TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ५३

बृहत्पाराशरहोराशास्त्रम् - अध्याय ५३

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


चन्द्रान्तर्दशाफलाध्यायः
स्वोच्चे स्वक्षेत्रगे चन्द्रे त्रिकोणे लाभगेऽपि वा ।
भाग्यकर्माधिपैर्युक्ते गजाश्वाम्बरसंकुलम् ॥१॥
देवतागुरुभक्तिश्च पुण्यश्लोकादिकीर्तनम् ।
राज्यलाभो महत्सौख्यं यशोवृद्धिः सुखावहा ॥२॥
पूर्णे चन्द्रे बलं पूर्णं सेनापत्यं महत्सुखम् ।
पापयुक्तेऽथवा चन्द्रे नीचे वा रिष्फषष्ठगे ॥३॥
अतकाले धननाशः स्यात्स्थानच्युतिरथापि वा ।
देहलस्यं मनस्तपो राजमन्त्रिविरोधकृत् ॥४॥
मातृक्लेशो मनोदुःखं निगडं बन्धुनाशनम् ।
द्वितीयद्यूननाथे तु रन्ध्ररिष्फेशसंयुते ॥५॥
देहजाड्यं महाभङ्गमपमृत्योभयं वदेत् ।
श्वेतां गां महिषीं दद्यात् स्वदशान्तर्गते विधौ ॥६॥
चन्द्रस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे ।
सौभाग्यं राजसन्मानं वस्त्रभरणभूषणम् ॥७॥
यत्नात् कार्यार्थसिद्धिस्तु भविष्यति न सम्शयः ।
गृहक्षेत्राभिवृद्धिश्च व्यवहारे जयो भवेत् ॥८॥
कार्यलाभो महत्सौख्यं स्वोच्चे स्वक्षेत्रगे फलम् ।
तथाऽष्टमव्यये भौमे पापयुक्तेऽथ वा यदि ॥९॥
दायशादशुभस्थाने देहार्तिः परवीक्षिते ।
गृहक्षेत्रादिहानिश्च व्यवहारे तथा क्षतिः ॥१०॥
मृत्युवर्गेषु कलहो भूपालस्य विरोधनम् ।
आत्मबन्धुवियोगश्च नित्यं निष्ठुरभाषणम् ॥११॥
द्वितीये द्यूननाथे तु रन्ध्रे रन्ध्राधिपो यदा ।
तत्तोषपरिहारार्थं ब्राह्मणस्याऽर्चनं चरेत् ॥१२॥
चन्द्रस्यान्तर्गते राहौ लग्नात्केन्द्रत्रिकोणगे ।
आदौ स्वल्फलं ज्ञेयं शत्रुपीडा महद्भयम् ॥१३॥
चौराहिराजभीतिश्च चतुष्पाज्जिवपीडनम् ।
बन्धुनाशो मित्रहानिर्मानहानिर्मनोव्यथा ॥१४॥
शुभयुक्ते शुभैर्दृष्टे लग्नादुपचयेऽपि वा ।
योगकारकसम्बन्धे सर्वकार्यार्थसिद्धिकृत् ॥१५॥
नैरृत्ये पश्चिमे भावे क्वचित्प्रभुसमागमः ।
वाहनामबरलाभश्च स्वेष्टकार्यार्थसिद्धिकृत् ॥१६॥
दायेशादथ रन्ध्रथे व्यये वा बलवर्जिते ।
स्थानभ्रंशो मनोदुखं पुत्रक्लेशो महद्भयम् ॥१७॥
दारपीडा क्वचिज्ज्ञेया क्वचित्स्वाङ्गे रुजोभयम् ।
वृश्चिकादिविषाद्भीतिश्चौराहिनृपपीडनम् ॥१८॥
दायेशात्केन्द्रकोणे व दुश्चिक्ये लाभगेऽपि वा ।
पुण्यतीर्थफलावाप्तिर्देवतादर्शनं महत् ॥१९॥
परोपकारकर्मादिपुण्यकर्मादिसंप्रहः ।
द्वितीयद्यूनराशिअथे देहबाधा भविष्यति ॥२०॥
तद्दोषपरिहारार्थं रुद्रजाप्यं समाचरेत् ।
छागदानं प्रकुर्वीत देहारोग्यं प्रजायते ॥२१॥
चन्द्रस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे ।
स्वगेहे लाभगे स्वोच्चे राज्यलाभो महोत्सवः ॥२२॥
वस्त्राऽलङ्कारभूषाप्ती राजप्रीतिर्धनागमः ।
इष्टदेवप्रसादेन गर्भाधानादिकं फलम् ॥२३॥
तथा शोभनकार्याणि गृहे लक्ष्मीः कटाक्षकृत् ।
राजाश्रयं धनं भूमिगजवाजिसमन्वितम् ॥२४॥
महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ।
ष.ष्ठाष्टमव्यये जीवे नीच वास्तङ्गते यदि ॥२५॥
पापयुक्तेऽशुभं कर्म गुरुपुत्रादिनाशनम् ।
स्थानभ्रंशो मनोदुःखमकस्मात्कलहो ध्रुवम् ॥२६॥
गृहक्षेत्रादिनाशश्च वाहनाम्बरनाशनम् ।
दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ॥२७॥
भोजनाम्बरपरवादि=लाभं सौख्यं करोति च ।
ब्र्हात्रादिसुखसम्पत्तिं धैर्यं वीर्यपराक्रमम् ॥२८॥
यज्ञव्रतविवाहादिराज्यश्रीधनसम्पदः ।
दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ॥२९॥
करोति कुत्सिनान्नं च विदेशगमनं तथा ।
भुक्त्यादौ शोभनं प्रोक्तमन्ते क्लेशकरं भवेत् ॥३०॥
द्वितीयद्यूननाथे च ह्यपमृत्युर्भविष्यति ।
तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ।
स्वर्णदानमिति प्रोक्तं सर्वकष्टनिवारकम् ॥३१॥
चन्द्रस्यान्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे ।
स्वक्षेत्रे स्वांशगे चैव मन्दे तुङ्गांशसंयुते ॥३२॥
शुभदृष्टयुते वाऽपि लाभे वा बलसंयुते ।
पुत्रमित्रार्थसम्पत्तिः शूद्रप्रभुसमागमात् ॥३३॥
व्ययसायात्फलाधिक्यं गृहे क्षेत्रादिवृद्धिदम् ।
पुत्रलाभश्च कल्याणं राजानुग्रहवैभवम् ॥३४॥
षष्ठाष्टमव्यये मन्दे नीचे वा धनगेऽपि वा ।
तद्भुक्त्यादौ पुण्यतीर्थे स्नानं चैव तु दर्शनम् ॥३५॥
अनेकजनत्रासश्च शस्त्रपीडा भविष्यति ।
दायेशात्केन्द्रराशिस्थे त्रिकोणे बलगेऽपि वा ॥३६॥
क्वचित्सौख्यं धनाप्तिश्च दारपुत्रविरोधकृत् ।
द्वितीयद्यूनरन्ध्रस्थे देहबाधा भविष्यति ॥३७॥
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ।
कृष्णां गां महिषीं दद्याद्दानेमारोग्यमादिशेत् ॥३८॥
चन्द्रस्यान्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे ।
स्वर्क्षे निजांशके सौम्ये तुङ्गे वा बलसंयुते ॥३९॥
धनागमो राजमानप्रियवस्त्रादिलाभकृत् ।
विद्याविनोदसद्गोष्ठी ज्ञानवृद्धिः सुखावहा ॥४०॥
सन्तानप्राप्तिः सन्तोषो वाणिज्याद्धनलाभ्कृत् ।
वाहनच्छत्रसंयुक्तनानालङ्कारलाभकृत् ॥४१॥
दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा ।
विवाहो यज्ञदीक्षा च दानधर्मशुभादिकम् ॥४२॥
राजप्रीतिकरश्चैव विद्वज्जनसमागमः ।
मुक्तामणिप्रवालानि वाहनाम्बरभूषणम् ॥४३॥
आरोग्यप्रीतिसौख्यं च सोमपानादिकं सुखम् ।
दायेशाद्रिपुरन्ध्रस्थे व्यये वा नीचगेऽपि वा ॥४४॥
तद्भुक्तौ देहबाधा च कृर्षिगोभूमिनाशनम् ।
कारागृहप्रवेशाश्च दारपुत्रादिपीडनम् ॥४५॥
द्वितीयद्यूननाथे तु ज्वरपीडा महद्भयम् ।
छागदानं प्रकुर्वीत विष्णुसाहस्रकं जपेत् ॥४६॥
चन्द्रस्यान्तर्गते केतौ केन्द्रलाभत्रिकोणगे ।
दुश्चिक्ये बलसंयुक्ते धनलाभं महत्सुखम् ॥४७॥
पुत्रदारादिसौख्यं च विधिकर्म करोति च ।
भुक्त्यादौ धनहानिः स्यान्मध्यगे सुखमाप्नुयात् ॥४८॥
दायेशात्केन्द्रलाभे वा त्रिकोणे बलसंयुते ।
क्वचित्फलं दशादौ तु दद्यात् सौख्यं धनागमम् ॥४९॥
गोमहिष्यादिलाभं च भुक्त्यन्ते चार्थनाशनम् ।
पापयुक्तेऽथवा दृष्टे दायेशाद्रन्ध्ररिःफगे ॥५०॥
शत्रुतः कार्यहानिः स्यादकस्मात्कलहो ध्रुवम् ।
द्वितीयद्यूनराशिस्त्य्हे ह्यनारोग्यं महद्भयम् ॥५१॥
मृत्युञ्जयजपं कुर्यात् सर्वसम्पत्प्रदायकम् ।
ततः शान्तिमवाप्नोति शङ्करस्य प्रसादतः ॥५२॥
चन्द्रस्यान्तर्गते शुक्रे केन्द्रलाभत्रिकोणगे ।
स्वोच्चे स्वक्षेत्रगे वापि राज्यलाभं करोति च ॥५३॥
महाराजप्रसादेन वाहनाम्बरभूषणम् ।
चतुष्पाज्जिवलाभः स्याद्दारपुत्रादिवर्धनम् ॥५४॥
नूतनागारनिर्माणं नित्यं मिष्ठान्नभोजनं ।
सुगन्धपुष्पमाल्यादिरम्यस्त्र्यारोग्यसम्पदम् ॥५५॥
दशाधिपेन संयुक्ते देहसौख्यं महत्सुखम् ।
सत्कीर्तिसुखसम्पत्तिगृहक्षेत्रादिवृद्धिकृत् ॥५६॥
नीचे वाऽस्तङ्गते शुक्रे पापग्रहयुतेक्षिते ।
भूनाशः पुत्रमित्रादिनाशनं पत्निनाशनम् ॥५७॥
चतुष्पाज्जिवहानिः स्याद्राजद्वारे विरोधकृत् ।
धनस्थानगते शुक्रे स्वच्चे स्वक्षेत्रसंयुते ॥५८॥
निधिलाभं महत्सौख्यं भू लाभं पुत्रसम्भवम् ।
भाग्यलाभादिपैर्युक्ते भाग्यवृद्धिः करोत्यसौ ॥५९॥
महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ।
देवब्राह्मणभक्तिश्च मुक्तविद्रुमलाभकृत् ॥६०॥
दायशाल्लाभगे शुक्रे त्रिकोणे केन्द्रगेऽपि वा ।
गृहक्षेत्राभिवृद्धिश्च वित्तलाभो महत्सुखम् ॥६१॥
दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ।
विदेशवासदुःखार्तिमृत्युचौरादिपीडनम् ॥६२॥
द्वितीयद्यूननाथे तु अपमृत्युभयं भवेत् ।
तद्दोषविनिवृत्त्यर्थं रुद्रजाप्यं च कारयेत् ॥६३॥
श्वेतां गां रजतं दद्याच्छन्तिमाप्नोत्यसंशयः ।
शङ्करस्य प्रसादेन नाऽत्र कार्या विचारणा ॥६४॥
चन्द्रस्यान्तर्गते भानौ स्वोच्चे स्वक्षेत्रसंयुते ।
केन्द्रे त्रिकोणे लाभे वा धने वा सोदरालये ॥६५॥
नष्टराज्यधनप्राप्तिर्गृहे कल्याणशोभनम् ।
मित्रराजप्रसादेन ग्रामभूम्यादिलाभ्कृत् ॥६६॥
गर्भाधानफलप्राप्तिर्गृहे लक्ष्मीः कटाक्षकृत् ।
भुक्त्यन्ते देह आलस्यं ज्वरपीडा भविष्यति ॥६७॥
दायेशादपि रन्ध्रस्थे व्यये वा पापसंयुते ।
नृपचौराहिभीतिश्च ज्वररोगादिसम्भवः ॥६८॥
विदेशगमने चार्ति लभते न संशयः ।
द्वितीयद्यूननाथे तु ज्वरपीडा भविष्यति ॥६९॥
तद्दोषपरिहारार्थं शिवपूजां च कारयेत् ।
ततः शान्तिभवाप्नोति शाङ्करस्य प्रसादतः ॥७०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-07-26T08:36:33.2530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

खुनसी

  • वि. आकसखोर ; मत्सरी ; चुरसी ; दंशी ; द्वेष्टा . ( सं . कुहनशील ; हिं खुनसी ; फा . खुन = रक्त ) 
  • a  Rancorous, vengeful. 
RANDOM WORD

Did you know?

लग्न ठरवितांना पत्रिका पाहणे किती योग्य आहे? पत्रिका पाहूनही कांही विवाह अयशस्वी कां होतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site