संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ६३

बृहत्पाराशरहोराशास्त्रम् - अध्याय ६३

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


पृथक् खगदशावर्षैर्हन्यात् सूक्ष्मदशामितिम् ।
खसूर्यैर्विभजेल्लिब्धर्ज्ञेय प्राणदशामितिः ॥१॥
प्ॐश्चल्यं विषजा बाधा चौराग्निनृपजं भयम् ।
कष्टं सूक्ष्मदशाकाले रवौ प्राणदशां गते ॥२॥
सुखं भोजनसम्पत्तिः संस्कारो नृपवैभवम् ।
उदारादिकृपाभिश्च रवेः प्राणगते विधौ ॥३॥
भूपोपद्रवमन्यार्थे द्रव्यनाशो महद्भयम् ।
महत्यपचयप्राप्ती रवेः प्राणगते कुजे ॥४॥
अन्नोद्भवा महापीडा विषोत्पत्तिर्विशेषतः ।
अर्थाग्निराजभिः क्लेशो रवेः प्राणगतेऽप्यहौ ॥५॥
नानाविद्यार्थसम्पत्तिः कार्यलाभो गतागतैः ।
नृपविप्राश्रमे सूक्ष्मे रवेः प्राणगते गुरौ ॥६॥
बन्धनं प्राणनाशश्च चित्तोद्वेगस्तथैव च ।
बहुबाधा महाहानी रवेः प्राणगते शनौ ॥७॥
राजान्नभोगः सततं राजलाञ्छानतत्पदम् ।
आत्मा सन्तर्पयेदेएवं रवेः प्राणगते बुधे ॥८॥
अन्योऽन्यं कलहश्चैव वसुहानिः पराजयः ।
गुरुस्त्रीबन्धुविर्गैश्च सूर्यप्राणगते ध्वजे ॥९॥
राजपूजा धनाधिक्यं स्त्रीपुत्रादिभवं सुखम् ।
अन्नपानादिभोगादि सूर्यप्राणगते भृगौ ॥१०॥
स्त्रीपुत्रादिसुखं द्रव्यं लभते नूतनाम्बरम् ।
योगसिद्धिं समाधिञ्च निजप्राणगते विधौ ॥११॥
क्षयं कुष्ठं बन्धुनाशं रक्तस्रावान्महद्भयम् ।
भूतावेशादि जायते विधोः प्राणगते कुजे ॥१२॥
सर्पभीतिविशेषाण भूतोपद्रवान् सदा ।
दृष्टिक्षोभो मतिभ्रंशो विधोः प्राणगतेऽप्यहौ ॥१३॥
धर्मवृद्धिः क्षमाप्राप्तिर्देवब्राह्मणपूजनम् ।
सौभाग्यं प्रियदृष्टिश्च चन्द्रप्राणगते गुरौ ॥१४॥
सहसा देहपतनं शत्रूपद्रववेदना ।
अन्धत्वं च धनप्राप्तिश्चन्द्रप्राणगते शनौ ॥१५॥
चामरच्छत्रसम्प्राप्ती राज्यलाभो नृपात्ततः ।
समत्वं सर्वभूतेषु चन्द्रप्राणगते बुधे ॥१६॥
शस्त्राग्निरिपुजा पीडा विषाग्निः कुक्षिरोगता ।
पुत्रदारवियोगश्च चन्द्रप्राणगते ध्वजे ॥१७॥
पुत्रमित्रकलत्राप्तिविदेशाच्च धनागमः ।
सुखसम्पत्तिरर्थश्च चन्द्रप्राणगते भृगौ ॥१८॥
क्रूरता कोपवृद्धिश्च प्राणहानिर्मनोव्यथा ।
देशत्यागो महाभीतिश्चन्द्रप्राणगते रवौ ॥१९॥
कलहो रिपुभिर्बन्धः रक्तपित्तादिरोगभीः ।
निजसूक्ष्मदशामध्ये कुज प्राणगते फलम् ॥२०॥
विच्युतः सुतदारैश्च बन्धूपद्रवपीडितः ।
प्राणत्यागो विषेणैव भौमप्राणगतेऽप्यहौ ॥२१॥
देवार्चनपरः स्र्/ईमान्मन्तानुष्ठानतत्परः ।
पुत्रपौत्रसुखावाप्तिर्भौमप्राणगते गुरौ ॥२२॥
अग्निबाधा भवेन्मृत्युरर्थनाशः पदच्युतिः ।
बन्धुभिबन्धुतावाप्तिर्भौमप्राणगते शनौ ॥२३॥
दिव्याम्बरसमुत्पत्तिर्दिव्याभरणभूषितः ।
दिव्याङ्गनायाः सम्प्राप्तिर्भौमप्राणगते बुधे ॥२४॥
पतनोत्पातिपीडा च नेत्रक्षोभो महद्भयम् ।
भुजङ्गाद् द्रव्यहानिश्च भौमप्राणगते ध्वजे ॥२५॥
धनधान्यादिसम्पत्तिर्लोकपूजा सुखागमा ।
नानाभोगैर्भवेद्भोगी भौमप्राणगते भृगौ ॥२६॥
ज्वरोन्मादः क्षयोऽर्थस्य राजविस्नेहसम्भवः ।
दीर्घरोगी दरिद्रः स्याद्भौमप्राणगते रवौ ॥२७॥
भोजनादिसुखप्राप्तिर्वस्त्राभरणजं सुखम् ।
शीतोष्णव्याधिपीडा च भौमप्राणगते विधौ ॥२८॥
अन्नाशने विरक्तश्च विषभीतिस्तथैव च ।
साहसाद्धननाशश्च राहौ प्राणगते भवेत् ॥२९॥
अङ्गसौख्यं विनिर्भीतिर्वाहनादेश्च सङ्गता ।
नीचिः कलहसम्प्राप्ती राहोः प्राणगते गुरौ ॥३०॥
गृहदाहः शरीरे रुङ् नीचैरपहृत धनम् ।
तथा बन्धनसम्प्राप्ती राहोः प्राणगते शनौ ॥३१॥
गुरूपदेशविभवो गुरुसत्कारवर्द्धनम् ।
गुणवाञ्छीलवांश्चापि राहोः प्राणगते बुधे ॥३२॥
स्त्रीपुत्रादिविरोधश्च गृहान्निष्क्रमणादपि ।
साहसात्कायहानिश्च राहोः प्राणगते ध्वजे ॥३३॥
छत्रवाहनसम्पत्तिः सर्वार्थफलसञ्चयः ।
शिवार्चनगृहारम्भो राहोः प्राणगते भृगौ ॥३४॥
अर्शादिरोगभीतिश्च राज्योपद्रवसम्भवः ।
चतुष्पादादिहानिश्च राहोः प्राणगते रवौ ॥३५॥
सौमनस्यं च सद्बुद्धिः सत्कारो गुरुदर्शनम् ।
पापाद्भीतिर्मनःसौख्यं राहोः प्राणगते विधौ ॥३६॥
चाण्डालाग्निवशाद्भीतिः स्वपदच्युतिरापदः ।
मलिनः श्वादिवृत्तिश्च राहोः प्राणगते कुजे ॥३७॥
हर्षागमो धनाधिक्यमग्निहोत्रं शिवार्चनम् ।
वाहनं छत्रसंयुक्तं निज प्राणगते गुरौ ॥३८॥
व्रतहानिर्विषादश्च विदेशे धननाशनम् ।
विरोधो बन्धुवर्गैश्च गुरोः प्राणगते शनौ ॥३९॥
विद्याबुद्धिविवृद्धिश्च लोके पूजा धनागमः ।
स्त्रीपुत्रादिसुखप्राप्तिर्गुरोः प्राणगते बुधे ॥४०॥
ज्ञानं विभवपाण्डित्यं शास्त्रज्ञानं शिवार्चनम् ।
अग्निहोत्रं गुरोर्भक्तिर्गुरोः प्राणगते ध्वजे ॥४१॥
