TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय २४

बृहत्पाराशरहोराशास्त्रम् - अध्याय २४

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


भावेशफलाध्यायः
लग्नेशे लग्नगे देहसुखभाग् भुजविक्रमी ।
मनस्वी चञ्चलश्चैव द्विभार्यो परगोऽपि व ॥१॥
लग्नेशे धनगे बालो लाभवान् पण्डितः सुखी ।
सुशीलो धर्मविन्मानी बहुदारगुणैर्युतः ॥२॥
लग्नेशे सहजे जातः सिंहतुल्यपराक्रमी ।
सर्वसम्पद्युतो मानी द्विभार्यो मतिमान् सुखी ॥३॥
लग्नेशे सुखगे बालः पितृमातृसुखान्वितः ।
बहुभ्रातृयुतः कामी गुणरूपसमन्वितः ॥४॥
लग्नेशे सुतगे जन्तोः सुतसौख्यं च मध्यमम् ।
प्रथमापत्यनाशः स्यान्मानी क्रोधी नृपप्रियः ॥५॥
लग्नेशे षष्ठगे जातो देहसौख्यविवर्जितः ।
पापाढ्ये शत्रुतः पीडा सौम्यदृष्टिविवर्जिते ॥६॥
लग्नेशे सप्तमे पापे भार्या तस्य न जीवति ।
शुभेऽटनो दरिद्रो वा विरक्तो वा नृपोऽपि वा ॥७॥
लग्नेशेऽष्टमगे जातः सिद्धविद्याविशारदः ।
रोगी चौरो महाक्रोधी द्यूती च परदारगः ॥८॥
लग्नेशे भाग्यगे जातो भाग्यवाञ्जनवल्लभः ।
विष्णुभक्तः पटुर्वाग्मी दारपुत्रधनैर्युतः ॥९॥
लग्नेशे दशमे जातः पितृसौख्यसमन्वितः ।
नृपमान्यो जने ख्यातः स्वार्जितस्वो न संशयः ॥१०॥
लग्नेशे लाभगे जातः सदा लाभसमन्वितः ।
सुशीलः ख्यातकीर्तिश्च बहुदारगुणैर्युतः ॥११॥
लग्नेशे व्ययभावस्थे देहसौख्यविवर्जितः ।
व्यर्थव्ययी महाक्रोधी शुभदृग्योगवर्जिते ॥१२॥
धनेशे लग्नगे जातः पुत्रवान् धनसंयुतः ।
कुटुम्बकण्टकः कामी निष्ठुरः परकार्यकृत् ॥१३॥
धनेशे धनगे जातो धनवान् गर्वसंयुतः ।
द्विभार्यो बहुभार्यो वा सुतहीनः प्रजायते ॥१४॥
धनेशे सहजे जातो विक्रमी मतिमान् गुणी ।
कामी लोभी शुभाढ्ये च पापाढ्ये देवनिन्दकः ॥१५॥
धनेशे सुखभावस्थे सर्वसम्पतसमन्वितः ।
गुरुणा संयुते स्वोच्चे राजतुल्यो नरो भवेत् ॥१६॥
धनेशे सुतभावस्थे जातो धनसमन्वितः ।
धनोपार्जनशीलाश्च जायन्ते तत्सुता अपि ॥१७॥
धनेशे रिपुभावस्थे सशुभे शत्रुतो धनम् ।
सपापे शत्रुतो हानिर्जंघावैकल्यवान् भवेत् ॥१८॥
धनेशे सप्तमे जातः परदाररतो भिषेक् ।
पापेक्षितयुते तस्य भार्या च व्यभिचारिणी ॥१९॥
धनेशेऽष्टमगे जातो भूरिभूमिधनैर्युतः ।
पत्नीसुखं भवेत् स्वल्पं ज्येष्ठभ्रातृसुखं न हि ॥२०॥
धनेशे धर्मभावस्थे धनवानुद्यमी पटुः ।
बाल्ये रोगी सुखी पश्चात् तीर्थधर्मव्रतादिकृत् ॥२१॥
धनेशे कर्मगे जातः कामी मानी च पण्डितः ।
बहुदार्यधनैर्युक्तः किञ्च पुत्रसुखोज्झितः ॥२२॥
धनेशे लाभभावस्थे सर्वलाभसमन्वितः ।
सदोद्योगयुतो मानी कीर्तिमान् जायते नरः ॥२३॥
धनेशे व्ययभावस्थे साहमी धनवर्जितः ।
परभाग्यरतस्तस्य ज्येष्ठापत्यसुखं नहि ॥२४॥
लग्नगे सहजाधीशे स्वभुजार्जितवित्तवान् ।
सेवाज्ञः साहसी जातो विद्याहीनोऽपि बुद्धिमान् ॥२५॥
द्वितीये सहजाधीशे स्थूलो विक्रमवर्जितः ।
स्वल्पारम्भी सुखी न स्यात् परस्त्रीधनकामुकः ॥२६॥
सहजे सहजाधीशे सहोदरसुखान्वितः ।
धनपुत्रयुतो हृष्टो भुनक्ति सुखमद्भुतम् ॥२७॥
सुखस्थे सहजाधीशे सुखी च धनसंयुतः ।
मतिमान् जायते बालो दुष्टभार्यापतिश्च सः ॥२८॥
सुतस्थे सहजाधीशे पुत्रवान् गुणसंयुतः ।
भार्या तस्य भवेत् क्रूरा क्रूरग्रहयुतेक्षिते ॥२९॥
षष्ठभावे त्र्तीयेशे भ्रातृशत्रुर्महाधनी ।
मातुलैश्च समं वैरं मातुलानीप्रियो नरः ॥३०॥
सप्तमे सहजाधीशे राजसेवापरो नरः ।
बाल्ये दुःखी सुखी चान्ते जायते नाऽत्र संशयः ॥३१॥
अष्टमे सहजाधीशे जातश्चैरो नरो भवेत् ।
दासवृत्त्योपजीवी च राजद्वारे मृतिर्भवेत् ॥३२॥
नवमे सहजाधीशे पितुः सुखविवर्जितः ।
स्त्रीभिर्भाग्योदयस्तस्य पुत्रादिसुखसंयुतः ॥३३॥
दशमे सहजाधीशे जातः सर्वसुखान्वितः ।
स्वभुजार्जिवित्तश्च दुष्टस्त्रीभरणे रतः ॥३४॥
लाभगे सहजाधीशे व्यापारे लाभवान् सदा ।
विद्याहीनोऽपि मेधावी साहसी परसेवकः ॥३५॥
व्ययस्थे सहजाधीशे कुतार्ये व्ययकृज्जनः ।
पिता तस्य भवेत् क्रूरः स्त्रीभिर्भाग्योदयस्तथा ॥३६॥
सुखेशे धनगे जातो विद्यागुणविभूषितः ।
भूमीवाहनसंयुक्तो मातुः सुखसमन्वितः ॥३७॥
सुखेशे धनगे जातो भोगी सर्वधनान्वितः ।
कुटुम्बसहितो मानी साहसी कुहकान्वितः ॥३८॥
सुखेशे सहजे जातो विक्रमी भृत्यसंयुतः ।
उदारोऽरुग् गुणी दाता स्वभुजार्जितवित्तवान् ॥३९॥
सुखेशे सुखभावस्थे मन्त्री सर्वधनान्वितः ।
चतुरः शीलवान् मानी ज्ञानवान् स्त्रीप्रियः सुखी ॥४०॥
सुखेशे पुत्रभावस्थे सुखी सर्वजनप्रियः ।
विष्णुभक्तो गुणी मानी स्वभुजार्जितवित्तवान् ॥४१॥
सुखेशे रिपुभावस्थे मातुः सुखविवर्जितः ।
क्रोधी चोरोऽभिचारी च स्वेच्छाचारश्च दुर्मनाः ॥४२॥
सुखेशे सप्तमे जातो बहुविद्यासमन्वितः ।
पित्रार्जितधनत्यागी सभायां मूकवद् भवेत् ॥४३॥
सुखेशे रन्ध्रभावस्थे गृहादिसुखवर्जितः ।
पित्रोः सुखं भवेदल्पं जातः क्लीबसमो भवेत् ॥४४॥
सुखेशे भाग्यभावस्थे जातः सर्वजनप्रियः ।
देवभक्तो गुणी मानी भवेत् सर्वसुखान्वितः ॥४५॥
सुखेशे कर्मभावस्थे राजमान्यो नरो भवेत् ।
रसायनी महाहृष्टो सुखभोगी जितेन्द्रियः ॥४६॥
सुखेशे लाभगे जातो गुप्तरोगभयान्वितः ।
उदारी गुणवान् दाता परोपकरणे रतः ॥४७॥
सुखेशे व्ययभावस्थे गृहादिसुखवर्जितः ।
जातो दुर्व्यसनी मूढः सदाऽलस्यसमन्वितः ॥४८॥
सुतेशे लग्नगे जातो विद्यान् पुत्रसुखान्वितः ।
कदर्यो वक्रचित्तश्च परद्रव्यापहारकः ॥४९॥
सुतेशे धनगे जातो बहुपुत्रो धनान्वितः ।
कुटुम्बपोषको मानी स्त्रीप्रियः सुयशा भुवि ॥५०॥
सुतेशे सहजे भावे जायते सोदरप्रियः ।
पिशुनश्च कदर्यश्च स्वकार्यनिरतः सदा ॥५१॥
सुतेशे सुखभावस्थे सुखी मातृसुखान्वितः ।
लक्ष्मीयुक्तः सुबुद्धिश्च राज्ञोऽमात्योऽथवा गुरुः ॥५२॥
सुतेशे सुतभावस्ते शुभाढ्ये पुत्रवान् नरः ।
पापाढ्येऽपत्यहीनोऽसौ गुणवान् मित्रवत्सलः ॥५३॥
सुतेशे रिपुभावस्थे पुत्रः शत्रुसमो भवेत् ।
मृतापत्योऽथवा जातो दत्तक्रीतसुतोऽथवा ॥५४॥
सुतेशे सप्तमे मानी सर्वधर्मसमन्वितः ।
पुत्रादिसुखयुक्तश्च परोपकरणे रतः ॥५५॥
सुतेशे रन्ध्रभावस्थे स्वल्पपुत्रसुखान्वितः ।
कासश्वाससमायुक्तः क्रोधी च सुखवर्जितः ॥५६॥
सुतेशे भाग्यगे पुत्रो भपो वा तत्समो भवेत् ।
स्वयं वा ग्रन्थकर्ता च विख्यातः कुलदीपकः ॥५७॥
सुतेशे राज्यभावस्थे राजयोगो हि जायते ।
अनेकसुखभोगी च ख्यातकीर्तिर्नरो भवेत् ॥५८॥
सुतेशे लाभगे जातो विद्यावान् जनवल्लभः ।
ग्रन्थकर्ता महादक्षो बहुपुत्रधनान्वितः ॥५९॥
सुतेशे व्ययभावस्थे जातः पुत्रसुखोज्ज्ञितः ।
दत्तपुत्रयुतो वाऽसौ क्रीतपुत्रान्वितोऽथवा ॥६०॥
षष्ठेशे लग्नगे जातो रोगवान् कीर्तिसंयुतः ।
आत्मशत्रुर्धनी मानी साहसी गुणवान् नरः ॥६१॥
षष्ठेशे धनभावस्थे साहसी कुलविश्रुतः ।
परदेशी सुखी वक्ता स्वकर्मनीरतः सदा ॥६२॥
षष्ठेशे सहजः जातः क्रोधी विक्रमवर्जितः ।
भ्राता शत्रुसमस्तस्य भृत्यश्चोत्तरदायकः ॥६३॥
षष्ठेशे सुखभावस्थे मातुः सुखविवर्जितः ।
मनस्वी पिशुना द्वेषी चलचित्तोऽतिवित्तवान् ॥६४॥
षष्ठेशे सुतगो यस्य चलं तस्य धनादिकम् ।
शत्रुता पुत्रमित्रैश्च सुखी स्वार्थी दयान्वितः ॥६५॥
षष्ठेशे रिपुभावस्थे वैरं स्वज्ञातिमण्डलात् ।
अन्यैः सह भवेन् मैत्री सुखं मध्यं धनादिजम् ॥६६॥
षष्ठेशे दारभावस्थे जातो दारसुखोज्झितः ।
कीर्तिमान् गुणवान् मानी साहसी धनसंयुतः ॥६७॥
षष्ठेशेऽष्टमगे जातो रोगी शत्रुर्मनीषिणाम् ।
परद्रव्याभिलाषी च परदाररतोऽशुचिः ॥६८॥
षष्ठेशे भाग्यगे जातः काष्ठपाषाणविक्रयी ।
व्यवहारे क्वचिद्धानिः क्वचिद्वृद्धिश्च जायते ॥६९॥
षष्ठेशे दशमे भावे मानवः कुलविश्रुतः ।
अभक्तश्च पितुर्वक्ता विदेशे च सुखी भवेत् ॥७०॥
षष्ठेशे लाभगे जातः शत्रुतो धनमाप्नुयात् ।
गुणवान् साहसी मानी किन्तु पुत्रसुखोज्झितः ॥७१॥
षष्ठेशे व्ययभावस्थे व्यसने व्ययकृत् सदा ।
विद्वद्द्वेषी भवेज्जातो जीवहिंसासु तत्परः ॥७२॥
दारेशे लग्नगे जातः परदारेषु लम्पटः ।
दुष्टो विचक्षणोऽधीरो जनो वातरुजान्वितः ॥७३॥
दारेशे धनगे जातो बहुस्त्रीभिः समन्वितः ।
दारयोगाद्धनाप्तिश्च दीर्घसूत्री च मानवः ॥७४॥
दारेशे सहजे जातो मृतापत्यो हि मानवः ।
कदाचिज्जायते पुत्री यत्नात् पुत्रोऽपि जीवति ॥७५॥
दारेशे सुखभावस्थे जाया नास्य वशे सदा ।
स्वयं सत्यप्रियो धीमान् धर्मात्मा दन्तरोगयुक् ॥७६॥
दारेशे पञ्चमे जातो मानि सर्वगुणान्वितः ।
सर्वदा हर्षयुक्तश्च तथा सर्वधनाधिपः ॥७७॥
दारेशे रिपुभावस्थे भार्या तस्य रुजान्विता ।
स्त्रिया सहाऽथ वा वैरं स्वयं क्रोधी सुखोज्झितः ॥७८॥
दारेशे सप्तमे भावे जातो दारसुखान्वितः ।
धीरो विचक्षणो धीमान् केवलं वातरोगवान् ॥७९॥
दारेशे मृत्युभावस्थे जातो दारसुखोज्झितः ।
भार्याऽपि रोगयुक्ताऽस्य दुःशीलाऽपि न चानुगा ॥८०॥
दारेशे धर्मभावस्थे नानास्त्रीभिः समागमः ।
जायाहृतमना जातो बह्वारम्भकरो नरः ॥८१॥
दारेशे कर्मभावस्थे नास्य जाया वशानुगा ।
स्वयं धर्मरतो जातो धनपुत्रादिसंयुतः ॥८२॥
दारेशे लाभभावस्थे दारैरर्थसमागमः ।
पुत्रादिसुखमल्पं च जनः कन्यप्रजो भवेत् ॥८३॥
दारेशे व्ययगे जातो दरिद्रः कृपणोऽपि वा ।
भार्या; पि व्ययशीलाऽस्य वस्त्राजीवी नरो भवेत् ॥८४॥
अष्टमेशे तनौ जातस्तनुसौख्यविवर्जितः ।
देवानां ब्राह्मणानां च निन्दको व्रणसंयुतः ॥८५॥
अष्टमेशे धने बाहुबलहीनः प्रजायते ।
धनं तस्य भवेत् स्वल्पं नष्ट वित्तं न लभ्यते ॥८६॥
रन्ध्रेशे सहजे भावे भ्रातृसौख्यं न जायते ।
सालस्यो भृत्यहीनश्च जायते बलवर्जितः ॥८७॥
रन्ध्रेशे सुखभावस्थे मातृहीनो भवेच्छिशुः ।
गृहभूमिसुखैर्हीनो मित्रद्रोही न संशयः ॥८८॥
रन्ध्रेशे सुतभावस्थे जडबुद्धिः प्रजायते ।
स्वल्पप्रज्ञो भवेज्जतो दीर्घायुश्च धनान्वितः ॥८९॥
रन्ध्रेशे रिपुभावस्थे शत्रुजेता भवेज्जनः ।
रोगयुक्तशरीरश्च बाल्ये सर्पजलाद् भयम् ॥९०॥
रन्ध्रेशे दारभावस्थे तस्य भार्याद्वयं भवेत् ।
व्यापारे च भवेद्हानिस्तस्मिन् पापयुते ध्रुवम् ॥९१॥
रन्ध्रेशे मृत्युभावस्थे जाता दीर्घायुषा युतः ।
निर्बले मध्यमायुः स्याच्चौरो निन्द्योऽन्यनिन्दकः ॥९२॥
अष्टमेशे तपःस्थाने धर्मद्रोही च नास्तिकः ।
दुष्टभार्यापतिश्चैव परद्रव्यापहारकः ॥९३॥
रन्ध्रेशे कर्मभावस्ते पितृसौख्यविवर्जितः ।
पिशुनः कर्महीनश्च यदि नैव शुभेक्षिते ॥९४॥
रन्ध्रेशे लाभभावस्थे सपापे धनवर्जितः ।
बाल्ये दुःखी सुखी पश्चात् दीर्घायुश्च शुभान्विते ॥९५॥
रन्ध्रेशे व्ययभावस्थे कुकार्ये व्ययकृत् सदा ।
अल्पायुश्च भवेज्जातः सपापे च विशेषतः ॥९६॥
भाग्येशे लग्नगे जातो भाग्यवान् भूपवन्दितः ।
सुशीलश्च सुरूपश्च विद्यावान् जनपूजितः ॥९७॥
भाग्येशे धनभावस्थे पण्डितो जनवल्लभः ।
जायते धनवान् कामी स्त्रीपुत्रादिसुखान्वितः ॥९८॥
भाग्येशे भ्रातृभावस्थे जातो भ्रातृसुखान्वितः ।
धनवान् गुणवांश्चापि रूपशीलसमन्वितः ॥९९॥
भाग्येशे तुर्यभावस्थे गृहयानसुखान्वितः ।
सर्वसम्पत्तियुक्तश्च मातृभक्तो भवेन्नरः ॥१००॥
भाग्येशे सुतभावस्थे सुतभाग्यसमन्वितः ।
गुरुभक्तिरतो धीरो धर्मात्मा पण्डितो नरः ॥१०१॥
भाग्येशे रिपुभावस्थे स्वल्पभाग्यो भवेन्नरः ।
मातुलादिसुखैर्हीनः शत्रुभिः पीडितः सदा ॥१०२॥
भाग्येशे दारभावस्थे दारयोगात् सुखोदयः ।
गुणवान् कीर्तिमांश्चापि जायते द्विजसत्तमः ॥१०३॥
भाग्येशे मृत्युभावस्थे भाग्यहीनो नरो भवेत् ।
ज्येष्ठभ्रातृसुखं नैव तस्य जातस्य जायते ॥१०४॥
भाग्येशे भाग्यभावस्थे बहुभाग्यसमन्वितः ।
गुणसौन्दर्यसम्पन्नो सहजेभ्यः सुखं बहु ॥१०५॥
भाग्येशे कर्मभावस्थे जातो राजाऽथ तत्समः ।
मन्त्री सेनापतिर्वाऽपि गुणवान् जनपुजितः ॥१०६॥
भाग्येशे लाभभावस्थे धनलाभो दिने दिने ।
भक्तो गुरुजनानां च गुणवान् पुण्यवानपि ॥१०७॥
भाग्येशो व्ययभावस्थो भाग्यहानिकरो नृणाम् ।
शुभकार्ये व्ययो नित्यं निर्धनोऽतिथिसङ्गमात् ॥१०८॥
कर्मेशे लग्नगे जातो विद्वान् ख्यातो धनी कवीः ।
बाल्ये रोगी सुखी पश्चाद् धनवृद्धिर्दिने दिने ॥१०९॥
राज्येशे धनभावस्थे धनवान् गुणसंयुतः ।
राजमान्यो वदान्यश्च पित्रादिसुखसंयुतः ॥११०॥
कर्मेशे सहजे जातो भ्रातृभृत्यसुखान्वितः ।
विक्रमी गुणसम्पन्नः वाग्मी सत्यरतो नरः ॥१११॥
कर्मेशे सुखभावस्थे सुखी मातृहिते रतः ।
यानभूमिगृहाधीशो गुणवान् धनवानपि ॥११२॥
कर्मेशे सुतभावस्थे सर्वविद्यासमन्वितः ।
सर्वदा हृर्षसंयुक्तो धनवान् पुत्रवानपि ॥११३॥
कर्मेशे रिपुभावस्थे पितृसौख्यविवर्जितः ।
चतुरोऽपि धनैर्हीनः शत्रुभिः परिपीडितः ॥११४॥
राज्येशे दारभावस्थे जातो दारसुखान्वितः ।
मनस्वी गुणवान् वाग्मी सत्यधर्मरतः सदा ॥११५॥
कर्मेशे रन्ध्रभावस्थे कर्महीनो भवेन्नरः ।
दीर्घायुरप्यसौ जातः परनिन्दापरायणः ॥११६॥
राज्येशे भाग्यभे जातो राजा राजकुलोद्भवः ।
तत्समोऽन्यकुलोत्पन्नो धनपुत्रादिसंयुतः ॥११७॥
कर्मेशे राज्यभावस्थे सर्वकर्मपटुः सुखी ।
विक्रमी सत्यवक्ता च गुरुभक्तिरतो नरः ॥११८॥
राज्येशे लाभभावस्थे जातो धनसुतान्वितः ।
हर्षवान् गुणवांश्चापि सत्यवक्ता सदा सुखी ॥११९॥
राज्येशे व्ययभावस्थे तस्य राजगृहे व्ययः ।
शत्रुतोऽपि भयं नित्यं चतुरश्चापि चिन्तितः ॥१२०॥
लाभेशे लग्नगे जातः सात्त्विको धनवान् सुखी ।
समदृष्टिः कविर्वाग्मी सदा लाभसमन्वितः ॥१२१॥
लाभेशे धनभावस्थे जातः सर्वधनान्वितः ।
सर्वसिद्धियुतो दाता धार्मिकश्च सुखी सदा ॥१२२॥
लाभेशे सहजे जातः कुशलः सर्वकर्मसु ।
धनी भ्रातृसुखोपेतः शूलरोगभयं क्वचित् ॥१२३॥
लाभेशे सुखभावस्थे लाभो मातृकुलाद् भवेत् ।
तीर्थयात्राकरो जातो गृहभूमिसुखान्वितः ॥१२४॥
लाभेशे सुतभावस्थे भवन्ति सुखिनः सुताः ।
विद्यवन्तोऽपि सच्छीलाः स्वयं धर्मरतः सुखी ॥१२५॥
लाभेशे रोगभावस्थे जातो रोगसमन्वितः ।
क्रूरबुद्धिः प्रवासी च शत्रुभि परिपीडितः ॥१२६॥
लाभेशे दारभावस्थे लाभो दारकुलात् सदा ।
उदारश्च गुणी कामी जनो भार्यावशानुगः ॥१२७॥
लाभेशे रन्ध्रभावस्थे हानिः कार्येषु जायते ।
तस्यायुश्च भवेद्दीर्घं प्रथमं मरणं स्त्रियः ॥१२८॥
लभेशे भाग्यभावस्थे भाग्यवान् जायते नरः ।
चतुरः सत्यवादी च राजपुज्यो धनाधिपः ॥१२९॥
लाभेशे कर्मभावस्थे भूपवन्द्यो गुणान्वितः ।
निजधर्मरतो धीमान् सत्यवादी जितेन्द्रियः ॥१३०॥
लाभेशे लाभभावस्थे लाभः सर्वेषु कर्मसु ।
पण्डित्यं च सुखं तस्य वर्द्धते च दिने दिने ॥१३१॥
लाभेशे व्ययभावस्थे सत्कार्येषु व्ययः सदा ।
कामुको बहुपत्नीको म्लेच्छसंसर्गकारकः ॥१३२॥
व्ययेशे लग्नगे जातो व्ययशीलो जतो भवेत् ।
दुर्बलः कफरोगी च धनविद्याविवर्जितः ॥१३३॥
व्ययेशे धनभावस्थे शुभकार्ये व्ययः सदा ।
धार्मिकः प्रियवादी च गुणसौख्यसमन्वितः ॥१३४॥
व्ययेशे सहजे जातो भ्रातृसौक्यविवर्जितः ।
भवेदन्यजनद्वेषी स्वशरीरस्य पोषकः ॥१३५॥
व्ययेशे सुखभावस्थे मातुः सुखविवर्जितः ।
भूमियानगृहादीनां हानिस्तस्य दिनेदिने ॥१३६॥
व्ययेशे सुतभावस्थे सुतविद्याविवर्जितः ।
पुत्रार्थे च व्ययस्तस्य तीर्थाटनपरो नरः ॥१३७॥
व्ययेशे रिपुभावस्थे जातः स्वजनवैरकृत् ।
क्रोधी पापी च दुःखी च परजायारतो नरः ॥१३८॥
व्ययेशे दारभावस्थे व्ययो दारकृतः सदा ।
तस्य भार्यासुखं नैव बलविद्याविवर्जितः ॥१३९॥
व्ययेशे मृत्युभावस्थे जातो लाभान्वितः सदा ।
प्रियवाङ् मध्यमायुश्च सम्पूर्णगुणसंयुतः ॥१४०॥
व्ययेशे भाग्यभावस्थे गुरुद्वेषी भवेन्नरः ।
मित्रैरपि भवेद्वैरं स्वार्थसाधनतत्परः ॥१४१॥
व्ययेशे राज्यभावस्थे व्ययो राजकुलाद्भवेत् ।
पितृतोऽपि सुखं तस्य स्वल्पमेव हि जायते ॥१४२॥
व्ययेशे लाभभावस्थे लाभे हानिः प्रजायते ।
परेण रक्षितं द्रव्यं कदाचिल्लभते नरः ॥१४३॥
व्ययेशे व्ययभावस्थे व्ययाधिक्यं हि जायते ।
न शरीरसुखं तस्य क्रोधी द्वेषपरो नृणाम् ॥१४४॥
इति ते कथितं विप्र भावेशानां च यत् फलम् ।
बलाबलविवेकेन सर्वेषं तत्समादिशेत् ॥१४५॥
द्विराशीशस्य खेटस्य विदित्वोभयथा फलम् ।
विरोधे तुल्यफलयोर्द्वयोर्नाशः प्रजायते ॥१४६॥
विभिन्नयोस्तु फलयोर्द्वयोः प्राप्तिर्भवेद्ध्रुवम् ।
ग्रहे पूर्णबले पुर्णमर्धमर्धबले फलम् ॥१४७॥
पादं हीनबले खेटे ज्ञेयमित्थं बुधैरिति ।
उक्तं भावस्थितानां ते भावेशानां पलं मया ॥१४८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-07-20T15:22:50.8900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

defensiveness

  • स्त्री. संरक्षणवृत्ति 
RANDOM WORD

Did you know?

हिंदू धर्मियांत विधवा स्त्रिया कुंकू का लावत नाहीत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site