TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ६२

बृहत्पाराशरहोराशास्त्रम् - अध्याय ६२

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


सूक्ष्मान्तर्दशाध्यायः
गुण्या स्वस्वदशावर्षैः प्रत्यन्तरदशामितिः ।
खार्क्रैभक्ता पृथग्लब्धिः सूक्ष्मान्तरदशा भवेत् ॥१॥
निजभूमिपरित्यागो प्राणनाशभयं भवेत् ।
स्थाननाशो महाहानिः निजसूक्ष्मगते  रवौ ॥२॥
देवब्राह्मण्भक्तिश्च नित्यकर्मरतस्तथा ।
सुप्रीतिः सर्वमित्रश्चैव रवेः सूक्ष्मगते विधौ ॥३॥
क्रूरकर्मरतिस्तिग्मशत्रुभिः परिपीडनम् ।
रक्तस्रावादिरोगश्च रवेः सूक्ष्मगते कुजे ॥४॥
चौराग्निविषभीतिश्च रणे भङ्गः पराजयः ।
दानधर्मादिहीनश्च रवेः सूक्ष्मगते ह्यगौ ॥५॥
नृपसत्कारराजार्हः सेवकैः परिपूजितः ।
राजचक्षुर्गतः शान्तः सूर्यसूक्ष्मगते गुरौ ॥६॥
चौर्यसाहसकर्मार्थं देवब्राह्मणपीडनम् ।
स्थानच्युतिं मनोदुखं रवेः सूक्ष्मगते शनौ ॥७॥
दिव्याम्बरादिलब्धिश्च दिव्यस्त्रीपरिभोगिता ।
अचिन्तितार्थसिद्धिश्च रवेः सूक्ष्मगते बुधे ॥८॥
गुरुतार्थविनाशश्च भृत्यदारभवस्तथा ।
क्वचित्सेवकसम्बन्धो रवेः सूक्ष्मगते ध्वजे ॥९॥
पुत्रमित्रकलत्रादिसाख्यसम्पन्न एव च ।
नानाविधा च सम्पत्ती रवेः सूक्ष्मगते भृगौ ॥१०॥
भूषणं भूमिलाभश्च सम्मानं नृपपूजनम् ।
तामसत्त्वं गुरुत्वं च निजसूक्ष्मगते विधौ ॥११॥
दुःखं शत्रुविरोधश्च कुक्षिरोगः पितुर्मृतिः ।
वातपित्तकफोद्रेकः विधोः सूक्ष्मगते कुजे ॥१२॥
क्रोधनं मित्रबन्धूनां देशत्यागो धनक्षयः ।
विदेशान्निगडप्राप्तिर्विधोः सूक्ष्मगतेप्यगौ ॥१३॥
छत्रचामरसंयुक्तं वैभवं पुत्रसम्पदः ।
सर्वत्र सुखमाप्नोति विधोः सूक्ष्मगते गुरौ ॥१४॥
राजोपद्रवभीतिः स्याद्व्यवहारे धनक्षयः ।
चौरर्वं विप्रभीतिश्च विधोः सूक्ष्मगते शनौ ॥१५॥
राजमानं वस्तुलाभो विदेशाद्वाहनादिकम् ।
पुत्रपौत्र्समृद्धिश्च विधोः सूक्ष्मगते बुधे ॥१६॥
आत्मनो वृत्तिहननं सस्यशृङ्गवृषादिभिः ।
अग्निसूर्यादिभीतिः स्याद्विधोः सूक्ष्मगते ध्वजे ॥१७॥
विवाहो भूमिलाभश्च वस्त्राभरणवैभवम् ।
राज्यलाभश्च कीर्तिश्च विधोः सूक्ष्मगते भृगौ ॥१८॥
क्लेशात्क्लेशः कार्यनाशः पशुधान्यधनक्षयः ।
गात्रवैषम्यभूमिश्च विधोः सूक्ष्मगते रवौ ॥१९॥
भूमिहानिर्मनःखेदो ह्यपस्मारी च बन्धुयुक् ।
पुरोक्षोभमनस्तापो निजसूक्ष्मगते कुजे ॥२०॥
अङ्गदोषो जनाद्भीतिः प्रमदावंशनाशनम् ।
वह्निसर्पभयं घोरं भौमे सूक्ष्मगतेऽप्यहौ ॥२१॥
देवपूजारतिश्चात्र मन्त्राभ्युत्थानतत्परः ।
लोके पूजा प्रमोदश्च भौमे सूक्ष्मगते गुरौ ॥२२॥
बन्धनान्मुच्यते बद्धो धनधान्यपरिच्छदः ।
भृत्यार्थबहुलः श्रीमान् भौमे सूक्ष्मगते शनौ ॥२३॥
वाहनं छात्रसंयुक्तं राज्यभोगपरं सुखम् ।
कामश्वासादिका पीडा भौमे सूक्ष्मगते बुधे ॥२४॥
परप्रेतितबुद्धिश्च सर्वत्राऽपि च गर्हिता ।
अशुचिः सर्वकालेषु भौमे सूक्ष्मगते ध्वजे ॥२५॥
इष्टस्त्रीभोगसम्पत्तिरिष्टभोजनसंग्रहः ।
इष्टार्थस्यापि लाभश्च भौमे सूक्ष्मगते भृगौ ॥२६॥
राजद्वेषो द्विजात्क्लेशः कार्याभिप्रयवंचकः ।
लोकेऽपि निन्द्यतामेति भौमे सूक्ष्मगते रवौ ॥२७॥
शुद्धत्वं धनसम्प्राप्तिर्देवभाह्मण्वत्सलः ।
व्याधिना परिभूयेत् भौमे सूक्ष्मगते विधौ ॥२८॥
लोकोपद्रवबुद्धिश्च सर्वकार्ये मतिविभ्रमः ।
शून्यता चित्तदोषः स्यात् स्वीये सूक्ष्मगतेऽप्यगौ ॥२९॥
दीर्घरोगी दरिद्रश्च सर्वेषां प्रियदर्शनः ।
दानधर्मरतः शस्तो राहोः सूक्ष्मगते गुरौ ॥३०॥
कुमार्गात्कुत्सितोर्थश्च दुष्टश्च परसेवकः ।
असत्सङ्गमतिर्मूढो राहोः सूक्ष्मगते शनौ ॥३१॥
स्त्रीसम्भोगमतिर्वाग्मी लोकसम्भावनावृतः ।
अन्नमिच्छंस्तनुग्लानी राहोः सूक्ष्मगते बुधे ॥३२॥
माधुर्यं मानहानिश्च बन्धनं चाप्रमाकरम् ।
पारुष्यं जीवहानिश्च राहोः सूक्ष्मगते ध्वजे ॥३३॥
बन्धनान्मुच्यते बद्धः स्थानमानार्थसञ्चयः ।
कारणाद् द्रव्यलाभश्च राहौ सूक्ष्मगते भृगौ ॥३४॥
व्यक्तार्शो गुल्मरोगश्च क्रोधहानिस्तथैव च ।
वाहनादिसुखं सर्वं राहोः सूक्ष्मगते रवौ ॥३५॥
मणिरत्नधनवाप्तिर्विद्योपासनशीलवान् ।
देवार्चनपरो भक्त्या राहोः सूक्ष्मगते विधौ ॥३६॥
निर्जिते जनविद्रावो जने क्रोधश्च बन्धनम् ।
चौर्यशीलरतिर्नित्यं राहोः सूक्ष्मगते कुजे ॥३७॥
शोकनाशो धनाधिक्यमग्निहोत्रं शिवार्चनम् ।
वाहनं छत्रसंयुक्तं स्वीये सूक्ष्मगते गुरौ ॥३८॥
व्रतभङ्गो मनस्तापो विदेशे वसुनाशनम् ।
विरोधो बन्धुवैर्गश्च गुरोः सूक्ष्मगते शनौ ॥३९॥
विद्याबुद्धिविवृद्धिश्च ससम्मानं धनागमः ।
गृहे सर्वविधं सौख्यं गुरोः सूक्ष्मगते बुधे ॥४०॥
ज्ञानं विभवपाण्डित्ये शास्त्रश्रोता शिवार्चनम् ।
अग्निहोत्रं गुरोर्भक्तिर्गुरोः सूक्ष्मगते ध्वजे ॥४१॥
रोगान्मुक्तिः सुखं भोगो धनधान्यसमागमः ।
पुत्रदारादिसौख्यं च गुरोः सूक्ष्मगते भृगौ ॥४२॥
वातपित्तप्रकोपश्च श्लेष्मोद्रेकस्तु दारुणः ।
रसव्यादिकृतं शूलं गुरोः सूक्ष्मगते रवौ ॥४३॥
छत्रचामरसंयुक्तं वैभवं पुत्रसम्पदः ।
नेत्रकुक्षिगता पीडा गुरोः सूक्ष्मगते विधौ ॥४४॥
स्र्तीजनाच्च विषोत्पत्तिर्बन्धनं च रुजोभयम् ।
देशान्तरगमो भ्रान्तिर्गुरोः सूक्ष्मगते कुजे ॥४५॥
व्याधिभिः परिभूतःस्याच्चौरैरपहृतं धनम् ।
सर्पवृश्चिकभीतिश्च गुरोः सूक्ष्मगतेऽप्यगौ ॥४६॥
धनहानिर्महाव्याधिः वातपीडा कुलक्षयः ।
भिन्नाहारी महादुःखी निजसूक्ष्मगते शनौ ॥४७॥
वाणिज्यवृत्तेर्लाभश्च विद्याविभवमेव च ।
स्त्रीलाभश्च महीप्राप्तिः शनेः सूक्ष्मगते बुधे ॥४८॥
चौरोपद्रवकुष्ठादिवृत्तिक्षयविगुम्फनम् ।
सर्वाङ्गपीडनं व्याधिः शनेः सूक्ष्मगते ध्वजे ॥४९॥
ऐश्वर्यमायुधाभ्यासः पुत्रलाभोऽभिषेचनम् ।
आरोग्यं धनकामौ च शनेः सूक्ष्मगते भृगौ ॥५०॥
राजतेजोविकारत्वं स्वगृहे जायते कलिः ।
किञ्चित्पीडा स्वदेहोत्था शनेः सूक्ष्मगते रवौ ॥५१॥
स्फीतबुद्धिर्महारम्भो मन्दतेजा बहुव्ययः ।
स्त्रीपुत्रैश्च समं सौख्यं शनेः सूक्ष्मगते विधौ ॥५२॥
तेजोहानिर्महोद्वेगो वह्निमान्द्यं भ्रमः कलिः ।
वातपित्तकृता पीडा शनेः सूक्ष्मगते कुजे ॥५३॥
पितृमातृविनाशश्च मनोदुःखं गुरुव्ययम् ।
सर्वत्र विफलत्वं च शनेः सूक्ष्मगतेऽप्यहौ ॥५४॥
सन्मुद्राभोगसम्मानं धनधान्यविवर्द्धनम् ।
छत्रचामरसम्प्राप्तिः शनेः सूक्ष्मगते गुरौ ॥५५॥
सौभाग्यं राजसम्मानं धनधान्यादिसम्पदः ।
सर्वेषां प्रियदर्शी च निजसूक्ष्मगते बुधे ॥५६॥
बालग्रहोग्निभीस्तापः स्त्रीगदोद्भवदोषभाक् ।
कुमार्गी कुत्सिताशी च बौधे सूक्ष्मगते ध्वजे ॥५७॥
वाहनं धनसम्पत्तिर्जलजान्नार्थसम्भवः ।
शुभकीर्तिर्महाभोगो बौधे सूक्ष्मगते भृगौ ॥५८॥
ताडनं नृपवैषम्यं बुद्धिस्खलनरोगभाक् ।
हानिर्जनापवादं च बौधे सूक्ष्मगते रवौ ॥५९॥
सुभगः स्थिरबुद्धिश्च राजसन्मानसम्पदः ।
सुहृदां गुरुसंचारो बौधे सूक्ष्मगते विधौ ॥६०॥
अग्निदाहो विषोत्पत्तिर्जडत्वं च दरिद्रता ।
विभ्रमश्च महोद्वेगो बौधे सूक्ष्मगते कुजे ॥६१॥
अग्निसर्पनृपाद्भीतिः कुच्छ्रादिरिपराभवः ।
भूतावेशभ्रमाद्भ्रान्तिर्बौधे सूक्ष्मगतेप्यहौ ॥६२॥
गृहोपकरणं भव्यं दानं भोगादिवैभवम् ।
राजप्रसादसम्पत्तिर्बौधे सूक्ष्मगते गुरौ ॥६३॥
वाणिज्यवृत्तिलाभश्च विद्याविभवमेव च ।
स्त्रीलाभश्च महाव्याप्तिर्बौधे सूक्ष्मगते शनौ ॥६४॥
पुत्रदारादिजं दुःखं गात्रवैषम्यमेव च ।
दारिद्र्याद् भिक्षुवृत्तिश्च नैजे सूक्ष्मगते ध्वजे ॥६५॥
रोगनाशऽर्थलाभश्च गुरुविप्रानुवत्सलः ।
सङ्गमः स्वजनैः सार्द्धकेतोः सूक्ष्मगते भृगौ ॥६६॥
युद्धं भूमिविनाशश्च विप्रवासः स्वदेशतः ।
सुहृद्विपातिरार्तिश्च केतोः सूक्ष्मगते रवौ ॥६७॥
दासीदाससमृद्धिश्च युद्धे लब्धिर्जयस्तथा ।
ललिता कीर्तिरुत्पन्ना केतोः सूक्ष्मगते विधौ ॥६८॥
आसने भयमश्वादेश्चौरदुष्टादिपीडनम् ।
गुल्मपीडा शिरोरोगः केतोः सूक्ष्मगते कुजे ॥६९॥
विनाशः स्त्रीगुरूणां च दुष्टस्त्रीसङ्गमाल्लघुः ।
वमनं रुधिरं पित्तं केतोः सूक्ष्मगतेऽप्यगौ ॥७०॥
रिपोर्विरोधः सम्पत्तिः सहसा राजवैभवम् ।
पशुक्षेत्रविनाशार्तिः केतोः सूक्ष्मगते गुरौ ॥७१॥
मृषा पीडा भवेत्क्षुद्रमुखोत्पत्तिश्च लङ्घनम् ।
स्त्रीविरोधः सत्यहानिः केतोः सूक्ष्मगते शनौ ॥७२॥
नानाविधजनाप्तिश्च विप्रयोगोऽरिपीडनम् ।
अर्थसम्पत्समृद्धिश्च केतोः सूक्ष्मगते बुधे ॥७३॥
शत्रुहानिर्महत्सौख्यं शङ्करालयनिर्मितिः ।
तडागकूपनिर्माणं निजसूक्ष्मगते भृगौ ॥७४॥
उरस्तापो भ्रमश्चैव गतागतविचेष्टितम् ।
क्वचिल्लाभः क्वचिद्धानिर्भृगोः सूक्ष्मगते रवौ ॥७५॥
आरोग्यं धनसम्पात्तिः कार्यलाभो गतागतैः ।
बुद्धिविद्याविवृद्धिः स्याद् भृगोः सूक्ष्मगते विधौ ॥७६॥
जडत्वं रिपुवैषम्यं देशभ्रंशो महद्भयम् ।
व्याधिदुःखसमृत्पत्तिर्भृगोः सूक्ष्मगते कुजे ॥७७॥
राज्याग्निसर्पजा भीतिर्बन्धुनाशो गुरुव्यथा ।
स्थानच्युतिर्महाभीतिर्भृगोः सूक्ष्मगतेऽप्यहौ ॥७८॥
सर्वत्र कार्यलाभश्च क्षेत्रार्थविभवोन्नतिः ।
वणिग्वृत्तेर्महालब्धिर्भृगोः सूक्ष्मगते गुरौ ॥७९॥
शत्रुपीडा महद्दुःखं चतुष्पादविनाशनम् ।
स्वगोत्रगुरुहानिः स्याद् भृगोः सूक्ष्मगते शनौ ॥८०॥
बाण्धवादिषु सम्पत्तिर्व्यवहारो धनोन्नतिः ।
पुत्रदारादितः सौख्यं भृगोः सूक्ष्मगते बुधे ॥८१॥
अग्निरोगो महापीडा मुखनेत्रशिरोव्यथा ।
सञ्चितार्थात्मनः पीडा भृगोः सूक्ष्मगते ध्वजे ॥८२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-07-26T08:50:29.4370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बुचाड

  • न. ( मळणीपूर्वीचा ) कणसांसह कडब्याच्या पेंढ्यांचा ढीग ; उडवी ; कडब्याच्या पेंढ्यांची एक रास . [ बुचका - डा ] 
RANDOM WORD

Did you know?

पापा पासून मुक्त होण्यासाठी काय उपाय करावेत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.