रोगान्मुक्तिः सुखं भोगो धनधान्यसमागमः ।
पुत्रदारादिजं सौख्यं गुरोः प्राणगते भृगौ ॥४२॥
वातपित्तप्रकोपं च श्लेष्मोद्रेकं तु दारुणम् ।
रसव्याधिकृतं शूलं गुरोः प्राणगते रवौ ॥४३॥
छत्रचामरसंयुक्तं वैभवं पुत्रसम्पदः ।
नेत्रकुक्षिगता पीडा गुरोः प्राणगते विधौ ॥४४॥
स्त्रीजनाच्च विषोत्पत्तिर्बन्धनं चातिनिग्रहः ।
देशान्तरगमो भ्रान्तिर्गुरोः प्राणगते कुजे ॥४५॥
व्याधिभिः परिभूतः स्याच्चौरैरपहृतं धनम् ।
सर्पवृश्चिकभीतिश्च गुरोः प्राणगतेऽप्यहौ ॥४६॥
ज्वरेण ज्वलिता कान्तिः कुष्ठरोगोदरादिरुक् ।
जलाग्निकृतमृत्युः स्यान्निजप्राणगते शनौ ॥४७॥
धनं धान्यं च माङ्गल्यं व्यवहाराभिपूजनम् ।
देवब्राह्मणभक्तिश्च शनेः प्राणगते बुधे ॥४८॥
मृत्युवेदनदुःखं च भूतोपद्रवसम्भवः ।
परदाराभिभूतत्वं शनेः प्राणगते ध्वजे ॥४९॥
पुत्रार्थविभवैः सौख्यं क्षितिपालादितः सुखम् ।
अग्निहोत्रं विवाहश्च शनेः प्राणगते भृगौ ॥५०॥
अक्षिपीडा शिरोव्याधिः सर्पशत्रुभयं भवेत् ।
अर्थहानिर्महाक्लेशः शनेः प्राणगते रवौ ॥५१॥
आरोग्यं पुत्रलाभश्च शान्तिपौष्टिकवर्धनम् ।
देवब्राह्मणभक्तिश्च शनेः प्राणगते विधौ ॥५२॥
गुल्मरोगः शत्रुभीतिर्मृगया प्राननाशनम् ।
सर्पाग्निविषतो भीतिः शनेः प्राणगते कुजे ॥५३॥
देशत्यागो नृपाद्भीतिर्मोहनं विषभक्षणम् ।
वातपित्तकृता पीडा शनेः प्राणगतेऽप्यहौ ॥५४॥
सेनापत्यं भूमिलाभः संगमः स्वजनैः सह ।
गौरवं नृपसम्मानं शनेः प्राणगते गुरौ ॥५५॥
आरोग्यं सुखसम्पत्तिर्धर्मकर्मादिसाधनम् ।
समत्वं सर्वभुतेषु निजप्राणगते बुधे ॥५६॥
वह्नितस्करतो भीतिः परमाधिर्विषोद्भवः ।
देहान्तकरणं दुःखं बुधप्राणगते ध्वजे ॥५७॥
प्रभुत्वं धनसम्पत्तिः कीर्तिर्धर्मः शिवार्चनम् ।
पुत्रदारादिकं सौख्यं बुधप्राणगते भृगौ ॥५८॥
अन्तर्दाहो ज्वरोन्मादौ बान्धवानां रति स्त्रियाः ।
प्राप्यते स्तेएयसम्पत्तिर्बुधप्राणगते रवौ ॥५९॥
स्त्रीलाभश्चार्थसम्पत्तिः कन्यालाभो धनागमः ।
लभते सर्वतः सौख्यं बुधप्राणगते विधौ ॥६०॥
पतितः कुक्षिरोगी च दन्तनेत्रादिजा व्यथा ।
अर्शांसि प्राणसन्देहो बुधप्राणगते कुजे ॥६१॥
वस्त्राभरणसम्पत्तिर्वियोगो विप्रवैरिता ।
सन्निपातोद्भवं दुखं बुधप्राणगतेऽप्यहौ ॥६२॥
गुरुत्वं धनसम्पत्तिर्विद्या सद्गुणसंग्रहः ।
व्यवसायेन सल्लाभो बुधप्राणगते गुरौ ॥६३॥
चौर्येण निधनप्राप्तिर्विधनत्वं दरिद्रता ।
याचकत्वं विशेषेण बुधप्राणगते शनौ ॥६४॥
अश्वपातेन घातश्च शत्रुतः कलहागमः ।
निर्विचारवधोत्पत्तिर्निजप्राणगते ध्वजे ॥६५॥
क्षेत्रलाभो वैरिनाशो हयलाभो मनःसुखम् ।
पशुक्षेत्रधनाप्तिश्च केतोः प्राणगते भृगौ ॥६६॥
स्तेयाग्निरिपुभीतिश्च धनहानिर्मनोव्यथा ।
प्राणान्तकरणं कष्टं केतोः प्राणगते रवौ ॥६७॥
देवद्विजगुरोः पूजा दीर्घयात्रा धनं सुखम् ।
कर्णे वा लोचने रोगः केतोः प्राणगते विधौ ॥६८॥
पित्तरोगो नसावृद्धिर्विभ्रमः सन्निपातजः ।
स्वबन्धुजनविद्वेषः केतोः प्राणगते कुजे ॥६९॥
विरोधः स्त्रीसुताद्यैश्च गृहान्निष्क्रमणं भवेत् ।
स्वसाहसात्कार्यहानिः केतोः प्राणगतेऽप्यहौ ॥७०॥
स/स्त्रव्रणैर्महारोगो हृत्पीडादिसमुद्भवः ।
सुतदारवियोगश्च केतोः प्राणगते गुरौ ॥७१॥
मतिविभ्रमतीक्ष्णत्वं क्रूरकर्मरतिः सदा ।
व्यवसनाद्बन्धनं दुःखं केतोः प्राणगते शनौ ॥७२॥
कुसुमं शयनं भूषा लेपनं भोजनादिकम् ।
सौख्यं सर्वाङ्गभोग्यं च केतोः प्राणगते बुधे ॥७३॥
ज्ञानमीश्वरभक्तिश्च सन्तोषश्च धनागमः ।
पुत्रपौत्रसमृद्धिश्च निजप्राणगते भृगौ ॥७४॥
लोकप्रकाशकीर्तिश्च सुतसौख्यविवर्जितः ।
उष्णादिरोगजं दुखं शुक्रप्राणगते रवौ ॥७५॥
देवार्चने कर्मरतिर्मन्त्रतोषणतत्परः ।
धनसौभाग्यसम्पत्तिः शुक्रप्राणगते विधौ ॥७६॥
ज्वरो मसूरिकास्फोटकण्डूचिपिटकादिकाः ।
देवब्राह्मणपूजा च शुक्रप्राणगते कुजे ॥७७॥
नित्यं शत्रुकृता पीडा नेत्रकुक्षिरुजादयः ।
विरोधः सुहृदां पीडा शुक्रप्राणगतेऽप्यहौ ॥७८॥
आयुरारोग्यमैश्वर्यं पुत्रस्त्रीधनवैभवम् ।
छत्रवाहनसंप्राप्तिः शुक्रप्राणगते गुरौ ॥७९॥
राजोपद्रवजा भीतिः सुखहानिर्महारुजः ।
नीचैः सह विवादश्च भृगोः प्राणगते शनौ ॥८०॥
सन्तोषो राजसम्मानं नानादिग्भूमिसम्पदः ।
नित्यमुत्साहव्र्द्धिः स्याच्छुक्रप्राणगते बुधे ॥८१॥
जीवितात्मयशोहानिर्धनधान्यपरिक्षयः ।
त्यागभोगधनानि स्युः शुक्रप्राणगते ध्वजे ॥८२॥
एवमृक्षदशानां हि सान्तरागां मया द्विज ।
फलानि कथितान्यत्र संक्षेपादेव तेऽग्रतः ॥८३॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP