TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ६०

बृहत्पाराशरहोराशास्त्रम् - अध्याय ६०

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


शुक्रान्तर्दशाफलाध्यायः
अथ स्वान्तर्गते शुक्रे लग्नात्केन्द्रत्रिकोणगे ।
लाभे वा बलसंयुक्ते तद्भुक्तौ च शुभं फलम् ॥१॥
विप्रमूलाद्धनप्राप्तिर्गोमहिष्यादिलाभकृत् ।
पुत्रोत्सवादिसन्तोषो गृहे कल्याणसम्भवः ॥२॥
सन्मानं राजसम्मानं राज्यलाभो महत्सुखम् ।
स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे वांशगेऽपि वा ॥३॥
नूतनालयनिर्माणं नित्यं मिष्ठान्नभोजनम् ।
कलत्रपुत्रविभवं मित्रसंयुक्तभोजनम् ॥४॥
अन्नदानं प्रियं नित्यं दनधर्मादिसङ्ग्रहः ।
महाराजप्रसादेन वाहनाम्बरभूषणम् ॥५॥
व्यवसायात्फलाधिक्यं चतुष्पाज्जीवलाभकृत् ।
प्रयाणं पश्चिमे भागे वाहनाम्बरलाभकृत् ॥६॥
लग्नाद्युपचये शुक्रे शुभग्रहयुतेक्षिते ।
मित्रांशे तुङ्गलाभेशयोगलारकसंयुते ॥७॥
राज्यलाभो महोत्साहो राजप्रीतिः शुभावहा ।
गृहे कल्याणसम्पत्तिर्दारपुत्रादिवर्द्धनम् ॥८॥
षष्ठाष्टमव्यये शुक्रे पापयुक्तेऽथ वीक्षिते ।
चौरादिव्रणभीतिश्च सर्वत्र जनपीडनम् ॥९॥
राजद्वारे जनद्वेष इष्टबन्धुविनाशनम् ।
दारपुत्रादिपीडा च सर्वत्र जनपीडनम् ॥१०॥
द्वितीयद्यूननाथे तु स्थिते चेन्मरणं भवेत् ।
तर्त दुर्गाजपं कुर्याद्धनुदानं च कारयेत् ॥११॥
शुक्रस्यान्तर्गते सूर्ये सन्तापो राजविग्रहः ।
दायादकलहश्चैव स्वोच्चनीचविवर्जिते ॥१२॥
( शुक्रस्यान्तर्गते सूर्ये सन्तापो राजभिः कलिः ।
दायादात् कलहश्चैव शुभक्षेत्रात्य राशिगे ॥१२॥) ।
स्वोच्चे स्वक्षेत्रगे सूर्ये मित्रर्क्षे केन्द्रकोणगे ।
दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा ॥१३॥
तद्भुक्तौ धनलाभः स्याद्राज्यस्त्रीधनसम्पदः ।
स्वप्रभोश्च महत्सौख्यमिष्टबन्धोः समागमः ॥१४॥
पितृमात्रोः सुखप्राप्तिं भ्रातृलाभं सुखावहम् ।
सत्कीर्तिं सुखसौभाग्यं पुत्रलाभं च विन्दति ॥१५॥
तथाष्टमे व्यये सूर्ये रिपुराशिस्थितेऽपि वा ।
नीचे वा पापवर्गस्थे देहतापो मनोरुजः ॥१६॥
स्वजनोपरिसंक्लेशो नित्यं निष्ठुरभाषणम् ।
पितृपीडा बन्धुहानी राजद्वारे विरोधकृत् ॥१७॥
व्रणपीडाहिबाधा च स्वगृहे च भयं तथा ।
नानारोगभयं चैव गृहक्षेत्रादिनाशनम् ॥१८॥
सप्तमाधिपतौ सूर्ये ग्रहबाधा भविष्यति ।
तद्दोषपरिहारार्थं सूर्यप्रीतिं च कारयेत् ॥१९॥
शुक्रस्यान्तर्गते चन्द्रे केन्द्रलाभत्रिकोणगे ।
स्वोच्चे स्वक्षेत्रगे चैव भाग्यनाथेनसंयुते ॥२०॥
शुभयुक्ते पूर्णचन्द्रे राज्यनाथेन संयुते ।
तद्बुक्तौ वाहनादीनां लाभं गेहे महत्सुखम् ॥२१॥
महाराजप्रसादेन गजान्तैश्वर्यमादिशेत् ।
महानदीस्नानपुण्यं देवब्राह्मणपूजनम् ॥२२॥
गीतवाद्यप्रसङ्गादिविद्वज्जनविभूषणम् ।
गोमहिष्यादिवृद्धिश्च व्यवसायेऽधिकं फलम् ॥२३॥
भोजनाम्बरसौख्यं च बन्धुसंयुक्तभोजनम् ।
नीचे वात्सङ्गते वापि षष्ठाष्टमव्ययराशिगे ॥२४॥
दायेशात्षष्ठगे वापि रन्ध्रे वा व्ययराशिगे ।
तत्काले धननाशः स्यात्सञ्चरेत महद्भयम् ॥२५॥
देहायासो मनस्तापो राजद्वारे विरोधकृत् ।
विदेशगमनं चैव तीर्थयात्रादिकं फलम् ॥२६॥
दारपुत्रादि पीडा च निजबन्धुवियोगकृत् ।
दायेशात्केन्द्रलाभस्थे त्रिकोणे सहजेऽपि वा ॥२७॥
राजप्रीतिकरी चैव देशग्रामाधिपत्यता ।
धैर्यं यशः सुखं कीर्तिर्वाहनाम्बरभूषणम् ॥२८॥
कूपारामतडागदिनिर्माणं धनसङ्ग्रहः ।
भुक्तयादौ देहसौख्यं स्यादन्ते क्लेशस्तथा भवेत् ॥२९॥
शुक्रस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षगे भौमे लाभे वा बलसंयुते ॥३०॥
लग्नाधिपेन संयुक्ते कर्मभाग्येशसंयुते ।
तद्भुक्तौ राजयोगादिसम्पदं शोभनां वदेत् ॥३१॥
वस्त्राभरणभूम्यादेरिष्टसिद्धिः सुखावहा ।
तथाऽष्टमे व्यये वाऽपि दायेशाद्वा तथैव च ॥३२॥
शीतज्वरादिपीडा च पितृमातृभयावहा ।
ज्वराद्यधिकरोगाश्च स्थानभ्रंशो मनोरुजा ॥३३॥
स्वबन्धुजनहानिश्च कलहो राजविग्रहः ।
राजद्वारजनद्वेषो धनधान्यव्ययोऽधिकः ॥३४॥
व्यवसायात्फलं नेष्टं ग्रामभूम्यादिहानिकृत् ।
द्वितीयद्यूननाथे तु देहवाधा भविष्यति ॥३५॥
शुक्रस्यान्तर्गते राहौ केन्द्रलाभत्रिकोणगे ।
स्वोच्चे वा शुभसंदृष्टे योगकारकसंयुते ॥३६॥
तद्भुक्तौ बहुसौख्यं च धनधान्यादिलाभकृत् ।
इष्टबन्धुसमाकीर्णं भवनं च समादिशेत् ॥३७॥
यातुः कार्यार्थसिद्धिः स्यात् पशुक्षेत्रादिसम्भवः ।
लग्नाद्युपचये राहौ तद्भुक्तिः सुखदा भवेत् ॥३८॥
शत्रुनाशो महोत्साहो राजप्रीतिकरी शुभा ।
भुक्त्यादौ शरमासांश्च अन्ते ज्वरमजीर्णकृत् ॥३९॥
कार्यविघ्नमवाप्नोति सञ्चरे च मनोव्यथा ।
परं सुखं च सौभाग्यं महाराज इवाऽश्नुते ॥४०॥
नैऋतीं दिशमाश्रित्य प्रयाणं प्रभुदर्शनम् ।
यातुः कार्यार्थसिद्धिः स्यात्स्वदेशे पुनरेष्यति ॥४१॥
उपकारो ब्राह्मणानां तीर्थयात्राफलं भवेत् ।
दायेशाद्रन्ध्रभावस्थे व्यये वा पापसंयुते ॥४२॥
अशुभं लभते कर्म पितृमातृजनावधि ।
सर्वत्र जनविद्वेषं नानारूपं द्विजोत्तम ॥४३॥
द्वितीये सप्तमे वापि देहालस्य विनिर्दिशेत् ।
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ॥४४॥
शुक्रस्यान्तर्गते जीवे स्वोच्चे स्वक्षेत्रकेन्द्रगे ।
दायेशाच्छुभराशिस्थे भाग्ये वा पुत्रराशिगे ॥४५॥
नष्टराज्याद्धनप्राप्तिमिष्टार्थाम्बरसम्पदम् ।
मित्रप्रभोश्च सन्मानं धनधान्यं लभेन्नरः ॥४६॥
राजसम्मानकीर्तिं च अश्वान्दोलादिलाभकृत् ।
विद्वत्प्रभुसमाकीर्णं शास्त्रापरिश्रमम् ॥४७॥
पुत्रोत्सवादिसन्तोषमिष्टबन्धुसमागमम् ।
पितृमातृसुखप्राप्तिं पुत्रादिसौख्यमादिशेत् ॥४८॥
दायेशात्षष्ठराशिस्थे व्यये वा पापसंयुते ।
राजचौरादिपीडा च देहपीडा भविष्यति ॥४९॥
आत्मरुग्बन्धुकष्टं स्यात्कलहेन मनोव्यथा ।
स्थानच्युतिं प्रवासं च नानारोगं समाप्नुयात् ॥५०॥
द्वितीयसप्तमाधीशे देहबाधा भविष्यति ।
तद्दोषपरिहारार्थं महामृत्युञ्जयं चरेत् ॥५१॥
शुक्रस्यान्तर्गते मन्दे स्वोच्चे तु परमोच्चगे ।
स्वर्क्षकेन्द्रत्रिकोणस्थे तुङ्गांशे स्वांशगेऽपि वा ॥५२॥
तद्भुक्तौ बहुसौख्यं स्यादिष्टबन्धुसमागमः ।
राजद्वारे च सम्मानं पुत्रिकाजन्मसम्भवः ॥५३॥
पुण्यतीर्थफलवाप्तिर्दानधर्मादिपुण्यकृत् ।
स्वप्रभोश्च पदावाप्तिः नीचस्थे क्लेशभाग्यभवेत् ॥५४॥
देहालस्यमवाप्नोति तथाऽयादधिकव्ययम् ।
तथाष्टमे व्यये मन्दे दायेशाद्वा तथैव च ॥५५॥
भुक्त्यादौ विविधा पीडा पितृमातृजनावधि ।
दारपुत्रादिपीडा च परदेशादिविभ्रमः ॥५६॥
व्यवसायात्फलं नष्टं गोमहिष्यादिहानिकृत् ।
द्वितीयसप्तमाधीशे देहबाधा भविष्यति ॥५७॥
तद्दोषपरिहारार्थं तिलहोमं च कारयेत् ।
मृत्युञ्जयजपं कुर्याच्चण्डीपाठमाथपि वा ॥५८॥
स्वयं वा ब्राह्मणद्वारा यथाशक्ति यथाविधि ।
ततः शान्तिमवाप्नोति शिवाशम्भुप्रसादतः ॥५९॥
शुक्रस्यान्तर्गते सौम्ये केन्द्रे लाभत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षगे वापि राजप्रीतिकरं शुभम् ॥६०॥
सौभाग्यं पुत्रलाभश्च सन्मार्गेण धनागमः ।
पुराणधर्मश्रवणं शृङ्गारिजनसंगमः ॥६१॥
इष्टबन्धुजनाकीर्णं शोभितं तस्य मन्दिरम् ।
स्वप्रभोश्च महत्सौख्यं नित्यं मिष्ठान्नभोजनम् ॥६२॥
दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ।
पापदृष्टे पापयुक्ते चतुष्पाज्जीवहानिकृत् ॥६३॥
अन्यालयनिवासश्च मनोवैकल्यसम्भवः ।
व्यापारेषु च सर्वेषु हानिरेव न संशयः ॥६४॥
भुक्त्यादौ शोभनं प्रोक्तं मध्ये मध्यफलं दिशेत् ।
अन्ते क्लेशकरं चैव शीतवातज्वरादिकम् ॥६५॥
सप्तमाधीशदोषेण देहपीडा भविष्यति ।
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥६६॥
शुक्रस्यान्तर्गते केतौ स्वोच्चे वा स्वर्क्षगेऽपि वा ।
योगकारकसम्बन्धे स्थानवीर्यसमन्विते ॥६७॥
भुक्त्यादौ शुभमाधिक्यान्नित्यं मिष्ठान्नभोजनम् ।
व्यवसायात्फलाधिक्यं गोमहोष्यादिवृद्धिकृत् ॥६८॥
धनधान्यसमृद्धिश्च संग्रामे विजयो भवेत् ।
भुक्त्यन्ते हि सुखं चैव भुक्त्यादौ मध्यमं फलम् ॥६९॥
मध्ये मध्ये महत्कष्टं पश्चादारोग्यमादिशेत् ।
दायेशाद्रन्ध्रभावस्थे व्यये वा पापसंयुते ॥७०॥
चौराहिव्रणपीडा च बुद्धिनाशो महद्भयम् ।
शिरोरुजं मनस्तापमकर्मकलहं वदेत् ॥७१॥
प्रमेहभवरोगं च नानामार्गे धनव्ययः ।
भार्यापुत्रविरोधश्च गमनं कार्यनाशनम् ॥७२॥
द्वितीयद्यूननाथे तु देहबाधा भविष्यति ।
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ॥७३॥
छागदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् ।
शुक्रप्रीतिकरीं शान्तिं ततः सुखमवाप्नुयात् ॥७४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-07-26T08:47:03.1930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

गैराद

  • पु. वरकड इतर लोक . - सभासद १४ . [ अर घैरात घैर ( अव . ) ] 
RANDOM WORD

Did you know?

चंद्र व सूर्य यांच्या ग्रहणी जन्म झाल्यास त्याचे काय परिणाम होतात? शांती, विधी काही आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.