संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ९५

बृहत्पाराशरहोराशास्त्रम् - अध्याय ९५

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अथाऽन्यत् संप्रवक्ष्यामि जन्मदोषप्रदं द्विज ।
सुतत्र्ये सुताजन्म तत्त्रये सुतजन्म चेत् ॥१॥
तदाऽरिष्टभयं ज्ञेयं पितृमातृकुलद्वये ।
तत्र शान्तिविधिं कुर्याद् वित्तशाठ्यविवर्जितः ॥२॥
सूतकान्तेऽथ वा शुद्धे समये च शुभे दिने ।
आचार्यमृत्विजो वृत्वा ग्रहयज्ञपुरस्सरम् ॥३॥
ब्रह्मविष्णु महेशेन्द्रप्रतिमाः स्वर्णजाः शुभाः ।
पूजयेद् धान्यराशिस्थकलशोपरि भक्तितः ॥४॥
चत्वारि रुद्रसूक्तानि शान्तिसूक्तानि सर्वशः ।
विप्र एको जपेद् होमकाले च सुचिसंयतः ॥५॥
आचार्यो जुहुयात्तत्र समिदाज्यतिलांश्चरुम् ।
अष्टोत्तरं सहस्रं वा शतं वाऽष्टौ च विंशतिम् ॥६॥
ब्रह्मादिसर्वदेवेभ्यः स्वस्वगृह्योक्तमन्त्रतः ।
ततः स्विष्टकृतं हुत्वा बलिं पूर्णाहुतिं पुनः ॥७॥
अभिषेकं च जातस्य सकुटुम्बस्य कारयेत् ।
ऋत्विग्भ्यो दक्षिणां दद्याद् ब्राह्मणांश्चापि भोजयेत् ॥८॥
कांस्याज्यवीक्षणं कृत्वा दीनानाथांश्च तर्पयेत् ।
एवं शान्त्या च मैत्रेय सर्वारिष्टं विलीयते ॥९॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP