TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ५५

बृहत्पाराशरहोराशास्त्रम् - अध्याय ५५

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


रह्वन्तर्दशाफलाध्यायः
कुलीरे वृश्चिके राहौ कन्यत्यां चापगेऽपि वा ।
तद्भुक्तो राजसम्मानं वस्त्रवाहनभूषणम् ॥१॥
व्यवसायात्फलाधिक्यं चतुष्पाज्जीवलाभकृत् ।
प्रयाणं पश्चिमे भागे वाहनाम्बरलाभकृत् ॥२॥
लग्नादुपचये राहौ शुभग्रहयुतेक्षिते ।
मित्रांशे तुङ्गभागांशे योगकारकसंयुते ॥३॥
राज्यलाभं महोत्साहं राजप्रीतिं शुभावहम् ।
करोति सुखसम्पत्तिं दारपुत्रादिवर्द्धनम् ॥४॥
लग्नाष्ट्मे व्यये राहौ पापयुक्तेऽथ वीक्षिते ।
चौरादिव्रणपीडा च सर्वत्रैवं भवेद्द्विज ॥५॥
राजद्वारजनद्वेष इष्टबन्धुविनाशनम् ।
दारपुत्रादिपीडा च भवत्येव न संशयः ॥६॥
द्वितीयद्यूननाथे वा सप्तमस्थानमाश्रिते ।
सदा रोगो महाकष्टं शान्तिं कुर्याद्यथाविधि ।
आरोग्यं सम्पदश्चैव भविष्यन्ति तदा द्विज ॥७॥
राहुरन्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे स्वक्षेत्रगे वापि तुङ्गस्वर्क्षांशगेऽपि वा ॥८॥
स्थानलाभं मनोधैर्यं शत्रुनाशं महत्सुखम् ।
राजप्रीतिकरं सौख्यं जनोऽतीव समश्नुते ॥९॥
दिनेदिने वृद्धिरपि सितपक्षे शशी यथा ।
वाहनादिधनं भूरि गृहे गोधनसंकुलम् ॥१०॥
नैरृत्ये पश्चिमे भागे प्रयाणं राजदर्शनम् ।
युक्तकार्यार्थसिद्धिः स्यात्स्वदेशे पुनरेष्यति ॥११॥
उपकारो ब्राह्मणानां तीर्थयात्रादिकर्मणाम् ।
वाहनग्रामलाभश्च देवब्राह्मणपूजनम् ॥१२॥
पुत्रोत्सवादिसन्तोषो नित्यं मिष्ठान्नभोजनम् ।
नीचे वाऽस्तङ्गते वापि षष्ठाष्टव्ययराशिगे ॥१३॥
शत्रुक्षेत्रे पापयुक्ते धनहानिर्भविष्यति ।
कर्मविघ्नो भवेत्तस्य मानहानिश्च जायते ॥१४॥
कलत्रपुत्रपीडा च हृद्रोगो राजकारकृत् ।
दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा ॥१५॥
दुश्चिक्ये बलसम्पूर्णे गृहक्षेत्रादिवृद्धिकृत् ।
भोजनाम्बरपश्वादिदानधर्मजपादिकम् ॥१६॥
भुक्त्यन्ते राजकोपाच्च द्विमासं देहपीडनम् ।
ज्येष्ठभ्रातुर्विनाशश्च मातृपित्रादिपीडनम् ॥१७॥
दायेशात्षष्ठरन्ध्रे वा रिःफे वा पापसंयुते ।
तद्भुक्तौ धनहानिः स्याद्देहपीडा भविष्यति ॥१८॥
द्वितीयद्यूननाथे वा ह्यपमृत्युर्भविष्यति ।
स्वर्णस्य प्र्तिमादानं शिवपूजं च कार्यते ॥१९॥
स्र्/ईशम्भोश्च प्रसादेन ग्रहस्तुष्टो द्विजोत्तम ।
देहारोग्यं प्रकुरुते शान्तिं कुर्याद्विचक्षणम् ॥२०॥
राहोरन्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे मूलत्रिकोणे वा दुश्चिक्ये लाभराशिगे ॥२१॥
तद्भुक्तौ नृपतेः सेवा राजप्रीतिकरी शुभा ।
विवाहोत्सवकार्याणि कृत्वा पुण्यानि भूरिशः ॥२२॥
आरामकरणे युक्तो तडागं कारयिष्यति ।
शूद्रप्रभुवशादिष्टलाभो गोधनसंग्रहः ॥२३॥
प्रयाणं पश्चिमे भागे प्रभुमूलाद्धनक्षयः ।
देहालस्यं फलाल्पत्वं स्वदेशे पुनरेष्यति ॥२४॥
नीचारिक्षेत्रगे मन्दे रन्ध्रे वा व्ययगेऽपि वा ।
नीचारिराजभीतिश्च दारपुत्रादिपीडनम् ॥२५॥
आत्मबन्धुमनस्तापं दायादजनविग्रहम् ।
व्यवहारे च कलहमकस्माद्भूषणं लभेत् ॥२६॥
दायेशात्षष्ठरिष्फे वा रन्ध्रे वा पापसंयुते ।
हृद्रोगो मानहानिश्च विवादः शत्रुपीडनम् ॥२७॥
अन्यदेशादिसञ्चारो गुल्मवद्वयाधिभाग्भवेत् ।
कुभोजनं कोद्रवादि जातिदुःखाद्भयं भवेत् ॥२८॥
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ।
कृष्णां गां महिषीं दद्याद्दानेमारोग्यमादिशेत् ॥२९॥
राहोरन्तर्गते सौम्ये भाग्ये वा स्वर्क्षगेऽपि वा ।
तुङ्गे वा केन्द्रराशिस्थे पुत्रे वा बलगेऽपि वा ॥३०॥
राजयोगं प्रकुरुते गृहे कल्याणवर्द्धनम् ।
व्यापारेण धनप्राप्तिविद्यावाहनमुत्तमम् ॥३१॥
विवाहोत्सवकार्याणि चतुष्पाज्जीवलाभकृत् ।
सौम्यमासे महत्सौख्यं स्ववारे राजदर्शनम् ॥३२॥
सुगन्धपुष्पशय्यादि स्त्रीसौख्यं चातिरोभनम् ।
महाराजप्रसादेन धनलाभो महद्यशः ॥३३॥
दायेशात्केन्द्रलाभे वा दुश्चिक्ये भाग्यकर्मगे ।
देहारोग्यं हृदुत्साह इष्टसिद्धिः सुखावहा ॥३४॥
पुण्यश्लोकादिकीर्तिश्च पुराणश्रवणादिकम् ।
विवाहो यज्ञदीक्षा च दानधर्मदयादिकम् ॥३५॥
षष्ठाष्टमव्यये सौम्ये मन्देनापि युतेक्षिते ।
दायेशात्षष्ठरिःफे वा रन्ध्रे वा पापसंयुते ॥३६॥
देवभाह्मणनिन्दा च भोगभाग्यविवर्जितः ।
सत्यहीनश्च दुर्बुद्धिश्चौराहिनृपपीडनम् ॥३७॥
अकस्मात्कलहश्चैव गुरुपुत्रादिनाशनम् ।
अर्थव्ययो राजकोपो दारपुत्रादिपीडनम् ॥३८॥
द्वितीयद्यूननाथे वा ह्यपमृत्युभयं वदेत् ।
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥३९॥
राहोरन्तर्गते केतौ भ्रमणं राजतो भयम् ।
वातज्वरादिरोगश्च चतुष्पाज्जीवहानिकृत् ॥४०॥
अष्टमाधिसंयुक्ते देहजाड्यं मनोव्यथा ।
शुभयुक्ते शुभैर्दृष्टे देहसौख्यं धनागमः ।
राजसम्मानभूषाप्तिर्गृहे शुभकरो भवेत् ॥४१॥
लग्नाधिपेन सम्बन्धे इष्टसिद्धिः सुखावहा ।
लग्नाधिपसमायुक्ते लाभो वा भवति ध्रुवम् ॥४२॥
चतुष्पाज्जिवलाभः स्यात्केन्द्रे वाथ त्रिकोणगे ।
रन्ध्रस्थानगते केतौ व्यये वा बलवर्जिते ॥४३॥
तद्भुक्तौ बहुरोगः स्याच्चोराहिव्रणपीडनम् ।
पितृमातृवियोगश्च भातृद्वेषो मनोरुजा ॥४४॥
द्वितीयद्यूननाथे तु देहबाधा भविष्यति ।
तद्दोषपरिहारार्थं छागदानं च कारयेत् ॥४५॥
राहोरन्तर्गते शुक्रे कग्नात्केन्द्गत्रिकोणगे ।
लाभे वा बलसंयुक्ते योगप्राबल्यमादिशेत् ॥४६॥
विप्रमूलाद्धनप्राप्तिर्गोमहिष्यादिलाभकृत् ।
पुत्रोत्सवादिसन्तोषो गृहे कल्याणसम्भवः ॥४७॥
सम्मानं राजसम्मनं राज्यलाभो महत्सुखम् ।
स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे स्वांशगेऽपि वा ॥४८॥
नूतनं गृहनिर्माणं नित्यं मिष्ठान्नभोजनं ।
कलत्रपुत्रविभवं मित्रसंगः सुभोजनम् ॥४९॥
अन्नदानं प्रियं नित्यं दानधर्मादिसंग्रहः ।
महाराजप्रसादेन वाहनाम्बरभूषणं ॥५०॥
व्यवसायात्फलाधिक्यं विवाहो मौञ्जिबन्धनम् ।
षष्ठाष्टमव्यये शुक्रे नीचे शत्रुगृहे स्थिते ॥५१॥
मन्दारफणिसंयुक्ते तद्भुक्तौ रोगमादिशेत् ।
अकस्मात्कलहं चैव पितृपुत्रवियोगकृत् ॥५२॥
स्वबन्धुजनहानिश्च सर्वत्र जनपीडनम् ।
दायादकलहश्चैव स्वप्रभोः स्वस्य मृत्युकृत् ॥५३॥
कलत्रपुत्रपीडा च शूलरोगादिसम्भवः ।
दायेशात्केन्द्रराशिस्थे त्रिकोणे वा समन्विते ॥५४॥
लाभे वा कर्मराशिस्थे क्षेत्रपालमहत्सुखम् ।
सुगन्धवस्त्रशय्यादि गानवाद्यसुखं भवेत् ॥५५॥
छत्रचामरभूषाप्तिः प्रियवस्तुसमन्विता ।
दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ॥५६॥
विप्राहिनृपचौरादिमूत्रकृच्छ्रान्महद्भयम् ।
प्रमेहाद्रौधिरो रोगः कुत्सितान्नं शिरोव्यथा ॥५७॥
कारागृहप्रवेशश्च राजदण्डाद्धनक्षयः ।
द्वितीयद्यूननाथे वा दारपुत्रादिनाशनम् ॥५८॥
आत्मपीडा भयं चैव ह्यपमृत्युभयं भवेत् ।
दुर्गालक्ष्मीजपं कुर्यात् ततःसुखमवाप्नुयात् ॥५९॥
राहोरन्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे ।
त्रिकोणे लाभगे वाऽपि तुङ्गांशे स्वांशगेऽपि वा ॥६०॥
शुभग्रहेण सन्दृष्टे राजप्रीतिकरं शुभम् ।
धनधान्यसमृद्धिश्च ह्यल्पमान सुखवाहम् ॥६१॥
अल्पग्रामाधिपत्यं च स्वल्पलाभो भविष्यति ।
भाग्यलग्नेशसंयुक्ते कर्मेशेन निरीक्षिते ॥६२॥
राजाश्रयो महाकीर्तिर्विदेशगमनं तथा ।
देशाधिपत्ययोगश्च गजश्वाम्बरभूषणम् ॥६३॥
मनोऽभिष्टप्रदानं च पुत्रकल्याणसम्भवम् ।
दयेशाद्रिःफरन्ध्रस्थे षष्ठे वा नीचगेऽपि वा ॥६४॥
ज्वरातिसाररोगश्च कलहो राजविग्रहः ।
प्रयाणं शत्रुवृद्धिश्च न्रिपचौराग्निपीडनम् ॥६५॥
दायेशात्केन्द्रकोणे वा दश्चिक्ये लाभगेऽपि वा ।
विदेशे राजसम्मानं कल्याणं च शुभावहम् ॥६६॥
द्वितीयद्यूननाथे तु महारोगो भविष्यति ।
सूर्यप्रणामं शान्तिं च कुर्यादारोग्यसम्भवाम् ॥६७॥
राहोरन्तर्गते चन्द्रे स्वक्षेत्रे स्वोच्चगेऽपि वा ।
केन्द्रत्रिकोणलाभे वा मित्रर्क्षे शुभसंयुते ॥६८॥
राजत्वं राजपूज्यत्वं धनार्थं धनलाभकृत् ।
आरोग्यं भूषण्ं चैव मित्रस्त्रीपुत्रसम्पदः ॥६९॥
पूर्णे चन्द्रे फलं पूर्णं राजप्रीत्या शुभावहम् ।
अश्ववाहनलाभः स्यद्गृहक्षेत्रादिवृद्धिकृत् ॥७०॥
दायेशात्सुखभाग्यस्थे केन्द्रे वा लाभगेऽपि वा ।
लक्ष्मीकटाक्षचिह्नानि गृहे कल्याणसम्भवः ॥७१॥
सर्वकार्यसिद्धिः स्याद्धनधान्यसुखावहा ।
सत्कीर्तिलाभसम्मानं देव्याराधनमाचरेत् ॥७२॥
दायेशात्षष्ठरन्ध्रस्थे व्यये वा बलवर्जिते ।
पिशाचक्षुद्रव्याघ्राद्य्सिर्गृहक्षेत्रार्थनाशनम् ॥७३॥
मार्गे चौरभयं चैव व्रणाधिक्य महोदयम् ।
द्वितीयद्यूननाथे तु अपमृत्युस्तदा भवेत् ॥७४॥
श्वेतां गां महिषीं दद्याद् विप्रायारोग्यसिद्धये ।
ततः सौख्यमवाप्नोति चन्द्रग्रहप्रसादतः ॥७५॥
राहोरन्तर्गते भौमे लग्नाल्लाभत्रिकोणगे ।
केन्द्रे वा शुभसंयुक्ते स्वोच्चे स्वक्षेत्रगेऽपि वा ॥७६॥
नष्टराज्यधन्प्राप्तिर्गृहक्षेत्राभिवृद्धिकृत् ।
इष्टदेवप्रसादेन सन्तानसुखभाग्भवेत् ॥७७॥
क्षिप्रभोज्यान्महत्सौख्यं भूषणश्वाम्बरादिकृत् ।
दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ॥७८॥
रक्तवस्त्रादिलाभः स्यात्प्रयाणं राजदर्शनम् ।
पुत्रवर्गेषु कल्याणं स्वप्रभोश्च महत्सुखम् ॥७९॥
सेनपत्यं महोत्साहो भ्रातृवर्गधनागमः ।
दायेशाद्रन्ध्ररिःफे वा षष्ठे पापसमन्विते ॥८०॥
पुत्रदारादिहानिश्च सोओदराणां च पीडनम् ।
स्थानभ्रंशो बन्धुवर्गदारपुत्रविरोधनम् ॥८१॥
चौराहिव्रणभीतिश्च स्वदेहस्य च पीडनम् ।
आदौ क्लेशकरं चैव मध्यान्ते सौखमाप्नुयात् ॥८२॥
द्वितीयद्यूननाथे तु देहालस्यं महद्भयम् ।
अनड्वाहं च गां दद्यादारोग्यसुखलब्धये ॥८३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-07-26T08:41:54.3500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आर्त

  • स्त्री. 
  • उत्कंठा ; आतुरता ; तळमळ ; इच्छा . पाहे पां श्रीशंभूची प्रसन्नता । तया उपमन्यूचिया आर्ता । काय क्षीराब्धि दूधभाता । देइजेचिना । - ज्ञा ५ . ११ . श्रेष्ठ दुर्लभ जो पदार्थ । त्यावरी सकळांचीही आर्त । - मुआदि ४ . १५० . - वि . 
  • रोगी ; आधिव्याधिग्रस्त . 
  • दु ; खित ; पीडित ; त्रस्त . नातरि आर्ताते स्पर्शिजे । अळुमाळु । - ज्ञा १३ . २८७ . भीष्म द्रोणासि म्हणे आला कीं आर्तशब्द हा कानीं । - मोभीष्म ५ . ५५ . 
More meanings
RANDOM WORD

Did you know?

चातुर्मासाचे महत्व स्पष्ट करावे.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.