संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय १५

बृहत्पाराशरहोराशास्त्रम् - अध्याय १५

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


उक्तं तृतीयभावस्य फलं संक्षेपतो मया ।
सुखभावफलं चाऽथ कथयामि द्विजोत्तम ॥१॥
सुखेशे सुखभावस्थे लग्नेशे तद्गतेऽपि वा ।
शुभदृष्टे च जातस्य पूर्णं गृहसुखं वदेत् ॥२॥
स्वगेहे स्वांशके स्वोच्चे सुखस्थानाधिपो यदि ।
भूमियानगृहादीनां सुखं वाद्यभवं तथा ॥३॥
कर्माधिपेन संयुक्ते केन्द्रे कोणे गृहाधिपे ।
विचित्रसौधप्राकारैर्मण्डितं तद्गृहं वदेत् ॥४॥
बन्धुस्थानेश्वरे सौम्ये शुभग्रहयुतेक्षिते ।
शशिजे लग्नसंयुक्ते बन्धुपूज्यो भवेन्नरः ॥५॥
मातुःस्थाने शुभयुते तदीशे स्वोच्चराशिगे ।
कारके बलसंयुक्ते मातुर्दीर्घायुरादिशेत् ॥६॥
सुखेशे केन्द्रभावस्थे तथ केन्द्रस्थितो भृगुः ।
शशिजे स्वोच्चराशिस्थे मातुः पूर्णं सुखं वदेत् ॥७॥
सुखे रवियुते मन्दे चन्द्रे भाग्यगते सति ।
लाभस्थानगतो भौमो गोमहिष्यादिलाभकृत् ॥८॥
चरगेहसमायुक्तो सुखे तद्राशिनायके ।
षष्ठे व्यये स्थिते भौमे नरः प्राप्नोति मूकताम् ॥९॥
लग्नस्थानाधिपे सौम्ये सुखेशे नीचराशिगे ।
कारके व्ययभावस्थे सुखेशे लाभसङ्गते ॥१०॥
द्वदशे वत्सरे प्राप्ते वाहनस्य सुखं वदेत् ।
वाहने सूर्यसंयुक्ते स्वोच्चे तद्भावनायके ॥११॥
शुक्रेण सण्युते वर्षे द्वात्रिंशे वाहनं भवेत् ।
कर्मेशेन युते बन्धुनाथे तुङ्गांशसंयुते ॥१२॥
द्विचत्वारिंशके वर्षे नरो वाहनभाग् भवेत् ।
लाभेशे सुखराशिस्थे सुखेशे लाभसंयुते ॥१३॥
द्वादशे वस्तरे प्राप्ते जातो वाहनभाग् भवेत् ।
शुभं शुभत्वे भावस्य पापत्वे फलमन्यथा ॥१४॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP