संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ८६

बृहत्पाराशरहोराशास्त्रम् - अध्याय ८६

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


मैत्रेय दर्शजातानां मातापित्रोर्दरिद्रता ।
तद्दोषपरिहाराय शान्तिं कुर्याद् विचक्षणः ॥१॥
कलशस्थापनं कृत्वा प्रथमं विधिपूर्वकम् ।
उदुम्बरटाश्वत्थचूतानां पल्लवांस्तथा ॥२॥
सनिम्बानां च मूलनि त्वचस्तत्र विनिक्षिपेत् ।
पंचरत्नानि निक्षिप्य वस्त्रयुग्मेन चेष्टयेत् ॥३॥
सर्वे समुद्र इति चाऽपोहिष्ठादित्र्यृचेन च ।
आमन्त्र्य कलशे तच्च स्थापयेद् वह्निकोणके ॥४॥
दर्शस्य देवयोश्चाऽथ चन्द्रभास्करयोः क्रमात् ।
प्रतिमां स्वर्णजां नित्यं राजतीं ताम्रजां तथा ॥५॥
आप्यायस्वेति मन्त्रेनऽ सविता पश्चात्तमेव च ।
उपचारैः समाराध्य ततो होमं समाचरेत् ॥६॥
समिधश्च चरुं विद्वान् क्रमेण जुहुयात् व्रती ।
भक्त्या सवितृमन्त्रेण सोमो धेनुश्च मन्त्रतः ॥७॥
अष्टोत्तरशतं वापि अष्टविंशतिरेव वा ।
अभिषेकं तथा कुर्यात् दम्पत्योश्च सुपुत्रयोः ॥८॥
हिरण्यं रजतं चैव कृष्णधेनुश्च दक्षिणा ।
ब्राह्मणान् भोजयेत् शक्त्या ततः क्षेममवाप्नुयात् ॥९॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP