संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ६९

बृहत्पाराशरहोराशास्त्रम् - अध्याय ६९

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


एवं शोध्यावशेषाङ्कं राशिमानेन वर्द्धयेत् ।
ग्रहयुक्ते च तद्राशौ ग्रहमानेन वर्द्धयेत् ॥१॥
सर्वेषां च पुनर्योगः पिण्डाख्यः कथ्यते द्विज ।
गोसिंहौ दशभिर्गुण्यौ वसुभिर्युग्मवृश्चिकौ ॥२॥
सप्तभिस्तुलमेषौ च मृगकन्ये च पञ्चभिः ।
शेषाः स्वसंख्यया गुण्या ग्रहमानमथोच्यते ॥३॥
जीवारशुक्रसौम्यानां दशाष्टनगसायकाः ।
पञ्च शेषग्रहाणां च मानं प्रोक्तमिदं क्रमात् ॥४॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP