संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ४०

बृहत्पाराशरहोराशास्त्रम् - अध्याय ४०

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


राज्यनाथे जनुर्लग्नादमात्येशयुतेक्षिते ।
अमात्यकारकेणापि प्रधानत्वं नृपालये ॥१॥
लाभेशवीक्षिते लाभे पापदृग्योगवर्जिते ।
राज्यभावे तदा विप्र प्रधानत्वं नृपालये ॥२॥
अमात्यकारकेणापि कारकेन्द्रेण संयुते ।
तीव्रबुद्धियुतो बालो राजमन्त्री भवेद् ध्रुवम् ॥३॥
अमात्यकारके विप्र सबले शुभसंयुते ।
स्वक्षेत्रेस्वोच्चगे वापि राजमन्त्री भवेद् ध्रुवम् ॥४॥
अमात्यकारके लग्ने पञ्चमे नवमेऽपि वा ।
राजमन्त्री भवेद् बालो विख्यातो नाऽत्रसंशयः ॥५॥
आत्मकारकतः केन्द्रे कोणे वाऽमात्यकारके ।
तदा राजकृपायुक्तो जातो राजाश्रितः सुखी ॥६॥
कारकाच्च तथारूढात् लग्नाच्च द्विजसत्तम ।
तृतीये षष्ठभे पापैः सेनाधीशः प्रजायते ॥७॥
कारके केन्द्रे कोणेषु स्वतुङ्गे वा स्वभे स्थिते ।
भाग्यपेन युते दृष्टे राजमन्त्री भवेद् ध्रुवम् ॥८॥
कारके जन्मराशीशे लग्नगे शुभसंयुते ।
मन्त्रित्वे मुख्ययोगोऽयं वार्धकेनाऽत्र संशयः ॥९॥
कारके शुभसंयुक्ते पञ्चमे सप्तमेऽपि वा ।
दशमे नवमे वाऽपि धनं राजाश्रयाद् भवेत् ॥१०॥
भाग्यभावपदे लग्ने कारके नवमेऽपि वा ।
राजसम्बन्धयोगोऽयं निर्विशंकं द्विजोत्तम ॥११॥
लाभेशे लाभभावस्थे पापदृष्टिविवर्जिते ।
कारके शुभसंयुक्ते लाभस्तस्य नृपालयात् ॥१२॥
लग्नेशे राज्यभावस्थे राज्येशे लग्नसंस्थिते ।
प्रबलो राजसम्बन्धयोगोऽयं परिकीर्तितः ॥१३॥
कारकात् तुर्यंभावस्थौ सितेन्दू द्विजसत्तम ।
यस्य जन्मनि जातोऽयं राजचिह्नेन संयुतः ॥१४॥
लग्नेशे कारके वाऽपि पञ्चमेशेन संयुते ।
केन्द्रे कोणे स्थिते तस्मिन् राजमित्रं भवेन्नरः ॥१५॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP