TransLiteral Foundation
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय २५

बृहत्पाराशरहोराशास्त्रम् - अध्याय २५

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अथाऽप्रकाशग्रहफलाध्यायः
रव्यादिसप्तखेटानां प्रोक्तं भावफलं मया ।
अप्रकाशग्रहाणां च फलानि कथयाम्यहम् ॥१॥
शूरो विमलनेत्रांशः सुस्तब्धो निर्घृणः खलः ।
मूर्तिस्थे धूमसंज्ञे च गाढरोषो नरः सदा ॥२॥
रोगी धनी तु हीनाङ्गो राज्यापहृतमानसः ।
धूमे द्वितीये संप्राप्ते मन्दप्रज्ञो नपुंसकः ॥३॥
मतिमान् शौर्यसम्पन्न इष्टचितः प्रियंवदः ।
धूमे सहजभावस्थे जनाढ्यो धनवान् भवेत् ॥४॥
कलत्राङ्गपरित्यक्तो नित्यं मनसि दुःखितः ।
धूमे चतुर्थे सम्प्राप्ते सर्वशास्त्रार्थचिन्तकः ॥५॥
स्वल्पापत्यो धनैर्हीनो धूमे पञ्चमसंस्थिते ।
गुरुत सर्वभक्षं च सुहृन्मन्त्रविवर्जितः ॥६॥
बलवाञ्छत्रुवधको धूमे च रिपुभावगे ।
बहुतेजोयुतः ख्यातः सदा रोगविवर्जितः ॥७॥
निर्धनः सततं कामी परदारेषु कोविदः ।
धूमे सप्तमगे जातो निस्तेजाः सर्वदा भवेत् ॥८॥
विक्रमेण परित्यक्तः सोत्साहो सत्यसङ्गरः ।
अप्रियो निष्ठुरः स्वार्थी धूमे मृत्युगते सति ॥९॥
सुतसौभाग्यसम्पन्नो धनी मानी दयान्वितः ।
धर्मस्थाने स्थिते धूमे धर्मवान् बन्धुवत्सलः ॥१०॥
सुतसौभाग्यसंयुक्तः सन्तोषी मतिमान् सुखी ।
कर्मस्थे मानवो नित्यं धूमे सत्यपदस्थितः ॥११॥
धनधान्यहिरण्याढ्यो रूपवांश्च कलान्वितः ।
धूमे लाभगते चैव विनीतो गीतकोविदः ॥१२॥
पतितः पापकर्मा च धूमे द्वादशसङ्गते ।
परदारेषु संसक्तो व्यसनी निर्घृणः शठः ॥१३॥
लग्ने पाते च सम्प्राप्ते जातको दुःखीपीडितः ।
क्रूरो घातकरो मूर्खो द्वेषी बन्धुजनस्य च ॥१४॥
जिह्मोऽतिपित्तवान् भोगी धनस्थे पातसंज्ञके ।
निर्घृणश्चाऽकृतज्ञश्च दुष्टात्मा पापकृत्तथा ॥१५॥
स्थिरप्रज्ञो रणी दाता धनाढ्यो राजवल्लभः ।
सम्प्राप्ते सहजे पाते सेनाधीशो भवेन्नरः॥१६॥
बन्धव्याधिसमायुक्तः सुतसौभाग्यवर्जितः ।
चतुर्थगो यदा पातस्तदा स्यान्मनुजश्च सः ॥१७॥
दरिद्रो रूपसंयुक्तः पाते पञ्चमगे सति ।
कफपित्तानिलैर्युक्तो निष्ठुरो निरपत्रपः ॥१८॥
शत्रुहन्ता सुपुष्टश्च सर्वास्त्राणां च चालकः ।
कलासु निपुणः शान्तः पाते शत्रुगते सति ॥१९॥
धनदारसुतैस्त्यक्तः स्त्रीजितो दुःखसंयुतः ।
पाते कलत्रगे कामी निर्लज्जः परसौहृदः ॥२०॥
विकलाक्षो विरूपश्च दुर्भगो द्विजनिन्दकः ।
मृत्युस्थाने स्थिते पाते रक्तपीडापरिप्लुतः ॥२१॥
बहुव्यापारको नित्यं बहुमित्रो बहुश्रुतः ।
धर्मभे पातखेटे च स्त्रीप्रियश्च प्रियंवदः ॥२२॥
सश्रीको धर्मकृछान्तो धर्मकार्येषु कोविदः ।
कर्मस्थे पातसंज्ञे हि महाप्राज्ञो विचक्षणः ॥२३॥
प्रभूतधनवान् मानी सत्यवादी दृढव्रतः ।
अश्वढ्यो गीतसंसक्तः पाते लाभगते सति ॥२४॥
कोपी च बहुकर्माढयो व्यंगो धर्मस्य दूषकः ।
व्ययस्थाने गते पाते विद्वेषी निजबन्धुषु ॥२५॥
विद्वान् सत्यरतः शान्तो धनवान् पुत्रवाञ्छुचिः ।
परिधो तनुगे दाता जायते गुरुवत्सलः ॥२६॥
ईश्वरो रूपवान् भोगी सुखी धर्मपरायणः ।
धनस्थे परिधौ जातः प्रभुर्भवति मानवः ॥२७॥
स्त्रीवल्लभः सुरूपांगो देवस्वजनसंगतः ।
तृतीये परिधौ भृत्यो गुरुभक्तिसमन्वितः ॥२८॥
परिधौ सुखभावस्थे विस्मितं त्वरिमंगलम् ।
अक्रूरं त्वथ सम्पूर्णं कुरुते गीतकोविदम् ॥२९॥
लक्ष्मीवान् शीलवान् कान्तः प्रियवान् धर्मवत्सलः ।
पञ्चमे परिधौ जातः स्त्रीणां भवति वल्लभः ॥३०॥
व्यक्तोऽर्थपुत्रवान् भोगी सर्वसत्त्वहिते रतः ।
परिधौ रिपुभावस्थे शत्रुहा जायते नरः ॥३१॥
स्वल्पापत्यः सुखैर्हीनो मन्दप्रज्ञः सुनिष्ठुरः ।
परिधौ द्यूनभावस्थे स्त्रीणां व्याधिश्च जायते ॥३२॥
अध्यात्मचिन्तकः शान्तो दृढकायो दृढव्रतः ।
धर्मवांश्च ससत्त्वश्च परिधौ रन्ध्रसंस्थिते ॥३३॥
पुत्रान्वितः सुखी कान्तो धनाढयो लौल्यवर्जितः ।
परिधौ धर्मगे मानी स्वल्पसन्तुष्टमानसः ॥३४॥
कलाभिज्ञस्तथा भोगी दृढकायो ह्यमत्सरः ।
परिधौ दशमे प्राप्ते सर्वशास्त्रार्थपारगः ॥३५॥
स्त्रीभोगी गुणवांश्चैव मतिमान् स्वजनप्रियः ।
लाभगे परिधौ जातो मन्दाग्निरूपपद्यते ॥३६॥
व्ययस्ते परिधौ जातो व्ययकृत् मानवः सदा ।
दुःखभाग् दुष्टबुद्धिश्च गुरुनिन्दापरायणः ॥३७॥
धनधान्यहिरण्याढ्यः कृतज्ञः सम्मतः सताम् ।
सर्वदोषपरित्यक्तश्चापे तनुगते नरः ॥३८॥
प्रियंवदः प्र्गल्भाढ्यो विनीतो विद्ययाऽन्वितः ।
धनस्थे चापखेटे च रूपवान् धर्मतत्परः ॥३९॥
कृपणोऽतिकलाभिज्ञश्चौर्यकर्मरतः सदा ।
सहजे धनुषि प्राप्ते हीनाङ्गो गतसौहृदः ॥४०॥
सुखी गोधनधान्याद्यै राजसन्मानपूजितः ।
कार्मुके सुखसंस्थे तु नीरोगो तनु जायते ॥४१॥
रुचिमान् दीर्घदर्शो च देवभक्तः प्रियंवदः ।
चापे पञ्चमगे जातो विवृद्धः सर्वकर्मसु ॥४२॥
शत्रुहन्ताऽतिधर्तश्च सुखी प्रीतिरुचिः शुचिः ।
षष्ठस्थानगते चापे सर्वकर्मसमृद्धिभाक् ॥४३॥
ईश्वरो गुणसम्पूर्णः शास्त्रबिद्धार्भिकः प्रियः ।
चापे सप्तमभावस्थे भवतीति न संशयः ॥४४॥
परकर्मरतः क्रूरः परदारपरायणः ।
अष्टमस्थानगते चापे जायते विकलांगकः ॥४५॥
तपस्वी व्रतचर्यासु निरतो विद्ययाऽधिकः ।
धर्मस्थे जायते चापे मानवो लोकविश्रुतः ॥४६॥
बहुपुत्रधनैश्वर्यो गोमहिष्यादिमान् भवेत् ।
कर्मभे चापसंयुक्ते जायते लोकविश्रुतः ॥४७॥
लाभगे चपखेटे च लाभयुक्तो भवेन्नरः ।
निरोगो दृढकोपाग्निर्मन्त्रस्त्रीपरमास्त्रवित् ॥४८॥
खलोऽतिमानी दुर्बुद्धिर्निर्लज्जो व्ययसंस्थिते ।
चापे परस्त्रीसंयुक्तो जायते निर्धनः सदा ॥४९॥
कुशलः सर्वविद्यासु सुखी वाङ्निपुनः प्रियः ।
तनौ शिखिनि सञ्जातः सर्वकामान्वितो भवेत् ॥५०॥
वक्ता प्रियंवदः कान्तो धनस्थानगते ध्वजे ।
काव्यकृत् पण्डितो मानी विनीतो वाहनान्वितः ॥५१॥
कदर्यः क्रूरकर्ता च कृशाङ्गो धनवर्जितः ।
सहजस्थे तु शिखिनि तीव्ररोगी प्रजायते ॥५२॥
रूपवान् गुणसम्पन्नः सात्त्विकोऽपि स्रुतिप्रियः ।
सुखसंस्थे तु शिखिनि सदा भवति सौख्यभाक् ॥५३॥
सुखी भोगी कलाविच्च पञ्चमस्थानगे ध्वजे ।
युक्तिज्ञो मतिमान् वाग्मी गुरुभक्तिसमन्वितः ॥५४॥
मातृपक्षक्षयकरः शत्रुहा बहुवान्धवः ।
रिपुस्थाने ध्वजे प्राप्ते शूरः कान्तो विचक्षणः ॥५५॥
द्यूतक्रीडाष्वभिरतः कामी भोगसमन्वितः ।
ध्वजे तु सप्तमस्थागे वेश्यासु कृतसौहृदः ॥५६॥
नीचकर्मरतः पापो निर्लज्जो निन्दकः सदा ।
मृत्युस्थाने ध्वजे प्राप्ते गतस्त्र्यपरपक्षकः ॥५७॥
लिङ्गधारी प्रसन्नात्मा सर्वभूतहिते रतः ।
धर्मभे शिखिनि प्राप्ते धर्मकार्येषु कोविदः ॥५८॥
सुखसौभाग्यसम्पन्नः कामिनीनां च वल्लभः ।
दाता द्विजैः समायुक्तः कर्मस्थे शिखिनि द्विज ॥५९॥
नित्यलाभः सुधर्मी च लाभे शिखिनि पूजितः ।
धनाढ्यः सुभगः शूरः सुयज्ञश्चाति कोविदः ॥६०॥
पापकर्मरतः शूरः श्रद्धाहीनोऽघृणो नरः ।
परदाररतो रौद्रः शिखिनि व्ययगे सति ॥६१॥
रोगार्त्तः सततं कामी पापात्माधिगतः शठः ।
तनुस्थे गुलिके जातः खलभावोऽतिदुःखितः ॥६२॥
विकृतो दुःखितः क्षुद्रो व्यसनी च गतत्रपः ।
धनस्थे गुलिके जातो निःस्वो भवति मानवः ॥६३॥
चार्वङ्गो ग्रामपः पुण्यसंयुक्तः सज्जनप्रियः ।
सहजे गुलिके जातो मानवो राजपूजितः ॥६४॥
रोगी सुखपरित्यक्तः सदा भवति पापकृत् ।
गुलिके सुखभावस्थे वातपित्ताधिको भवेत् ॥६५॥
विस्तुतिर्विधनोऽल्पायुर्द्वेषी क्षुद्रो नपुंसकः ।
गुलिके सुतभावस्थे स्त्रीजितो नास्तिको भवेत् ॥६६॥
वीतशत्रुः सुपुष्टाङ्गो रिपुस्थाने यमात्मजे ।
सुदीप्तः सम्मतः स्त्रीणां सोत्साहः सुदृढो हितः ॥६७॥
स्त्रीजितः पापकृज्जारः कृशाङ्गो गतसौहृदः ।
जीवितः स्त्रीधनेनैव गुलिके सप्तमस्थिते ॥६८॥
क्षुधालुर्दुःखित क्रूरस्तीक्ष्णरोषोऽतिनिर्घृणः ।
रन्ध्रगे गुलिके निःस्वो जायते गुणवर्जितः ॥६९॥
बहुक्लेशः कृशतनुर्दुष्टकर्मातिनिर्घृणः ।
गुलिके धर्मगे मन्दः पिशुनो बहिराकृतिः ॥७०॥
पुत्रान्वितः सुखी भोक्ता देवाग्न्यर्चनवत्सलः ।
दशमे गुलिके जातो योगधर्माश्रितः सुखी ॥७१॥
सुस्त्रीभोगी प्रजाध्यक्षो बन्धूनां च हिते रतः ।
लाभस्थे गुलिके जातो नीचाङ्ग सार्वभौमकः ॥७२॥
नीचकर्माश्तितः पापो हीनाङ्गो दुर्भगोऽलसः ।
व्ययगे गुलिके जातो नीचेषु कुरुते रतिम् ॥७३॥
लग्ने प्राणपदे क्षणो रोगि भवति मानवः ।
मूकोन्मत्तो जडाङ्गस्तु हीनाङ्गो दुःखित कृशः ॥७४॥
बहुधान्यो बहुधनो बहुभृत्यो बहुप्रजः ।
धनस्थानस्थिते प्राणे सुभगो जयते नरः ॥७५॥
हिंस्रो गर्वसमायुक्तो निष्ठुरोऽतिमलिम्लुचः ।
तृतीयगे प्राणपदे गुरुभक्तिविवर्जितः ॥७६॥
सुखस्थे तु सुखी कान्तः सुहृद्रमासु वल्लभः ।
गुरौ परायणः शीतः प्राणे वै सत्यतत्परः ॥७७॥
सुखिभाक् सुक्रियोपेतस्त्वपचारदयान्वितः ।
पञ्चमस्थे प्राणपदे सर्वकामसमन्वितः ॥७८॥
बन्धुशत्रुवशस्तीक्ष्णो मन्दाग्निर्निर्दयः खलः ।
षष्ठे प्राणपदे रोगी वित्तपोऽल्पायुरेव च ॥७९॥
ईर्ष्यालु सततं कामी तीव्ररौद्रवपुर्नरः ।
सप्तमस्थे प्राणपदे दुराराध्यः कुबुद्धिमान् ॥८०॥
रोगसन्तापिताङ्गश्च प्राणपदेऽष्टमे सति ।
पीडितः पार्थिवैर्दुःखैर्मृत्यबन्धुसुतोद्भवैः ॥८१॥
पुत्रवान् धनसम्पन्नः सुभगः प्रियदर्शनः ।
प्राणे धर्मस्थिते भृत्यः सदाऽदुष्टो विचक्षणः ॥८२॥
वीर्यवान् मतिमान् दक्षो नृपकार्येषु कोविदः ।
दशमे वै प्राणपदे देवार्चनपरायणः ॥८३॥
विख्यातो गुणवान् प्राज्ञो भोगीध नसमन्वितः ।
लाभस्थानस्थिते प्राणे गौराङ्गो मातृवत्सलः ॥८४॥
क्षुद्रो दुष्टस्तु हीनाङ्गो विद्वेशी द्विजबन्धुषु ।
व्यये प्राणे नेत्ररोगी काणो वा जायते नरः ॥८५॥
इत्यप्रकाशखेटानां फलान्युक्तानि भूसुर ।
तथा यानि प्रकाशानां सूर्यादीनां खचारिणाम् ॥८६॥
तानि स्थितिवशात्तेषां स्फुटदृष्टिवशात् तथा ।
बलाऽबलविवेकेन वक्तव्यानि शरीरिणाम् ॥८७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-07-20T15:37:02.4230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

abalienation

  • न. अन्यक्रामण 
RANDOM WORD

Did you know?

Why the marriages are prohibited within same Gotra?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.