संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय २३

बृहत्पाराशरहोराशास्त्रम् - अध्याय २३

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अथाह व्ययभावस्य कथयामि फलं द्विज ।
व्ययेशे शुभसंयुक्ते स्वभे स्वोच्चगतेऽपि वा ॥१॥
व्यये च शुभसंयुक्ते शुभकार्ये व्ययस्तदा ।
चन्द्रो व्ययाधिपो धर्मलाभमन्त्रेषु संस्थितः ॥२॥
स्वोच्चे स्वर्क्षे निजांशे वा लाभधर्मात्मजांशके ।
दिव्यागारादिपर्यंको दिव्यगन्धैकभोगवान् ॥३॥
परार्ध्यरमणो दिव्यवस्त्रमाल्यादिभूषणः ।
परार्ध्यवित्तसंयुतो विज्ञो दिनानि नयति प्रभुः ॥४॥
एवंस्वशत्रुनीचांशेऽष्टमांशे वाऽष्टमे रिपौ ।
संस्थितः कुरुते जातं कान्तासुखविवर्जितम् ॥५॥
व्ययाधिक्यपरिक्लान्तं दिव्यभोगनिराकृतम् ।
स हि केन्द्रत्रिकोणस्थः स्वस्त्रियाऽलंकृतः स्वयम् ॥६॥
यथा लग्नात् फलं चैतदात्मनः परिकीर्तितम् ।
एवं भ्रात्रादिभावेषु तत्तत्सर्वं विचारयेत् ॥७॥
दृश्यचक्रार्धगाः खेटाः प्रत्यक्षफलदायकाः ।
अदृश्यार्धगताः खेटाः परोक्षे फलदाः स्मृताः ॥८॥
व्ययस्थानगतोः राहुर्भौमार्किरविसंयुतः ।
तदीशेऽप्यर्कसंयुक्ते नरके पतनं भवेत् ॥९॥
व्ययस्थानगते सौम्ये तदीशे स्वोच्चराशिगे ।
शुभयुक्ते सुभैर्दृष्टे मोक्सः स्यान्नात्र संशयः ॥१०॥
व्ययेशे पापसंयुक्ते व्यये पापसमन्विते ।
पापग्रहेण संदृष्टे देशाद्देशान्तरं गतः ॥११॥
व्ययेशे शुभराशिस्थे व्ययर्क्षे शुभसंयुते ।
शुभग्रहेण संदृष्टे स्वदेशात् सञ्चरो भवेत् ॥१२॥
व्यये मन्दादिसंयुक्ते भूमिजेन समन्विते ।
सु/भदृष्टेर्न सम्प्राप्तिः पापमूलाद्धनार्जनम् ॥१३॥
लग्नेशे व्ययराशिस्थे व्ययेशे लग्नसंयुते ।
भृगुपुत्रेण संयुक्ते धर्ममूलाद्धनव्ययः ॥१४॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP