TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ५४

बृहत्पाराशरहोराशास्त्रम् - अध्याय ५४

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


कुजदशान्तर्दशाफलाध्यायः
कुजे स्वान्तर्गते विप्र लग्नात्केन्द्रत्रिकोणगे ।
लाभे वा शुभसंयुक्ते दुष्चिक्ये धनसंयुते ॥१॥
लग्नाधिपेन संयुक्ते राजाऽनुग्रहवैभवम् ।
लक्ष्मीकटोक्षचिह्नानि नष्टराज्यार्थलाभकृत् ॥२॥
पुत्रोत्सवादिसन्तोषो गृहे गोक्षीरसङ्कलम् ।
स्वोच्चे वा स्वर्क्षगे भौमे स्वांशे वा बलसंयुते ॥३॥
गृहक्षेत्राभिवृद्धिश्च गोमहिष्यादिलाभकृत् ।
महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा ॥४॥
अथाऽष्टमव्यये भौमे पापदृग्योगसंयुते ।
मूत्रकृर्च्छादिरोगश्च कष्टाधिक्यं व्रणाद्भयम् ॥५॥
चौराहिराजपीडा च धनधान्यपरुक्षयः ।
द्वितीये द्यूननाथे तु देहजाड्यं मनोव्यथा ॥६॥
तद्दोषपरिहारार्थं रुद्रजाप्यं च कारयेत् ।
अनड्वाहं प्रदद्वाच्च कुजदोषनिवृत्तये ॥७॥
तेन तुष्टो भवेद् भौमः शङ्करस्य प्रसादतः ।
आरोग्यं कुरुते तस्य सर्वसम्पत्तिदायकम् ॥८॥
कुजस्यान्तर्गते राहौ स्वोच्चे मूलत्रिकोणगे ।
शुभैर्युक्ते शुभैर्दृष्टे केन्द्रलाभतृकोणगे ॥९॥
तत्काले राजसम्मानं गृहभूम्यादिलाभकृत् ।
कलत्रपुत्रलाभः स्याद्व्यवसायात्फलाधिकम् ॥१०॥
गङ्गास्नानफलावाप्तिं विदेशगमनं तथा ।
तथाऽष्टमव्यये राहौ पापयुक्तेऽथ वीक्षिते ॥११॥
चौराहिव्रणभीतिश्च चतुष्पाज्जीवनशनम् ।
वातपित्तरुजोभीतिः कारागृहनिवेशनम् ॥१२॥
धनस्थानगते राहौ धननास्अं महद्भयम् ।
सप्तमस्थानगे वाऽपि ह्यपमृत्युभयं महत् ॥१३॥
नागपूजां प्रकुर्वीत देवब्राह्मणभोजनं ।
मृत्युञ्जयजपं कुर्यादायुरारोग्यलब्धये ॥१४॥
कुजस्यान्तर्गते जीवे त्रिकोणे केन्द्रगेऽपि वा ।
लाभे वा धनसंयुक्ते तुङ्गांशे स्वांशगेपि वा ॥१५॥
सत्कीर्ती राजसम्मानं धनधान्यस्य वृद्धिकृत् ।
गृहे कल्याणसम्पत्तिर्दारपुत्रादिलाभकृत् ॥१६॥
दायेशात्केन्द्रराशिस्थे त्रिकोणे लाभगेऽपि वा ।
भाग्यकर्माधिपैर्युक्ते वाहनाधिपसंयुते ॥१७॥
लग्नाधिपसमायुक्ते शुभांशे शुभवर्गगे ।
गृहक्षेत्राभिवृद्धिश्च गृहे कल्याणसम्पदः ॥१८॥
देहारोग्यं महत्कीर्तिगृहे गोकुलसंग्रहः ।
चतुष्पाज्जीवलाभः स्याद्व्यवसायात्फलाधिकम् ॥१९॥
कलपुत्रसौख्यं च राजसम्मानवैभवम् ।
षष्ठाष्टमव्यये जीवे नीचे वास्तंगते सति ॥२०॥
पापग्रहेण संयुक्ते दृष्टे वा दुर्बले सति ।
चौराहिनृपभीतिश्च पित्तरोगादिसम्भवम् ॥२१॥
प्रेतबाधा भृत्यनाशः सोदराणां विनाशनम् ।
द्वितीयद्यूननाथे तु ह्यपमृत्युज्वरादिकम् ।
तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ॥२२॥
कुजस्यान्तर्गते मन्दे स्वर्क्षे केन्द्रत्रिकोणगे ।
मूलत्रिकोणकेन्द्रे वा तुङ्गांशे स्वांशगे सति ॥२३॥
लग्नाधिपतिना वापि शुभदृष्टियुतेऽसिते ।
राज्यसौख्यं यशोवृद्धिः स्वग्रामे धान्यवृद्धिकृत् ॥२४॥
पुत्रपौत्रसमायुक्तो गृहे गोधनसंग्रहः ।
स्ववारे राजसम्मानं स्वमासे पुत्रवृद्धिकृत् ॥२५॥
नीचादिक्षेत्रगे मन्दे तथाऽष्टव्ययराशिगे ।
म्लेच्छवर्गप्रभुभयं धनधन्यादिनाशनम् ॥२६॥
निगडे बन्धनं व्याधिरन्ते क्षेत्रनाशकृत् ।
द्वितीयद्यूननाथे तु पापयुक्ते महद्भयम् ॥२७॥
धननाशश्च सञ्चारे राजद्वेषो मनोव्यथा ।
चौराग्निनृपपीडा च सहोदरविनाशनम् ॥२८॥
बन्धुद्वेषः प्रमाद्यैश्च जीवहानिश्च जायते ।
अकस्माच्च मृतेर्भीतिः पुत्रदारादिपीडनम् ॥२९॥
कारागृहादिभीदिश्च राजदण्डो महद्भयम् ।
दायेशात्केन्द्रराशिस्थे लाभस्थे वा त्रिकोणगे ॥३०॥
विदेशयानं लभते दुष्कीर्तिर्विविधा तथा ।
पापकर्मरतो नित्यं बहुजीवादिहिंसकः ॥३१॥
विक्रयः क्षेत्रहानिश्च स्थानभ्रंशो मनोव्यथा ।
रणे पराजयश्चैव मूत्रकृर्च्छान्महद्भयम् ॥३२॥
दायेशादथ रन्ध्रे वा व्यये वा पापसंयुते ।
तद्भुक्तौ मरणं ज्ञेयं नृपचौरादिपीडनम् ॥३३॥
वातपीडा च शूलादिज्ञातिश्त्रुभयं भवेत् ॥३४॥
तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् ।
ततः सुखमवाप्नोति शङ्करस्य प्रसादतः ॥३५॥
कुजस्यान्तर्गते सौम्ये लग्नात्केन्द्रत्रिकोणगे ।
सत्कथाश्चाऽजपादानं धर्मबुद्धिर्महद्यशः ॥३६॥
नीतिमार्गप्रसङ्गश्च नित्यं मिष्टान्नभोजनम् ।
वाहनाम्बरपश्वादिर्राजकर्म सुखानि च ॥३७॥
कृषिकर्मफले सिद्धिर्वारणाम्बरभूषणम् ।
नीचे वास्तङ्गते वापि षष्ठाष्टव्ययगेऽपि वा ॥३८॥
हृद्रोगं मानहानिश्च निगडं बन्धुनाशनम् ।
दारपुत्रार्थनाशः स्याच्चतुष्पाज्जीवनाशनम् ॥३९॥
दशाधिपेन संयुक्ते शत्रुवृद्धिर्महद्भयम् ।
विदेशगमनं चैव नानारोगास्तथैव च ॥४०॥
राजद्वारे विरोधश्च कलहः स्वजनैरपि ।
दायेशात्केन्द्रत्रिकोणे वा स्वोच्चे युक्तार्थलाभकृत् ॥४१॥
अनेकधननाथत्वं राजसम्मनमेव च ।
भूपालयोगं कुरुते धनम्बरविभूषणम् ॥४२॥
भूरवाद्यमृदंगादि सेनापत्यं महत्सुखम् ।
विद्याविनोदविमला वस्त्रवाहनभूषणम् ॥४३॥
दारपुत्रादिविभवं गृहे लक्ष्मीः कटाक्षकृत् ।
दायेशात्षष्ठरिःफस्थे रन्ध्रे वा पापसंयुते ॥४४॥
तद्दाये मानोहानिः स्यात्क्रूरबुद्धिस्तु क्रूरवाक् ।
चौराग्निनृपपीडा च मार्गे दस्युभयादिकम् ॥४५॥
अकस्मात्कलहश्चैव बुधमुक्तौ न संशयः ।
द्वितीयद्यूननाथे तु महाव्याधिर्भयङ्करः ॥४६॥
अश्वदानं प्रकुर्वीत विष्णोर्नामसहस्रकम् ।
सर्वसम्पत्प्रदं विप्र सर्वारिष्टप्रशान्तये ॥४७॥
कुजस्यान्तर्गते केतौ त्रिकोणे केन्द्रगेऽपि वा ।
दिश्चिक्ये लाभगे वाऽपि शुभयुक्ते शुभेक्षिते ॥४८॥
राजानुग्रहशान्तिश्च बहुसौख्यं धनागमः ।
किञ्चित्फलं दशादौ तु भूलाभः पुत्रलाभकृत् ॥४९॥
राजसंलाभकार्याणि चतुष्पाज्जीवलाभकृत् ।
योगकारकसंस्थाने बलवीर्यसमन्विते ॥५०॥
पुत्रलाभो यशोवृद्धिर्गृहे लक्ष्मीः कटाक्षकृत् ।
भृत्यवर्गधनप्राप्तिः सेनापत्यं महत्सुखम् ॥५१॥
भूपालमित्रं कुरुते यागाम्बरादिभूषणम् ।
दायेशात्षष्ठरिःफस्थे रन्ध्रे वा पापसंयुते ॥५२॥
कलहो दन्तरोगश्च चौरव्याघ्रादिपीडनम् ।
ज्वरातिसारकुष्ठादिदारपुत्रादिपीडनम् ॥५३॥
द्वितीयसप्तमस्थाने देहे व्याधिर्भविष्यति ।
अपमानमनस्तापो धनधान्यादिप्रच्युतिम् ॥५४॥
कुजस्यान्तर्गते शुक्रे केन्द्रलाभत्रिकोणगे ।
स्वोच्चे वा स्वर्क्षगे वाऽपिशुभस्थानाधिपेऽथवा ॥५५॥
राज्यलाभो महत्सौख्यं गजाश्वाम्बरभूषणम् ।
लग्नाधिपेन सम्बन्धे पुत्रदारादिवर्धनम् ॥५६॥
आयुषो वृद्धिरैश्वर्यं भाग्यवृद्धिसुखं भवेत् ।
दायेशात्केन्द्रकोणस्थे लाभे वा धनगेऽपि वा ॥५७॥
तत्काले श्रियमाप्नोति पुत्रलाभं महत्सुखम् ।
स्वप्रभोश्च महत्सौख्यं धनवस्त्रादिलाभकृत् ॥५८॥
महारजप्रसादेन ग्रामभूम्यादिलाभदम् ।
भुक्त्यन्ते फलमाप्नोति गीतनृत्यादिलाभकृत् ॥५९॥
पुण्यतीर्थस्नानलाभं कर्माधिपसमन्विते ।
पुण्यधर्मदयाकूपतडागं कारयिष्यति ॥६०॥
दायेशाद्रन्ध्ररिष्फस्थे षष्ठे वा पापसंयुते ।
करोति दुःखबाहुल्यं देहपीडां धनक्षयं ॥६१॥
राजचौरादिभीतिञ्च गृहे कलहमेव च ।
दारपुत्रादिपीडां च गोमहिष्यादिनाशकृत् ॥६२॥
द्वितीयद्यूननाथे तु देहबाधा भविष्यति ।
श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥६३॥
कुजस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे ।
मूलत्रिकोणलाभे वा भाग्यकर्मेशसंयुते ॥६४॥
तद्भुक्तौ वाहनं कीर्तिं पुत्रलाभं च विन्दति ।
धनधान्यसमृद्धिः स्याद् गृहे कल्याणसम्पदः ॥६५॥
क्षेमारोग्यं महद्धैर्यं राजपूज्यं महत्सुखम् ।
व्यवसायात्फलाधिक्यं विदेशे राजदर्शनम् ॥६६॥
दायेशात्षष्ठरिष्फे वा व्यये वा पापसंयुते ।
देहपीडा मनस्तापः कार्यहानिर्महद्भयम् ॥६७॥
शिरोरोगो ज्वरादिश्च अतिसारमथापि वा ।
द्वितीयद्यूननाथे तु सर्पज्वरविषाद्भयम् ॥६८॥
सुतपीडाभयं चैव शान्ति कुर्याद्यथाविधि ।
देहारोग्यं प्रकुरुते धनधान्यचयं तथा ॥६९॥
कुजस्यान्तर्गते चन्द्रे स्वोच्चे स्वक्षेत्रकेन्द्रगे ।
भार्यवाहनकर्मेशलग्नाधिपसमन्विते ॥७०॥
करोति विपुलं राज्यं गन्धमाल्याम्बरादिकम् ।
तडागं गोपुरादीनां पुण्यधर्मादिसंग्रहम् ॥७१॥
विवाहोत्सवकर्माणि दारपुत्रादिसौख्यकृत् ।
पितृमातृसुखावाप्तिं गृहे लक्ष्मीः कटाक्षकृत् ॥७२॥
महारजप्रसादेन स्वेष्टसिद्धिसुखादिकम् ।
पूर्णे चन्द्रे पूर्णफलं क्षीणे स्वल्पफल्ं भवेत् ॥७३॥
नीचारिस्थऽष्टमे षष्ठे दायेशाद्रिपुरन्ध्रके ।
मरणं दारपुत्राणां कष्टं भूमिविनाशनम् ॥७४॥
पशुधान्यक्षयश्चैव चौरादिरणभीतिकृत् ।
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥७५॥
देहजाड्यं मनोदुःखं दुर्गा लक्ष्मीजपं चरेत् ।
श्वेतां गां महिषीं दद्यादनेमारोग्यमादिशेत् ॥७६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-07-26T08:41:01.7600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सावडणें

  • उ.क्रि. १ गोळा करणें ; एकत्र करणें ( अस्ताव्यस्त वस्तू ) २ एकदम नेण्यासाठीं , एकजागीं करणें ; ढीग करणें . करिन ब्राह्मण पादप्रक्षालन सांवडीन मी उष्टीं । - मोसभा २ . ११ . राख सावडणें . असा प्रयोग रूढ आहे . ३ सांचविणें ; जमविणें ( पैसा ). तुज होता व्यथा टकमका पहाती । परी सावडीती द्रव्य आधी । ४ चिवडणें . येक दिव्यान्नें भक्षिती । येक विष्टा सावडिती । - दा ६ . ९ . ९ . ५ ( कांही अर्थी ) सावरणें पहा . [ सावरणें ] 
RANDOM WORD

Did you know?

विनायकी आणि संकष्टी चतुर्थीबद्दल शास्त्रार्थ सांगावा.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site