संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ९६

बृहत्पाराशरहोराशास्त्रम् - अध्याय ९६

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अथाऽहं सम्प्रवक्ष्यामि विकारं प्रसवोद्भवम् ।
येनाऽरिष्टं समस्तस्य ग्रामस्य च कुलस्य च ॥१॥
अत्यल्पे वाऽधिके काले प्रसवो यदि जायते ।
हीनाङ्गोवाऽधिकाङ्गो वा विशिरा द्विशिरास्तथा ॥२॥
नार्या पश्वाकृतिर्वापि पशुष्वपि नराकृतिः ।
प्रसवस्य विकारोऽयं विनाशायोपजायते ॥३॥
यस्य स्त्रियाः पशुनां वा विकाराः प्रसवोद्भवः ।
अनिष्टं भवने तस्य कुलेऽपि च महद् भवेत् ॥४॥
तद्दोषपरिहारार्थं शान्तिः कार्या प्रयत्नतः ।
स्त्री वा गौवंडवा वापि परित्याज्या हितार्थिना ॥५॥
नार्याः पञ्चदशे वर्षे जन्मतः षोडशोऽपि वा ।
गर्भो वा प्रसवो वाऽपि न शुभाय प्रजायते ॥६॥
सिंहराशिस्थितेऽर्क गौनक्रस्थे महिषी तथा ।
प्रसूता स्वामिनं हन्ति स्वयं चापि विनश्यति ॥७॥
ब्राह्मणाय प्रदद्यात् तां शान्तिं वापि समाचरेत् ।
ब्रह्मविष्णुमहेशानां ग्रहाणां चैव पूजनम् ॥८॥
सर्वं होमादिकं कर्म कुर्यात् त्रितरशान्तिवत् ।
ततो गृहो सुखी भूत्वा सर्वपापैः प्रमुच्यते ॥९॥
एवं त्वरिष्टे सम्प्राप्ते नरः शान्तिं करोति यः ।
सर्वान् कामानवाप्नोति चिरजीवी सुखी च सः ॥१०॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP