TransLiteral Foundation
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ५६

बृहत्पाराशरहोराशास्त्रम् - अध्याय ५६

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


जीवान्तर्दशाफलाध्यायः
स्वोच्चे स्वक्षेत्रगे जीवे लग्नात्केन्द्रत्रिकोणगे ।
अनेकराजधीशो वा सम्पन्नो राजपूजितः ॥१॥
मोमहिष्यादिलाभश्च वस्त्रवाहनभूषणम् ।
नूतनस्थाननिर्माणं हर्म्यप्राकारसंयुतम् ॥२॥
गजान्तैश्वर्यसम्पत्तिर्भाग्यकर्मफलओदयः ।
ब्राह्मणप्रभुसम्मानं समानं प्रभुदर्शनम् ॥३॥
स्वप्रभोः स्वफलाधिक्य दारपुत्रादिलाभकृत् ।
नीचांशे नीचराशिस्थे षष्ठाष्टमव्ययराशिगे ॥४॥
नीचसङ्गो महादुःखं दायादजनविग्रहः ।
कलहो न विचारोस्य स्वप्रभुष्वपमृत्युकृत् ॥५॥
पुत्रदारवियोगश्च धनधान्यार्थहानिकृत् ।
सप्तमाधिपदोषेण देववाधा भविष्यति ॥६॥
तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ।
रुद्रजाप्यं च गोदानं कुर्यात् स्वाऽभीष्टलब्धये ॥७॥
जीवस्यान्तर्गते मन्दे स्वोच्चे स्वक्षेत्रमित्रभे ।
लग्नात्केन्द्रत्रिकोणस्थे लाभे वा बलसंयुते ॥८॥
राज्यलाभो महत्सौख्यं वस्त्राभरणसंयुतम् ।
धनधान्यादिलाभश्च स्त्रीलाभो बहुसौख्यकृत् ॥९॥
वाहनाम्बरपश्वादिभूलाभः स्थानलाभकृत् ।
पुत्रमित्रादिसौख्यं च नरवाहनयोगकृत् ॥१०॥
नीलवस्त्रादिलाभश्च नीलाश्वं लभते च सः ।
पश्चिमां दिशमाश्रित्य प्रयाणं राजदर्शनम् ॥११॥
अनेकयानलाभं च निर्दिशेन्मन्दभुक्तिषु ।
लग्नात्षष्ठाष्टमे मन्दे व्यये नीचेऽस्तगेऽप्यरौ ॥१२॥
धनधान्यादिनाशश्च ज्वरपीडा मनोरुजः ।
स्त्रीपुत्रादिषु पीडा वाव्रणार्त्यादिकमुद्भवेत् ॥१३॥
गृहे त्वशुभकार्याणि भ्र्त्यवर्गादिपीडनम् ।
गोमहिष्यादिहानिश्च बन्धुद्वेषी भविष्यति ॥१४॥
दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा ।
भूराभश्चार्थलाभश्च पुत्रलाभसुखं भवेत् ॥१५॥
गोमहिष्यादिलाभश्च शूद्रमूलाद्धनं तथा ।
दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ॥१६॥
धनधान्यादिनाशश्च बन्धुमित्रविरोधकृत् ।
उद्योगभङ्गो देहार्तिः स्वजनानां महद्भयम् ॥१७॥
द्विसप्तमाधिपे मन्दे ह्यपमृत्युर्भविष्यति ।
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ॥१८॥
कृष्णां गां महिषीं दद्यादनेनारोग्यमादिशेत् ।
मन्दग्रहप्रसादेन सत्यं सत्यं द्विजोत्तम ॥१९॥
जीवस्यान्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षगे वापि दशाधिपसमन्विते ॥२०॥
अर्थलाभो देहसौख्यं राज्यलाभो महत्सुखम् ।
महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ॥२१॥
वाहनाम्बरपश्वादिगोधनैस्संकुलं गृहम् ।
महीसुतेन संदृष्टे शत्रुवृद्धिः सुखक्षयः ॥२२॥
व्यवसायात्फलं निष्टं ज्वरातीमारपीडनम् ।
दायेशाद्भाग्यकोणे वा केन्द्रे वा तुङ्गराशिगे ॥२३॥
स्वदेशे धनलाभश्च पितृमातृसुखावहा ।
गजवाजिसमायुक्तो राजमित्रप्रसादतः ॥२४॥
दायेशात्षष्ठरन्ध्रस्थे व्यये वा पापसंयुते ।
शुभदृष्टिविहीने च धन्धान्यपरिच्युतिः ॥२५॥
विदेशगमनं चैव मार्गे चौरभयं तथा ।
व्रणदाहाक्षिरोगश्च नानादेशपरिभ्रमः ॥२६॥
लग्नात्षष्ठाष्टमभावे वा व्यये वा पापसंयुते ।
अक्समात्कलहश्चैव गृहे मिष्ठुरभावणम् ॥२७॥
चतुष्पाज्जीवहानिश्च व्यवहारे तथैव च ।
अपमृत्युभयं चैव शत्रूणां कलहो भवेत् ॥२८॥
शुभदृष्टे शुभैर्युक्ते दारसौख्यं धनागमः ।
आदौ शुभं देहसौख्यं वाहनाम्बरलाभकृत् ॥२९॥
अन्ते तु धनहानिश्चेत्स्वात्मसौख्यं न जायते ।
द्वितीयद्यूननाथे वा ह्यपमृत्युर्भविष्यति ॥३०॥
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ।
आयुर्वृद्धिकरं चैव सर्वसौभाग्यदायकम् ॥३१॥
जीवस्यान्तर्गते केतौ शुभग्रहसमन्विते ।
अल्पसौख्यधनव्याप्तिः कुत्सितान्नस्य भोजनम् ॥३२॥
परान्नं चैव श्राद्धान्नं पापमूलाद्धनानि च ।
दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ॥३३॥
राजकोपो धनच्छेदो बन्धनं रोगपीडनम् ।
बलाहानिः पितृद्वेषो भ्रातृद्वेषो मनोरुजम् ॥३४॥
दायेशात्सुतभाग्यस्थे वाहने कर्मगेऽपि वा ।
नरवाहनयोगश्च गजाश्वाम्बरसङ्कुलम् ॥३५॥
महाराजप्रसादेन स्वेष्टकार्यार्थलाभकृत् ।
व्यवसायात्फलाधिक्यं गोमहिष्यादिलाभकृत् ॥३६॥
यवनप्रभुमूलाद्वा धनवस्त्रादिलाभकृत् ।
द्वितीयद्यूननाथे तु देहवाधा भविष्यति ॥३७॥
छागदानं प्रकुर्वीत मृत्युञ्जयजपं चरेत् ।
सर्वदोषोपशमनीं शान्तिं कुर्याद्विधानतः ॥३८॥
जीवस्यान्तर्गते शुक्रे भाग्यकेन्द्रेशसंयुते ।
लाभे वा सुतराशिस्थे स्वक्षेत्रे शुभसंयुते ॥३९॥
नरवाहनयोगश्च गजाश्वाम्बरसंयुतः ।
महारजप्रसादेन लाभाधिक्यं महत्सुखम् ।
नीलाम्बराणां रक्तानां लाभश्चैव भविष्यति ॥४०॥
पूर्वस्यां दिशि विप्रेन्द्र प्रयाणं धन्लाभदम् ।
कल्याणं च महाप्रीतिः पितृमातृसुखावहा ॥४१॥
देवतागुरुभक्तिश्च अन्नदानं महत्तथा ।
तडागगोपुरादीनि दिशेत् पुण्यानि भूरिशः ॥४२॥
षष्ठाष्टमव्यये नीचे दायेशाद्वा तथैव च ।
कल्हो बन्धुवैषम्यं दारपुत्रादिपीडनम् ॥४३॥
मन्दारराहुसंयुक्ते कलहो राजतो भयम् ।
स्त्रीमूलात्कलहश्चैव श्वसुरात्कलहस्तथा ॥४४॥
सोदरेण विवादः स्याद्धनधान्यपरिच्युतिः ।
दायेशात्केन्द्रराशिस्थे धने वा भाग्यगेऽपि वा ॥४५॥
धनधान्यादिलाभश्च स्र्/ईलाभो राजदर्शनम् ॥४६॥
वाहनं पुत्रलाभश्च पशुवृद्धिर्महत्सुखम् ।
गीतावाद्यप्रसङ्गादिर्विद्वज्जनसमागमः ॥४७॥
दिव्यान्नभोजनं सौख्यं स्वबन्धुजनपोषकम् ।
द्विसप्तमाधिपे शुक्रे तद्दशानां धनक्षतिः ॥४८॥
अपमृत्युभयं तस्य स्त्रीमूलादौषधादितः ।
तस्य रोगस्य शान्त्यर्थं शान्तिकर्म समाचरेत् ॥४९॥
श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ।
शुक्रग्रहप्रसादेन ततः सुखमवाप्नुयात् ॥५०॥
जीवस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा ।
केन्द्रे वाऽथत्रिकोणे च दुश्चिक्ये लाभगेऽपि वा ॥५१॥
धने वा बलसंयुते दायेशाद्वा तथैव च ।
तत्काले धनलाभः स्याद्राजसम्मानवैभवम् ॥५२॥
वाहनाम्बरपश्वादिभूषणं पुत्रसम्भवः ।
मित्रप्रभुवशादिष्टं सर्वकार्ये शुभावहम् ॥५३॥
लग्नादष्टमव्यये सूर्ये दायेशाद्वा तथैव च ।
शिरोरोगादिपीडा च ज्वरपीडा तथैव च ॥५४॥
सत्कर्मसु तदा हीनः पापकर्मचयस्तथा ।
सर्वत्र जनविद्वेषो ह्यात्मबन्धुवियोगकृत् ॥५५॥
अकस्मात्कलहश्चैव जीवस्यान्तर्गते रवौ ।
द्वितीयद्यूननाथे तु देहपीडा भविष्यति ॥५६॥
तद्दोषपरिहारार्थमादित्यहृदयं जपेत् ।
सर्वपीडोपशमनं श्रीसूर्यस्य प्रसादतः ॥५७॥
जीवस्यान्तर्गते चन्द्रे केन्द्रे लाभत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षराशिस्थे पूर्णे चैव बलैर्युते ॥५८॥
दायेशाच्छुभराशिस्थे राजसम्मानवैभवम् ।
दारपुत्रादिसौख्यं च क्षीराणं भोजनं तथा ॥५९॥
सत्कर्म च तथा कीर्तिः पुत्रपौत्रादिवृद्धिदा ।
महाराजप्रसादेन सर्वसौख्यं धनागमः ॥६०॥
अनेकजनसौख्यं च दानधर्मादिसंग्रहः ।
षष्ठाष्टमव्यये चन्द्रे स्थिते वा पापसंयुते ॥६१॥
दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ।
मानार्थबन्धुहानिश्च विदेशपरिविच्युतिः ॥६२॥
नृपचौरादिपीडा च दायादजनविग्रहः ।
मातुलादिवियोगश्च मातृपीडा तथैव च ॥६३॥
द्वितीयषष्ठयोरीशे देहपीडा भविष्यति ।
तद्दोषपरिहारार्थं दुर्गापाठं च कारयेत् ॥६४॥
जीवस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे स्वांशगेऽपि वा ॥६५॥
विद्याविवाहकार्याणि ग्रामभूम्यादिलाभकृत् ।
जनसामर्थ्यमाप्नोति सर्वकार्यार्थसिद्धिदम् ॥६६॥
दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा ।
शुभयुक्ते शुभैर्दृष्टे धनधान्यादिसम्पदः ॥६७॥
मिष्ठान्नदानविभवं राजप्रीतिकरं शुभम् ।
स्त्रीसौख्यं च सुतवाप्तिः पुण्यतीर्थफलं तथा ॥६८॥
दायेशाद्रन्ध्रभावे वा व्यये वा नीचगेऽपि वा ।
पापयुतेक्षिते वापि धान्यार्थगृहनाशनम् ॥६९॥
नानरोगभयं दुःखं नेत्ररोगादिसम्भवः ।
पूर्वार्द्धे कष्टमधिकमपरार्द्धे महत्सुखम् ॥७०॥
द्वितीयद्यूननाथे तु देहजाड्यं मनोरुजः ।
वृषभस्य प्रदानं तु सर्वसम्पत्प्रदायकम् ॥७१॥
जीवस्यान्तर्गते राहौ स्वोच्चे वा केन्द्रगेऽपि वा ।
मूलत्रिकोणे भाग्ये च केन्द्राधिपसमन्विते ॥७२॥
शुभयुतेक्षिते वापि योगप्रीतिं समादिशेत् ।
भुक्त्यादौ पञ्चमासांश्च धनधान्यादिकं लभेत् ॥७३॥
देशग्रामाधिकं च यवनप्रभुदर्शनम् ।
गृहे कल्याणसम्पत्तिर्बहुसेनाधिपत्यकम् ॥७४॥
दूरयात्रादिगमनं पुण्यधर्मादिसंग्रहः ।
सेतुस्नानफलावाप्तिरिष्टसिद्धिः सुखावहा ॥७५॥
दायेषाद्रन्ध्रभावे वा व्यये वा पापसंयुते ।
चौराहिव्रणभीतिश्च राजवैषम्यमेव च ॥७६॥
गृहे कर्मकलापेन व्याकुलो भवति ध्रुवम् ।
सोदरेण विरोधः स्याद्दायादजनविग्रहः ॥७७॥
गृहे त्वशुभकार्याणि दुःस्वप्नादिभयं ध्रुवम् ।
अकस्मात्कलहश्चैव क्षूद्रशून्यादिरोगकृत् ॥७८॥
द्विसप्तमस्थिते राहौ देहवाधां विनिर्दिशेत् ।
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ॥७९॥
छागदानं प्रकुर्वीत सर्वसौख्यमवाप्नुयात् ।
देवपूयप्रसादेन राहुतुष्ट्या द्विजोत्तम ॥८०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-07-26T08:42:52.8930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अट्टरणें

  • अटरणें पहा . अट्टरणा पाडणें - ( माण . ) जनावरांस खूप दमविणें . 
RANDOM WORD

Did you know?

घरातील देव्हारा पूर्व पश्चिम कां ठेवतात, इतर दिशा कां वर्ज्य?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.