TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ४५

बृहत्पाराशरहोराशास्त्रम् - अध्याय ४५

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


ग्रहावस्थाध्यायः
अवस्थावशतः प्रोक्तं ग्रहाणां यत् फलं मुने ।
का साऽवस्था मुनिश्रेष्ठ कतिधा चेति कथ्ययाम् ॥१॥
अवस्था विविधाः सन्ति ग्रहाणां दिवजसत्तम ।
सारभूताश्च यास्तासु बालाद्यास्ता वदाम्यहम् ॥२॥
क्रमाद् बालः कुमारोऽथ युवा वृद्धस्तथा मृतः ।
षडंशैरसमे खेटः समे ज्ञेयो विपर्ययात् ॥३॥
फलं पादमितं बाले फलार्धं च कुमारके ।
यूनि पूर्णं फलं ज्ञेयं वृद्धे किञ्चित् मृते च खम् ॥४॥
स्वभोच्चयोः समसुहृद्भयोः शत्रुभनीचयोः ।
जाग्रत्स्वप्नसुषुप्त्याख्या अवस्था नामदृक्फलाः ॥५॥
जागरे च फलं पूर्णं स्वप्ने मध्यफलं तथा ।
सुषुप्तौ तु फलं शून्यं विज्ञेयं द्विजसत्तम ॥६॥
दीप्तः स्वस्थः प्रमुदितः शान्तो दीनोऽथ दुःखितः ।
विकलश्च खलः कोऽपीत्यवस्था नवधाऽपराः ॥७॥
स्वोच्चस्थः खेचरो दीप्तः स्वर्क्षे स्वस्थोऽधिमित्रभे ।
मुदितो मित्रभे शान्तः समभे दीन उच्यते ॥८॥
शत्रुभे दुःखितः प्रोक्तो विकलः पापसंयुतः ।
खलः खलगृहे ज्ञेयः कोपी स्यादर्कसंयुतः ॥९॥
यादृशो जन्मकाले यः खेटो यद्भावगो भवेत् ।
तादृशं तस्य भावस्य फलमुह्यं द्विजोत्तम ॥१०॥
लज्जितो गर्वितश्चैव क्षुधितस्तृषितस्तथा ।
मुदितः क्षोभितश्चैव ग्रहभावाः प्रकीर्तिताः ॥११॥
पुत्रगेहगतः खेटो राहुकेतुयुतोऽथवा ।
रविमन्दकुजैर्युक्तो लज्जितो ग्रह उच्यते ॥१२॥
तुङ्गस्थानगतो वाऽपि त्रिकोणेऽपि भवेत्पुनः ।
गर्वितः सोऽपि गदितो निर्विशंकं द्विजोत्तम ॥१३॥
शत्रुगेही शत्रुयुक्तो रिपुदृष्टो भवेद्यदि ।
क्षुधितः स च विज्ञेयः शनियुक्तो यथा तथा ॥१४॥
जलराशौ स्थितः खेटः शत्रुणा चाऽवलोकितः ।
शुभग्रहा न पश्यन्ति तृषितः स उदाहृतः ॥१५॥
मित्रगेही मित्रयुक्तो मित्रेण च विलोकितः ।
गुरुणा सहितो यश्च मुदितः स प्रकीर्तितः ॥१६॥
रविणा सहितो यश्च पापा पश्यन्ति सर्वथा ।
क्षोभितं तं विजानीयाच्छत्रुणा यदि वीक्षितः ॥१७॥
येषु येषु च भावेषु ग्रहास्तिष्ठन्ति सर्वथा ।
क्षुधितः क्षोभितो वापि तद्भावफलनाशनः ॥१८॥
एवं क्रमेण बोद्धव्यं सर्वभावेषु पण्डितैः ।
बलाऽबलविचारेण वक्तव्यः फलनिर्णयः ॥१९॥
अन्योन्यं च मुदा युक्तं फलं मिश्रं वदेत्पुनः ।
बलहीने तदा हानिः सबले च महाफलम् ॥२०॥
कर्मस्थाने स्थितो यस्य लज्जितस्तृषितस्तथा ।
क्षुधितः क्षोभितो वापि स नरो दुःखभाजनम् ॥२१॥
सुतस्थाने भवेद्यस्य लज्जितो ग्रह एव च ।
सुतनाशो भवेत्तस्य एकस्तिष्ठति सर्वदा ॥२२॥
क्षोभितस्तृषितश्चैव सप्तमे यस्य वा भवेत् ।
म्रियते तस्य नारी च सत्यमाहुर्द्विजोत्तम ॥२३॥
नवालयारामसुखं नृपत्वं कलापटुत्वं विदधाति पुंसाम् ।
सदार्थलाभं व्यवहारवृद्धिं फलं विशेषादिह गर्वितस्य ॥२४॥
भवति मुदितयोगे वासशालाविशाला ।
विमलवसनभूषाभूमियोषासु सौख्यम् ।
स्वजनजनविलासो भूमिपागारवासो ।
रिपुनिवहविनाशो बुद्धिविद्याविकाशः ॥२५॥
दिशति लज्जितभाववशाद्रतिं विगतराममतिं विमतिक्षयम् ।
सुतगदागमनं गमनं वृथा कलिकथाभिरुचिं न रुचिं शुभे ॥२६॥
संक्षोभितस्यापि फलं विशेषाद्द्रिद्रजातं कुमतिं च कष्टम् ।
करोति वित्तक्षयमंध्रिबाधां धनाप्तिबाधामवनीशकोपात् ॥२७॥
क्षुधितखगवशाद्वै शोकमोहादिपातः ।
परिजनपरितापादाधिभीत्या कृशत्वम् ।
कलिरपि रिपुलोकैरर्थबाधा नराणा ।
मखिलब्बलनिरोधो बुद्धिरोधो विषादात् ॥२८॥
तृषितखगभवे स्वादंगनासंगमध्ये ।
भवति गदविकारो दृष्टकार्याधिकारः ।
निजजनपरिवादादर्थहानिः कृशत्वं ।
खलकृतपरितापो मानहानिः सदैव ॥२९॥
शयनं चोपवेशं च नेत्रपाणिप्रकाशनम् ।
गमनागमनं चाऽथ सभायां वसतिं तथा ॥३०॥
आगमं भोजनं चैव नृत्यं लिप्सां च कौतुकम् ।
निद्रां ग्रहाणां चेष्टां च कथयामि तवाग्रितः ॥३१॥
यस्मिन्नृक्षे भवेत्खेटस्तेन तं परिपूरयेत् ।
पुनरंशेन सम्पूर्य स्वनक्षत्रं नियोजयेत् ॥३२॥
यातदण्डं तथा लग्नमेकीकृत्य सदा बुधः ।
रविभिस्तु हरेद् भागं शेषं कार्ये नियोजयेत् ॥३३॥
नाक्षत्रिकदशारीत्या पुनः पूरणमाचरेत् ।
नामाद्यस्वरसंख्याढ्यं हर्तव्यं रविभिस्ततः ॥३४॥
रवौ पञ्च तथा देयाश्चन्द्रे दद्याद्द्वयं तथा ।
कुजे द्वयं च संय्क्तं बुधे त्रीत्रि नियोजयेत् ॥३५॥
गुरौ बाणाः प्रदेयाश्च त्रयं दद्याच्च भार्गवे ।
शनौ त्रयमथो देयं राहौ दद्याच्चतुष्टयम् ॥३६॥
त्रिभिर्भक्तं च शेषांकैः सा पुनस्त्रिबिधा स्मृता ।
दष्टिश्चेष्टा विचेष्टा च तत्फलं तथयाम्यहम् ॥३७॥
दृष्टौ मध्यफलं ज्ञेयं चेष्टायां विपुलं फलम् ।
विचेष्टायां फलं स्वल्पमेवं दृष्टिफलं विदुः ॥३८॥
शुभाऽशुभं ग्रहाणां च समीक्ष्याऽथ बलाऽबलम् ।
तुङ्गस्थाने विशेषेण बलं ज्ञेयं तथा बुधैः ॥३९॥
मन्दाग्निरोगो बहुधा नराणां स्थूलत्वमन्ङ् घ्रेरपिपित्तकोपः ।
व्रणं गुदे शूलमुरःप्रदेशे यदोष्णभानुः शयनं प्रयातः ॥४०॥
दरिद्रताभारविहाराशाली विवादविद्याभिरतो नरः स्यात् ।
कथोरचित्तः खलु नष्टवित्तः सूर्यो यदा चेदुपवेशनस्थः ॥४१॥
नरः सदानन्दधरो विवेकी परोपकारी बलवित्तयुक्तः ।
महामुखी राजकृपाभिमानी दिवाधिनाथो यदि नेत्रपानौ ॥४२॥
उदारचित्तः परिपूर्णवित्तः सभासु वक्ता बहुपुण्यकर्त्ता ।
महाबली सुन्दरररूपशाली प्रकाशने जन्मनि पदिमनीशे ॥४३॥
प्रवासशाली किल दुःखमाली सदालसी धीधनवर्जितश्च ।
भयातुरः कोपपरो विशेषाद्दिवाधिनाथे गमने मनुष्यः ॥४४॥
परदाररतो जनतारहितो बहुधागमने गमनाभिरुचिः ।
खलताकुशलो मलिनो दिवसाधिपतौ मनुजः कुमतिः कृपणः ॥४५॥
सभागते हिते नरः परोपकारतत्परः ।
सदार्थरत्नपूरितो दिवाकरे गुणाकरः ।
वसुन्धरानवांबरालयान्वितो महाबली ।
विचित्रमित्रवत्सलः कृपाकलाधरः परः ॥४६॥
क्षोभितो रिपुगणैः सदा नरश्चञ्चलः खलमतिः कृशस्तथा ।
धर्मकर्मरहितो मदोद्धतश्चागमे दिनपतौ तदा तदा ॥४७॥
सदाङ्गसन्धिवेदनापराङ्गनाधनक्षयो ।
बलक्षयः पदे पदे यदा यदा हि भोजने ।
असत्यता शिरोव्यथा तथा वृथान्नभोजनं ।
रवावसत्तथारतिः कुमार्गगामिनी मति ॥४८॥
विज्ञलोकैः स्दा मण्डितः पण्डितः काव्यविद्यानवद्यप्रलापान्वितः ।
राजपूज्यो धरामण्डले सर्वदा नृत्यलिप्सागते पद्मिनीनायके ॥४९॥
सर्वदानन्दधर्ता जनो ज्ञानवान् यज्ञकर्ता धराधीशसद्मस्थितः ।
पद्मबन्धावरातेर्भयं स्वाननः काव्यविद्याप्रलापी मुदा कौतुके ॥५०॥
निद्राभरारक्तनिभे भवेतां निद्रागते लोचनपद्मयुग्मे ।
रवौ विदेशे वसतिर्जनस्य कलत्रहानिः कातिधार्थनाशः ॥५१॥
जानुःकाले क्षपानाथे शयनं चेदुपागते ।
मानी शीतप्रधानश्च कामी वित्तविनाशकः ॥५२॥
रोगार्दितो मन्दमतिर्विशेषाद्वित्तेन हीनो मनुजः कठोरः ।
अकार्यकारी परवित्तहारी क्षपाकरे चेदुपवेशनस्थे ॥५३॥
नेत्रपाणौ क्षपानाथे महारोगी नरो भवेत् ।
अनल्पजल्पको धूर्तः कुकर्मनिरतः सदा ॥५४॥
यदा राकानाथे गतवति विकाशं च जनने ।
विकाशः संसारे विमलगुणराशेरवनिपात् ।
नवाशामाला स्यात्करितुरगलक्ष्म्या परिवृता ।
विभूषा योषाभिः सुखमनुदिनं तीर्थगमनम् ॥५५॥
सितेतरे पापरतो निशाकरे  विशेषतः क्रूरकरो नरो भवेत् ।
सदाक्षिरोगैः परिपीड्यमानो वलक्षपक्षे गमने भयातुरः ॥५६॥
विधावागमगे मानी पादरोगी नरो भवेत् ।
गुप्तपापरतो दीनो मतितोषविवर्जितः ॥५७॥
सकलजनवदान्यो राजराजेन्द्रमान्यो ।
रतिपतिसमाकान्तिः शान्तिकृत्कामिनीनाम् ।
सपदि सदसि याते चारुबिम्बे शशंके ।
भवति परमरीतिप्रीतिविज्ञो गुणज्ञः ॥५८॥
विधावागमके मत्यों वावालो धर्मपूरितः ।
कृष्णपक्षे द्विभार्यः स्याद्रोगी दुष्टतरो हठी ॥५९॥
भोजने जनुषि पूर्णचन्द्रमा मानयानजनतासुखं नृणाम् ।
आतनोति वनितासुतासुखं सर्वमेव न सितेतरे शुभम् ॥६०॥
नृत्यलिप्सागते चन्द्रे सबले बलवान्नरः ।
गीतज्ञो हि रसज्ञश्च कृष्णे पापकरो भवेत् ॥६१॥
कौतकभवनं गतवति चन्द्रे भवति नृपत्वं वा धनपत्वम् ।
कामकलासु सदा कुशलत्वं वारवधूरतितमणपटुत्वम् ॥६२॥
निद्रागते जन्मनि मानवानां कलाधरे जीवयुते महत्त्वम् ।
हीनेऽङ्गनासञ्चितवित्तनाशः शिवालये रौति विचित्रमुच्चैः ॥६३॥
शयने वसुधापुत्रे व्रणयुक्तो जनो भवेत् ।
बहुना कण्डुना युक्तो दद्रुणा च विशेषतः ॥६४॥
बली सदा पापरतो नरः स्यादसत्यवादी नितरां प्रगल्भः ।
धनेन पूर्णो निजधर्महीनो धरासुतश्चेदुपवेशनस्थः ॥६५॥
यदा भूमिसुतो लग्ने नेत्रपाणिमुपागतः ।
दरिद्रता तदा पुंसामन्यभे नगरेशता ॥६६॥
प्रकाशो गुणस्यापि वासः प्रकाशे धराधीशभ्रतुः सदा मानवृद्धिः ।
सुते भूसुते पुत्रकान्तावियोगो भवेद्राहुणा दारुणो वा निपातः ॥६७॥
गमने गमनं कुरुतेऽनुदिनं व्रणजालभयं वनिताकलहः ।
बहुदद्रुककण्डुभयं बहुधा वसुधातनयो वसुहानिकरः ॥६८॥
आगमने गुणशाली मणिमालीवा करालकरवाली ।
गजहन्ता रिपुहन्ता परिजनसन्तापहारको भौमे ॥६९॥
तुङ्गे युद्धकलाकलापकुशलो धर्मध्वजो वित्तपः ।
कोणे भूमिसुते सभामुपगते विद्याविहीनः पुमान् ।
अन्तेऽपत्यकलत्रमित्ररहितः प्रोक्तेतरस्थानगे ।
ऽवश्यं राजसभाबुधो बहुधनी मानी च दानी जनः ॥७०॥
आगमे भवति भूमिजे जनो धर्मकर्मरहितो गदातुरः ।
कर्णमूलगुरुशूलरोगवानेव कातरमतिः कुसङ्गमी ॥७१॥
भोजने मिष्टभोजी च जनने सबले कुजे ।
नीचकर्मकरो नित्यं मनुजो मानवर्जितः ॥७२॥
नृत्यलिप्सागते भूसुते जन्मिनामिन्दिराराशिरायाति भूमीपतेः ।
स्वर्नरत्नप्रवालैः सदा मण्डिता वासशाला नराणां भवेत्सर्वदा ॥७३॥
कौतुकी भव्ति कौतुके कुजे मित्रपुत्रपरिपूरितो जनः ।
उच्चगे नृपतिगेहमण्डितः पूजितो गुणवरैर्गुणाकरैः ॥७४॥
निद्रावस्थां गते भौमे क्रोधी धीधनवर्जितः ।
धूर्तो धर्मपरिभ्रष्टो मनुष्यो गदपीडितः ॥७५॥
क्षुधातुरो भवेदंगे खञ्जो गुञ्जानिभेक्षणः ।
अन्यभे लम्पटो धूर्तो मनुजः शयने बुधे ॥७६॥
शशांकपुत्रे जनुरण्गगेहे यदोपवेशे गुणराशिपूर्णः ।
पापेक्षिते पापयुते दरिद्रो हिते शुभे वित्तसुखी मनुष्यः ॥७७॥
विद्याविवेकरहितो हिततोषहीनो मनी ।
जनोभवति चन्द्रसुतेऽक्षि पाणौ ।
पुत्रालये सुतकलत्रसुखेन हीनः कन्या ।
प्रजा नृपतिगेहबुधो वरार्थः ॥७८॥
दाता दयालुः खलु पुण्यकर्ता विकाशने चन्द्रसुते मनुष्यः ।
अनेकविद्यार्णवपारङ्गता विवेकपूर्णः खलवर्गहन्ता ॥७९॥
गमनागमने भवतो गमने बहुधा वसुधाधिपतेर्भवने ।
भवनं च विचित्रमलं रमया विदि नुश्च जनुःसमये नितराम् ॥८०॥
सपदि विदि जनानामुच्चगे जन्मकाले ।
सदसि धनसमृद्धिः सर्वदा पुण्यवृद्धिः ।
धनपतिसमता वा भूपता मंत्रिता वा ।
हरिहरपदभक्तिः सात्त्विकी मुक्तिलब्धिः ॥८१॥
आगमे जनुषि जन्मिनां यदा चन्द्रजे भवति हीनसेवया ।
अर्थसिद्धिरपि पुत्रयुग्मता बालिका भवति मानदायिका ॥८२॥
भोजने चन्द्रजे जन्मकाले यदा जन्मिनानर्थहानिः सदा वादतः ।
राजभीत्या कृशत्वंचलत्वं मतेरङ्गसङ्गो न जाया न जायासुखम् ॥८३॥
नृत्यलिप्सागते चन्द्रजे मानवो मानयानप्रवालव्रजैः संयुतः ।
मित्रपुत्रप्रतापैः सभापण्डितः पापभे वारवामारतो लम्पटः ॥८४॥
कौतुके चन्द्रजे जन्मकाले नृणामंगभे गीतविद्याऽनवद्या भवेत् ।
सप्तमे नैधने वारवध्वा रतिः पुण्यभे पुण्ययुक्ता मतिः सद्गतिः ॥८५॥
निद्राश्रिते चन्द्रसुते न निद्रासुखं सदा व्याधिसमाधियोगः ।
सहोत्थवैकल्यमनल्पतापो निजेन वादो धनमाननाशः ॥८६॥
वचसामधिपे तु जनुःसमये शयने बलवानपि हीनरवः ।
अतिगौरतनुः खलुदीर्घहनुः सुतरामरिभीतियुतो मनुजः ॥८७॥
उपवेशं गतवति यदि जीवे वाचालो बहुगर्वपरीतः ।
क्षोणीपतिरिपुजनपतिर्तप्तः पदजंघास्यकरव्रणयुक्तः ॥८८॥
नेत्रपाणिं गते देवराजार्चिते रोगयुक्तो वियुक्तो वरार्थश्रिया ।
गीतनृत्यप्रियः कामुकः सर्वदा गौरवर्णो विवर्णोद्भवप्रीतियुक् ॥८९॥
गुणानामानन्दं विमलसुखकन्दं वितनुते ।
सदा तेजःपुञ्जं व्रजपतिनिकुञ्जं प्रतिगमम् ।
प्रकाशं चेदुच्चे द्रुतमुपगतो वासवगुरु ।
र्गुरुत्वं लोकानां धनपतिसमत्वं तनुभृताम् ॥९०॥
साहसी भवति मानवः सदा मित्रवर्गसुखपूरितो मुदा ।
पण्डितो विविधवित्तमण्डितो देवविद्यदि गुरौ गमं गते ॥९१॥
आगमने जनता वरजाया यस्य जनुःसमये हरिमाया ।
मुञ्चति नालमिहालयमद्धा देवगुरौ परितः परिबद्धा ॥९२॥
सुरगुरुसमवक्ता शुभ्रमुक्ताफलाढ्यः ।
सदसि सपदि पूर्णो वित्तमाणिक्यमानैः ।
गजतुरगरथाढ्यो देवताधीशपूज्यो ।
जनुषि विविधविद्यागर्वितो मानवः स्यात् ॥९३॥
नानावाहनमानयानपटलीसौख्यं गुरावागमे ।
भृत्यापत्यकलत्रमित्रजसुखं विद्याऽनवद्या भवेत् ।
क्षोणीपालसमानतानवरतं चाऽतीव हृद्या मतिः ।
काव्यानन्दरतिः सदा हिनगतिः सर्वत्र मानोन्नतिः ॥९४॥
भोजने भवति देवतागुरौ यस्य तस्य सततं सुभोजनम् ।
नैव मुञ्चति रमालयं तदा वाजिवारणरथैश्च मण्डितम् ॥९५॥
नृत्यलिप्सागते राजमानी धनी देवताधीशवन्द्यः सदा धर्मवित् ।
तन्त्रविज्ञो बुधैर्मण्डितः पंडितः शब्दविद्यानविद्यो हि सद्यो जनः ॥९६॥
कुतूहली सकौतुके माहाधनी जनः सदा ।
निजान्वये च भास्करः कृपाकलाधरः सुखी ।
निलिम्पराजपूजिते सुतेन भूनयेन वा ।
युतो महाबली धराधिपेन्द्रसद्मपण्डितः ॥९७॥
गुरौ निद्रागते यस्य मूर्खता सर्वकर्मणि ।
दरिद्रतापरिक्रन्तं भवनें पुण्यवर्जितम् ॥९८॥
जनो बलीयानपिदन्तरोगी भृगौ महारोषसमन्वितः स्यात् ।
धनेन हीनः शयनं प्रयाते वारांगनासंगमलम्पटश्च ॥९९॥
यदि भवेदुशना उपवेशने नवमणिव्रजकाञ्चनभूषणैः ।
सुखमजस्रमरिक्षय आदरादवनिपादपि मानसमुन्नतिः ॥१००॥
नेत्रपाणिंगते लग्नगेहे कवौ सप्तमे मानभे यस्य तस्य ध्रुवम् ।
नेत्रपाते निपातो धनानामलं चान्यभे वासशाला विशाला भवेत् ॥१०१॥
स्वालये तुंगभे मित्रभे भार्गवे तुंगमातंगलीलाकलापी जनः ।
भूपतेस्तुल्य एव प्रकाशं गते काव्यविद्याकलाकैतुकी गीतवित् ॥१०२॥
गमने जनने शुक्रे तस्य माता न जीवति ।
आधियोगो वियोगश्च जनानामरिभीतितः ॥१०३॥
आगमनं भृगुपुत्रे गतवति वित्तेश्वरो मनुजः ।
सत्तेर्थभ्रमशाली नित्योत्साही करांघ्रिरोगी च ॥१०४॥
अनायासेनालं सपदि महसा याति सहसा ।
प्रगल्भत्वंराज्ञः सदसि गुणविज्ञः किल कवौ ।
सभायामायाते रिपुनिवहहन्ता धनपतेः ।
समत्वं वा दाता बलतुरगगन्ता नरवरः ॥१०५॥
आगमे भार्गवे मागमो जन्मिनामर्थराशेररातेरतीव क्षतिः ।
पुत्रपातो निपातो जनानामपिव्याधिभीतिः प्रियाभोगहानिर्भवेत् ॥१०६॥
क्षुधातुरो व्याधिनिपीडितः स्यादनेकधारातिभयर्द्दितश्च ।
कवौ यदा भोजनगे युवत्या महाधनी पण्डितमण्डितश्च ॥१०७॥
काव्यविद्यानवद्या च हृद्या मतिः सर्वदा नृत्यलिप्सागते भार्गवे ।
शंखवीणामृदंगादिगानध्वनिव्रातनैपुण्यमेतस्य वित्तोन्नतिः ॥१०८॥
कौतुकभवनं गतवति शुक्रे शक्रेशत्वं सदसि महत्त्वम् ।
हृद्या विद्या भविति च पुंसः पदमा निवसति सदमारतः ॥१०९॥
परसेवारतो नित्यं निद्रामुपगते कवौ ।
परनिन्दापरो वीरो वाचालो भ्रमते महीम् ॥११०॥
क्षुत्पिपासापरिक्रान्तो विश्रान्तः शयने शनौ ।
वयसि प्रथमे रोगी ततो भाग्यवतां वरः ॥१११॥
भानओः सुते चेदुपवेशनस्थे करालकारातिजनानुतप्ताः ।
अपायुशाली खलु दद्रुमाली नरोभिमानी नृपदण्डयुक्तः ॥११२॥
नयनपाणिगते रविनन्दने परमया रमया रमयायुतः ।
नृपतितो हिततो महितोषकृद्बहुकलाकलितो विमलोक्तिकृत् ॥११३॥
नानागुणप्रामधनाधिशाली सदा नरो बुद्धिविनोदमाली ।
प्रकाशने भानुसुते सुभानुः कृपानुतक्तो हरपादभक्तः ॥११४॥
महाधनी नन्दननन्दितः स्यादपायकारी रिपुभूमिहारी ।
गमे शनौ पण्डितराजाभावं धरापतेरायातने प्रयाति ॥११५॥
आगमने गर्दभपदयुक्तः पुत्रकलत्रसुखेन विमुक्तः ।
भानुसुते भ्रमते भुवि नित्यं दीनमना विजनाश्रयभावम् ॥११६॥
रत्नावलीकाञ्चनमौक्तिकानां व्रातेन नित्यं व्रजति प्रमोदम् ।
सभागते भानुसुते नितान्तं नयेन पूर्णो मनुजो महौजाः ॥११७॥
आगमे गदसमागमो नृणामब्जबन्धुतनये यदा तदा ।
मन्दमेव गमनं धरापतेर्याचनाविरहिता मतिः सदा ॥११८॥
संगते जनुषि भानुनन्दने भोजनं भवति भोजनं रसैः ।
संयुतं नयनमन्दता तता मोहतापपरितापिता मतिः ॥११९॥
नृत्यलिप्सागते मन्दे धर्मात्मा वित्तपूरितः ।
राजपूज्यो नरो धीरो महावीरो रणाङ्गणे ॥१२०॥
भवति कौतकभावमुपागते रविसुते वसुधावसुपूरितः ।
अतिसुखी सुमुखीसुखपूरितः कवितयामलया कलयानरः ॥१२१॥
निद्रागते वासरनाथपुत्रे धनी सदा चारुगुणैरुपेतः ।
पराक्रमी चण्डविपक्षहन्ता सुवारकान्तारतिरीतिविज्ञः ॥१२२॥
यदागमो जन्मनि यस्य राहौ क्लेशाधिकत्वं शयनं प्रयाते ।
वृषेऽथ युग्मेऽपि च कन्यकायामजे समाजो धनधान्यराशेः ॥१२३॥
उपवेशनमिह गतवति राहौ दद्रुगदेन जनः परितप्तः ।
राजसमाजयुतो बहुमानी वित्तसुखेन सदा रहितः स्यात् ॥१२४॥
नेत्रपाणावगौ नेत्रे भवतो रोगपीडिते ।
दुष्टव्यालारिचौराणां भयं तस्य धनक्षयः ॥१२५॥
प्रकाशने शुभासने स्थितिः कृतिः शुभा नृणां ।
धनोन्नतिर्गुणोन्नतिः सदा विदामगाविह ।
धराधिपाधिकारिता यशोलता तता भवे ।
न्नवीननीरदाकृतिर्विदेशतो महोन्नतिः ॥१२६॥
गमने च यदा राहौ बहुसन्तानवान्नरः ।
पण्डितो धनवान् दाता राजपूज्यो नरो भवेत् ॥१२७॥
राहावागमने क्रोधी सदा धीधनवर्जितः ।
कुटिलः कृपणः कामी नरो भवति सर्वथा ॥१२८॥
सभागतो यदा राहुः पण्डितः कृपणो नरः ।
नानागुणपरिक्रान्तो वित्त सौख्यसमन्वितः ॥१२९॥
चेदगावागमं यस्य याते तदा व्याकुलत्वं सदारातिभीत्या भयम् ।
महद्बन्धुवादो जनानां निपातो भवेद्वित्तहानिः शठत्वं कृशत्वं ॥१३०॥
भोजने भोजनेनालं विकलो मनुजो भवेत् ।
मन्दबुद्धिः क्रियाभीरुः स्त्रीपुत्रसुखवर्जितः ॥१३१॥
नृत्यलिप्सागते राहौ महाव्याधिविवर्द्धनम् ।
नेत्ररोगी रिपोर्भीतिर्धनधर्मक्षयो नृणाम् ॥१३२॥
कौतुके च यदा राहौ स्थानहीनो नरो भवेत् ।
परदाररतो नित्यं परवित्तापहारकः ॥१३३॥
निद्रावस्थां गते राहौ गुणग्रामयुतो नरः ।
कान्तासन्तानवान् धीरो गर्वितो बहुवित्तवान् ॥१३४॥
मेषे वृषेऽथ वा युग्मे कन्ययां शयनं गते ।
केतौ धनसमृद्धिः स्यादन्यभे रोगवर्धनम् ॥१३५॥
उपवेशं गतौ केतौ दद्रुरोगविवर्द्धनम् ।
अरिवातनृपव्यालचैरशंका समन्ततः ॥१३६॥
नेत्रपाणिं गते केतौ नेत्ररोगः प्रजायते ।
दुष्टसर्पादिभीतिश्च रिपुराजकुलादपि ॥१३७॥
केतौ प्रकाशने संज्ञे धनवान् धार्मिकः सदा ।
नित्यं प्रवासी चोत्साही सात्त्विको राजसेवकः ॥१३८॥
गमेच्छायां भवेत्केतुर्बहुपुत्रो महाधनः ।
पण्डितो गुणवान् दाता जायते च नरोत्तमः ॥१३९॥
आगमने च यदा केतुर्नानारोगो धनक्षयः ।
दन्तघाती महारोगी पिशुनः परनिन्दकः ॥१४०॥
सभावस्थां गते केतौ वाचालो बहुगर्वितः ।
कृपणो लम्पटश्चैव धूर्तविद्द्याविशारदः ॥१४१॥
यदागमे भवेत्केतुः केतुः स्यात्पापकर्मणाम् ।
बन्धुवादरतो दुष्टो रिपुरोगनिपीडितः ॥१४२॥
भोजने तु जनो नित्यं क्षुधया परिपीडितः ।
दरिद्रो रोगसंतप्तः केतौ भ्रामति मेदिनीम् ॥१४३॥
नृत्यलिप्साङ्गते केतौ व्याधिना विकलो भवेत् ।
बुद्बुदाक्षो दुराघर्षो धूर्तोऽनर्थकरो नरः ॥१४४॥
कौतुकी कौतुके केतौ नटवामारतिप्रियः ।
स्थानभ्रष्टो दुराचारी दरिद्रो भ्रमते महीम् ॥१४५॥
निद्रावस्थां गते केतौ धनधान्यसुखं महत् ।
नानागुणविनोदेन कालो गच्छति जन्मिनाम् ॥१४६॥
शयने द्विज भावेषु यत्र तिष्ठन्ति सद्ग्रहाः ।
नित्यं तस्य शुभज्ञानं निर्विशंकं वदेत् बुधः ॥१४७॥
भोजने येषु भावेषु पापास्तिष्ठन्ति सर्वथा ।
तदा सर्वविनाशेऽपि नाऽत्र कार्या विचारणा ॥१४८॥
निद्रायां च यदा पापो जायास्थाने शुभं वदेत् ।
यदि पापग्रहैर्दृष्टो न शुभं च कदाचन ॥१४९॥
सुतस्थाने स्थितः पापो निद्रायां शयनेऽपि वा ।
तदा शुभं वदेत्तस्य नाऽत्र कार्या विचारणा ॥१५०॥
मृत्युस्थानस्थितः पापो निद्रायां शयनेऽपि वा ।
तदा तस्याऽपमृत्युः स्याद्राजतः परतस्तथा ॥१५१॥
शुभग्रहैर्यदा युक्तः शुभैर्वा यदि वीक्षितः ।
तदा तु मरणं तस्य गङ्गादौ च विशेषतः ॥१५२॥
कर्मस्थाने यदा पापः शयने भोजनेऽपि वा ।
तदा कर्मविपाकः स्यान्नानादुःखप्रदायकः ॥१५३॥
दशमस्थो निशानाथः कौतुके च प्रकाशने ।
तदैव राजयोगः स्यान्निर्विशकं द्विजोत्तम ॥१५४॥
बलाऽबलविचारेण ज्ञातव्यञ्च शुभाऽशुभम् ।
एवं क्रमेण बोद्धव्यं सर्वाभावेषु बुद्धिमन् ॥१५५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-07-26T08:15:29.6500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ruling gradient

  • = limiting gradient 
RANDOM WORD

Did you know?

gharat javalchi vyakti vaarlya nanter, lok ek varsha san saajre ka karat nahit?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site