TransLiteral Foundation
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ३९

बृहत्पाराशरहोराशास्त्रम् - अध्याय ३९

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


राजयोगाध्यायः
अथाऽतः सम्प्रवक्ष्यामि राययोगान् द्विजोत्तम ।
येषां विज्ञानमात्रेण राजपूज्यो जनो भवेत् ॥१॥
ये योगाः शम्भुना प्रोक्ताः पुरा शैलसुताग्रतः ।
तेषां सारमहं वक्ष्ये तवाग्रे द्विजनन्दन ॥२॥
चिन्तयेत् कारकांशे वा जनुर्लग्नेऽथ वा द्विज ।
राजयोगकरौ द्वौ द्वौ स्फुटौ खेटौ प्रयत्नतः ॥३॥
आत्मकारकपुत्राभ्यां योगमेकं प्रकल्पयेत् ।
तनुपञ्चमनाथाभ्यां तथैव द्विजसत्तम ॥४॥
लग्नपुत्रेशयोरात्मपुत्रकारकयोर्द्वयोः ।
सम्बन्धात् पूर्णमर्धं वा पादं वीर्यानुसारतः ॥५॥
लग्नेशे पञ्चमे भावे पञ्चमेशे च लग्ने ।
पुत्रात्मकारकौ विप्र लग्ने च पञ्चमे स्थित ॥६॥
स्वोच्चे स्वंशे स्वभे वाऽपि शुभग्रहनिरीक्षितो ।
महाराजाख्ययोगोऽत्र जातः ख्यातः सुखान्वितः ॥७॥
भाग्येशः कारको लग्ने पञ्चमे सप्तमेऽपि वा ।
राजयोगप्रदातारौ शुभखेटयुतेक्षितौ ॥८॥
लग्नेशात् कारकाच्चापि धने तुर्ये च पञ्चमे ।
शुभखेटयुते भावे जातो राजा भवेद् ध्रुवम् ॥९॥
तृतीये षष्ठभे ताभ्यां पापग्रहयुतेक्षिते ।
जातो राजा भवेदेवं मिश्रे मिश्रफलं वदेत् ॥१०॥
स्वांशे वा पञ्चमे शुक्रे जीवेन्दुयुतवीक्षिते ।
लग्ने लग्नपदे वाऽपि राजवर्गो भवेन्नरः ॥११॥
जन्माङ्गे कालहोराङ्गे कालङ्गे येन केनचित् ।
एकग्रहेण सन्दृष्टे त्रितये राजभाग् जनः ॥१२॥
लग्नषड्वर्गके चैवमेकखेटयुतेक्षिते ।
राजयोगो भवत्येव निर्विशंक द्विजोत्तम ॥१३॥
पूर्णदृष्टे पूर्नयोगमर्धदृष्टेऽर्धमेव च ।
पाददृष्टे पादयोगमिति ज्ञेयं क्रमात् फलम् ॥१४॥
लग्नत्रये स्वभोच्चस्थे खेटे राजा भवेद् ध्रुवम् ।
यद्वा लग्ने दृकाणेंऽशे स्वोच्चखेटयुते द्विज ॥१५॥
पदे शुभ सचंद्रे च धने देवगुरौ तथा ।
स्वोच्चस्थखेटसन्दृष्टे राजयोगो न संशयः ॥१६॥
शुभे लग्ने शुभे त्वर्थे तृतीये पापखेचरे ।
चतुर्थे च शुभे प्राप्ते राजा वा तत्समोऽपि वा ॥१७॥
स्वोच्चस्थो हरिणांको वा जीवो वा शुक्र एव वा ।
बुधो वा धनभावस्थः श्रियं दिशति देहिनः ॥१८॥
षष्ठेऽष्टमे तृतीये वा स्वस्वनीचगता ग्रहाः ।
लग्नं पश्येत् स्वभोच्चस्थो लग्नपो राज्ययोगदः ॥१९॥
षष्ठाऽष्टमव्ययाधीशा नीचस्था रिपुभेऽस्थगाः ।
स्वोच्चस्वभगलग्नेशो लग्नं पश्यंश्च राज्यदः ॥२०॥
स्वोच्चस्वभस्थराज्येशो लग्नं पश्यंश्च राज्यदः ।
शुभाः केन्द्रस्थिता वाऽपि राज्यदः नाऽत्र संशयः ॥२१॥
शुभराशौ शुभांशे च कारको धनवान् भवेत् ।
तदंशकेन्द्रेषु शुभे नूनं राजा प्रजायते ॥२२॥
लग्नारूढं दारपदं मिथः केन्द्र स्थितं यदि ।
त्रिलाभे वा त्रिकोणे वा तदा राजा न संशयः ॥२३॥
भावहोराघटीसंज्ञलग्नानि च प्रपश्यति ।
स्वोच्चग्र्हो राजयोगो लग्नद्वयमथापि वा ॥२४॥
राशेर्द्रेष्काणतोंऽशाच्च राशेरंशादथापि वा ।
यद्वा राशिदृकाणाभ्यां लग्नद्रष्टा तु योगदः ॥२५॥
पदे स्वोच्चखगाक्रान्ते चन्द्राक्रान्ते विशेषतः ।
क्रान्ते च गुरुशुक्राभ्यां केनाप्युच्चग्रहेण वा ॥२६॥
दुष्टार्गलग्रहाभावे राजयोगो न संशयः ।
शुभारूढे तत्र चन्द्रे धने देवगुरौ तथा ॥२७॥
दुःस्थानेशोऽपि नीचस्थो यदि लग्नं प्रपश्यति ।
तदाऽपि राजयोगः स्यादिति ज्ञेयं द्विजोत्तम ॥२८॥
चतुर्थदशमार्थायपतिदृष्टे विलग्नभे ।
पदाल्लाभे तु शुक्रेण दृष्टेऽप्यारूढभे शुभे ॥२९॥
राजा वा तत्समो वापि जातको जायते ध्रुवम् ।
ष.ष्ठाष्टमगते नीचे लग्नं पश्यति वा तथा ॥३०॥
तृतीयलाभगे नीचे लग्नं पश्यति वा तथा ।
लग्नांशकेन्द्रेषु शुभे निग्रहानुग्रहक्षमः ॥३१॥
अथाऽहं सम्प्रवक्ष्यामि राजयोगादिकं परम् ।
ग्रहाणां स्थानभेदेन दृष्टियोगवशात् फलम् ॥३२॥
तपःस्थानाधिपो मन्त्री मन्त्राधीशो विशेषतः ।
उभावन्योन्यसंदृष्टौ जातश्चेदिह राज्यभाक् ॥३३॥
यत्र कुत्रापि संयुक्तौ तौ वापि समसप्तमौ ।
राजवंशभवो बालो राजा भवति निश्चितम् ॥३४॥
वाहनेशस्तथा माने मानेशो वाहने स्थितः ।
बुद्धधर्माधिपाभ्यां तु दृष्टश्चेदिह राज्यभाक् ॥३५॥
सुतकर्मसुहृल्लग्ननाथा धर्मपसंयुताः ।
यस्य जन्मनि भूपोऽसौ कीर्त्या ख्यातो दिगन्तरे ॥३६॥
सुखकर्मादिपौ वापि मन्त्रिनाथेन संयुतौ ।
धर्मनाथेन वा युक्तौ जातश्चेदिह राज्यभाक् ॥३७॥
सुतेशे धर्मनाथेन युते लग्नेश्वरेण वा ।
लग्ने सुखेऽथवा माने स्थिते जातो नृपो भवेत् ॥३८॥
धर्मस्थाने स्थिते जीवे स्वगृहे भृगुसंयुते ।
पंचमाधिपयुक्ते वा जातश्चेदिह राजभाक् ॥३९॥
दिनार्धाच्च निशार्धाच्च परं सार्धद्विनाडिका ।
शुभा वेला तदुत्पन्नो राजा स्यात्तत्समोऽपि वा ॥४०॥
चन्द्रः कविं कविश्चन्द्रमन्योऽन्यं त्रिभवस्थितः ।
मिथः पश्यति वा क्वापि राजयोग उदाहृतः ॥४१॥
चन्द्रे वर्गोत्तमांशस्थे सबले चतुरादिभिः ।
ग्रहैर्दृष्टे च यो जातः स राजा भवति ध्रुवम् ॥४२॥
उत्तमांशगते लग्ने चन्द्रान्यैश्चतुरादिभिः ।
ग्रहैर्दृष्टेऽपि यो जातः सोऽपि भूमिपतिर्भवेत् ॥४३॥
त्र्यल्पैरुच्चस्थितैः खेटे राजा राजकुलोद्भवः ।
अन्यवंशभवस्तत्र राजतुल्यो धनैर्युतः ॥४४॥
चतुर्भिः पञ्चभिर्वाऽपि खेटैः स्वोच्चत्रिकोणगैः ।
हीनवंशभवश्चापि राजा भवति निश्चितः ॥४५॥
षड्भिरुच्चगतैः खेटैश्चक्रवर्तित्वमाप्नुयात् ।
एवं बहुविधा राजयोगा ज्ञेया द्विजोत्तम ॥४६॥
एको गुरुर्भृगुर्वापि बुधो वा स्वोच्चसंस्थितः ।
शुभग्रहयुते केन्द्रे राजा वा तत्समो भवेत् ॥४७॥
केन्द्रेस्थितैः शुभैः सर्वैः पापैश्च त्रिषडायगैः ।
हीनवंशोऽपि यो जातः स राजा भवति ध्रुवम् ॥४८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-07-20T15:51:51.5700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

gratutions interference

  • अनुग्रहीक हस्तक्षेप 
RANDOM WORD

Did you know?

रुक्मिणीस्वयंवर पोथीची पारायणे केली असता मुलींची लग्ने लवकर जमतात, हे खरे आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site