संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय १४

बृहत्पाराशरहोराशास्त्रम् - अध्याय १४

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अथ विक्रमभावस्य फलं वक्ष्यामि भो द्विज ।
सहजे सौम्ययुग्दृष्टे भ्रातृमान् विक्रमी नरः ॥१॥
सभौमो भ्रातृभावेशो भ्रातृभावं प्रपश्यति ।
भ्रात्र्/क्षेत्रगतो वाऽपि भ्रातृभावं विनिर्दिशेत् ॥२॥
पापयोगेन तौ पापक्षेत्रयोगेन वा पुनः ।
उत्पाट्य सहजान् सद्यो निहन्तरौ न संशयः ॥३॥
स्त्रीग्रहो भ्रातृभावेशः स्त्रीग्रहो भ्रातृभावगः ।
भगिनी स्यात् तथा भ्राता पुंगृहे पुंग्रहो यदि ॥४॥
मिश्रे मिश्रफलं वाच्यं बलाबलविनिर्णयात् ।
मृतौ कुजतृतीयेशौ सहोदरविनाशकौ ॥५॥
केन्द्रत्रिकोणगे वाऽपि स्वोच्चमित्रस्ववर्गगे ।
कारके सहजेशे या भ्रातृसौख्यं विनिर्दिशेत् ॥६॥
भ्रातृभे बुधसंयुक्ते तदीशे चन्द्रसंयुते ।
कारके मन्दसंयुक्ते भगिन्येकाग्रतो भवेत् ॥७॥
पश्चात् सहोदरोऽप्येकस्तृतीयस्तु मृतो भवेत् ।
कारके राहुसंयुक्ते सहजेशे तु नीचगे ॥८॥
पश्चात् सहोदराभावं पूर्वं तु तत्त्रयं वदेत् ।
भ्रातृस्थानाधिपे केन्द्रे कारके तत्त्रिकोणगे ॥९॥
जीवेन सहिते चोच्चे ज्ञेया द्वादश सोदराः ।
तत्र ज्येष्ठद्वियं तद्वज्जातकाच्च तृतीयकम् ॥१०॥
सप्तमं नवमं चैव द्वादशं च मृतं वदेत् ।
शेषाः सहोदराः षड् वै भवेयुर्दीर्घजीवनाः ॥११॥
व्ययेशेन युतो भौमो गुरुणा सहितोऽपि वा ।
भ्रातृभावे स्थिते चन्द्रे सप्तसंख्यास्तु सोदराः ॥१२॥
भ्रातृस्थाने शशियुते केवलं पुङ्ग्रहेक्षिते ।
सहजा भ्रातरो ज्ञेयाः शुक्रयुक्तेक्षितेऽन्यथा ॥१३॥
अग्रे जातं रविर्हन्ति पृष्ठे जातं शनैश्चरः ।
अग्रजं पृष्ठजं हन्ति सहजस्थो धरासुतः ॥१४॥
एतेषां विप्र योगानां बलाबलविनिर्णयात् ।
भ्रातृणां भगिनीनां वा जातकस्य फलं वदेत् ॥१५॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP