TransLiteral Foundation
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ७०

बृहत्पाराशरहोराशास्त्रम् - अध्याय ७०

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अथाऽष्टकवर्गफलाध्यायः
आत्मस्वभावशक्तिश्च पितृचिन्ता रवेः फलम् ।
मनोबुद्धिप्रसादश्च मातृचिन्ता मृगाङ्कतः ॥१॥
भ्रातृसत्त्वं गुणं भूमिं भौमेनैव विचिन्तयेत् ।
वाणिज्यकर्म वृत्तिश्च सुहृदं च बुधेन तु ॥२॥
गुरुणा देहपुष्टिञ्च विद्या पुत्रार्थसम्पदः ।
भृगोर्विवाहकर्माणि भोगस्थान च वाहनम् ॥३॥
वेश्यास्त्रीजनसंयोगं शुक्रेण च निरीक्षयेत् ।
आयुश्च जीवनोपायं दुःखशोक भयानि च ॥४॥
सर्वक्षयं च मरणं मन्देनैव निरीक्षयेत् ।
तत्तद्भावफलाङ्केन गुणयेद् योगपिण्डकम् ॥५॥
सप्तविंशओ्धृतं शेषतुल्यर्क्षे याति भानुजः ।
यदा तदा तस्य तस्य भावस्यार्ति विनिर्दिशेत् ॥६॥
अर्काश्रितर्क्षान्नवमो राशिः पितृ गृहं स्मृतम् ।
तद्राशिफलसंख्याभिर्वर्धयेद् योगपिण्डकम् ॥७॥
विभजेत् सप्तविंशत्या शेषर्क्षे याति भानुजः ।
यदा तदा पितृक्लेशो भवतीति न संशयः ॥८॥
तत्त्रिकोणगते वापि पिता पितृसमोऽपि वा ।
मरणं तस्य जानीयात् पीडां वा महतीं वदेत् ॥९॥
गुणयेद् योगपिण्डं वा तद्राशिफलसंख्यया ।
अर्कोद्धृतावशेषर्क्षे यदा गच्छति भानुजः ॥१०॥
तत्त्रिकोणर्क्षकं वापि पितृकष्टं तदा वदेत् ।
रिष्टप्रददशायां तु मरणं कष्टमन्यदा ॥११॥
अर्कात्तु तुर्यगे राहौ मन्दे वा भूमिनन्दने ।
गुरुशुक्रेक्षणमृते पितृहा जायते नरः ॥१२॥
लग्नात् चन्द्राद् गुरुस्थाने याते सूय्रसुतेऽथवा ।
पापैर्दृष्टे युते वापि पितृनाशं वदेद् बुधः ॥१३॥
लग्नात् सुखेश्वरारिष्टदशाकाले पितृक्षयः ।
अनुकूलदशाकाले नेति चिन्त्यं विचक्षणैः ॥१४॥
पितृजन्माष्टमे जातस्तदीशे लग्नगेऽपि वा ।
करोति पितृकार्याणि स एवात्र न संशयः ॥१५॥
सुखनाथदशायान्तु सुखप्राप्तेश्च संभवः ।
सुखेशे लग्नलाभस्थे चन्द्रस्थानाद् विशेषतः ।
पितृगेहसमायुक्ते जातः पितृवशानुगः ॥१६॥
पितृजन्मतृतीयर्क्षे जातः पितृधनाश्रितः ।
पितृकर्मगृहे जातः पितृतुल्यगुणान्वितः ॥१७॥
तदीशे लग्नसंस्थेऽपि पितृश्रेष्ठो भवेन्नरः ।
एवं पूर्वक्तसामान्यफलं चात्रापि चिन्तयेत् ॥१८॥
सूर्याष्टवर्गे यन्छून्यं तन्मासे वस्तरेऽपि च ।
विवाहव्रतचूडादि शुभकर्म परित्यजेत् ॥१९॥
यत्र रेखाधिका तत्र मासे संवचरेऽपि च ।
अनिष्टेऽपि रवौ जीवे शुभकर्म समाचरेत् ॥२०॥
एवं चन्द्राष्टवर्गे च यत्र शून्यं भवेद् बहु ।
तत्र तत्र गते चन्द्रे शुभं कर्मं परित्यजेत् ॥२१॥
चन्द्राच्चतुर्थो मातृप्रसादग्रामचिन्तनम् ।
चन्द्रात् सुखफलं पिण्डं वर्द्धयेद् भैश्च सम्भजेत् ॥२२॥
शेषमृक्षं शनौ याते मातृहानिं विनिर्दिशेत् ।
तत्त्रिकोणगते चापि शनौ मातृरुजं वदेत् ॥२३॥
भौमाष्टवर्गे संचिन्त्यं भ्रातृविक्रमधैर्यकम् ।
कुजाश्रितात् तृतीयर्क्षं बुधैर्भ्रातृगृहं स्मृतम् ॥२४॥
त्रिकोणशोधनं कृत्वा यत्र स्यादधिकं फलम् ।
भूमेर्लाभोऽत्र भार्याया भ्रातृणां सुखमुत्तमम् ॥२५॥
भौमो बलविहीनश्चद् दीर्घायुर्भातृको भवेत् ।
फलाअनि यत्र क्षीयन्ते तत्र भौमे गते क्षतिह् ॥२६॥
तृतीयर्क्षफलेनाथ पिण्डं सम्बर्ध्य पूर्ववत् ।
शेषमृक्षं शनौ याते भ्रातृकष्टं विनिर्दिशेत् ॥२७॥
बुधात्तुर्ये कुटुम्बं च मातुलं मित्रमेव च ।
बुधे फलाधिके राशौ गते तेएषां सुखं दिशेत् ॥२८॥
बुधाष्टवर्गं संशोध्य शेषमृक्षं गते शनौ ।
कष्टं कुटुम्बमित्राणां मातुलानां च निर्दिशेत् ॥२९॥
जीवात् पञ्चमतो ज्ञानं धर्मं पुत्रं च चिन्तयेत् ।
तस्मिन् फलाअधिके राशौ सन्तानस्य सुखं दिशेत् ॥३०॥
बृहस्पतेः सुतस्थाने फलं यत्संख्यकं भवेत् ।
शत्रुनीचग्रहं त्यक्त्वा तावती सन्ततिर्ध्रुवा ॥३१॥
सुतभेशनवांशैश्च तुल्या वा सन्ततिर्भवेत् ।
सुतभावफलेनैवं पिण्डं संगुण्य पूर्ववत् ॥३२॥
पुत्रकष्टं विजानीयात् शेषमृक्षं गते शनौ ।
एवं धर्मं च विद्यां च कल्पयेत् कालचित्तमः ॥३३॥
शत्रुस्याकष्टवर्गं च निक्षिप्याकाशचारिषु ।
यत्र यत्र फलानि स्युर्भूयांसि कलि तत्र तु ॥३४॥
वित्तं कलत्रं भूमिं च तत्तद्देशाद् विनिर्दिशेत् ।
शुक्राज्जामित्रतो दारलब्धिश्चिन्त्या विचक्षणैः ॥३५॥
जामित्रतत्त्रिकोणस्थराशिदिग्देशसम्भवा ।
सुखेदुःखे स्त्रियाश्चिन्त्ये पिण्डं सम्वर्ध्य पूर्ववत् ॥३६॥
सनैश्चराश्रितस्थानादष्टमं मृत्युभं स्मृतम् ।
तदेव चायुषः स्थानं तस्मादायुर्विचिन्तयेत् ॥३७॥
लग्नात्प्रभृति मन्दान्तं फलान्येकत्र कारयेत् ।
तद्योगफलतुल्याब्दे व्याधिं वैरं समादिशेत् ॥३८॥
एवं मन्दादिलग्नान्तं फलान्येकत्र योजयेत् ।
तत्तुल्यवर्षे जातस्य तस्य व्याधिभयं वदेत् ॥३९॥
द्वयोर्योगसमे वर्षे कष्टं मृत्युसमं दिशेत् ।
दशारिष्टसमायोगो मृत्युरेव न संशयः ॥४०॥
पिण्डं संस्थाप्य गुणयेत् शनेरष्टमगैः फलैः ।
सप्तविंशतिहृच्छेषतुल्यमृक्षं गते शनौ ॥४१॥
तत्त्रिकोणर्क्षगे वापि जातकस्य मृतिं वदेत् ।
अर्कहृच्छेषराशौ वा तत्त्रिकोणेऽपि तद् वदेत् ॥४२॥
शनैश्चराष्टवर्गेषु यत्र नास्ति फलं गृहे ।
तत्र नैव शुभं तस्य यदा याति शनैश्चरः ॥४३॥
यत्र राशौ शुभाधिक्यं तत्र याते शनैश्चरे ।
जातकस्य ध्रुवं ज्ञेयं तस्मिन् काले शुभं फलम् ॥४४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-07-26T09:00:51.5500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

LUMO

  • LUMO 
  • (abbr. of lowest unoccupied molecular orbital) 
RANDOM WORD

Did you know?

कोणत्याही पूजेसाठी गणपती म्हणून चिकणी सुपारीला महत्व आहे, मग बाकीच्यांना कां नाही?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.