेयं द्विजसत्तम ।
तृतीये गुरुणा युक्ते दृष्टे शोफादिना मृतिः ॥३०॥
तृतीये भृगुयुग्दृष्टे मेहरोगेण तन्मृतिः ।
बहुखेटयुते तस्मिन् बहुरोगभवा मृतिः ॥३१॥
तृतीये च शुभैर्युक्ते शुभदेशे मृतिर्भवेत् ।
पापैश्च कीकटे देशे मिश्रैर्मिश्रस्थले मृतिः ॥३२॥
तृतीये गुरुशुक्राभ्यां युक्ते ज्ञानन वै मृतिः ।
अज्ञानेनाऽन्यखेटैश्च मृतिर्ज्ञेया द्विजोत्तम ॥३३॥
चरराशौ तृतीयस्थे परदेशे मृतिर्भवेत् ।
स्थिरराशौ स्वगेहे च द्विस्वभावे पथि द्विज ॥३४॥
लग्नादष्टमभावाच्च निमित्तं कथितं बुधैः ।
सूर्येऽष्टमेऽग्नितो मृत्युश्चन्द्रे मृत्युर्जलेन च ॥३५॥
शास्त्राद् भौमे ज्वराज् ज्ञे च गुरौ रोगात् क्षुधा भृगौ ।
पिपासया शनौ मृत्युर्विज्ञेयो द्विजसत्तम ॥३६॥
अष्टमे शुभदृग्युक्ते धर्मपे च शुभैर्युते ।
तीर्थे मृतिस्तदा ज्ञेया पापाख्यैरन्यथा मृतिः ॥३७॥
अग्न्यम्बुमिश्रत्र्यंशैर्ज्ञेयो मृत्युर्गृहाश्रितैः ।
परिणामः शवस्याऽत्र भस्मसंक्लेदशोषकैः ॥३८॥
व्यालवर्गदृकाणैस्तु विडम्बो भवति ध्रुवम् ।
शवस्य श्वशृगालाद्यैर्गृध्रकाकादिपक्षिभिः ॥३९॥
कर्कटे मध्यमोऽन्त्यश्च वृश्चिकाद्यद्वितीयकौ ।
मीनेऽन्तिमस्त्रिभागश्च व्यालवर्गाः प्रकीर्तिताः ॥४०॥
रविश्चन्द्रबलाक्रान्तत्र्यंशनाथे गुरौ जनः ।
देवलोकात् समायातो विज्ञेयो द्विजसत्तम ॥४१॥
शुक्रेन्द्वोः पितृलोकात्तु मर्त्याच्च रविभौमयोः ।
बुधाऽऽर्क्योर्नरकादेवं जन्मकालाद् वदेत् सुधिः ॥४२॥
गुरुश्चन्द्रसितौ सूर्यभौमौ ज्ञार्की यथाक्रमम् ।
देवेन्दुभूम्यधोलोकान् नयन्त्यस्तारिरन्ध्रगाः ॥४३॥
अथ तत्र ग्रहभावे रन्ध्रारित्र्यंशनाथयोः ।
यो बली स निजं लोकं नयत्यन्ते द्विजोत्तम ॥४४॥
तस्य स्वोच्चादि संस्थित्या वरमध्याऽधमाः क्रमात् ।
तत्तल्लोकेऽपि सञ्जाता विज्ञेया द्विजसत्तम ॥४५॥
अन्यान् मारकभेदांश्च राशिग्रहकृतान् द्विज ।
दशाध्यायप्रसंगेषु कथयिष्यामि सुव्रत ॥४६॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP