संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय २९

बृहत्पाराशरहोराशास्त्रम् - अध्याय २९

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


कथ्याम्यथा भावानां खेटानां च पदं द्विज ।
तद्विशेषफलं ज्ञातुं यथोक्तं प्राङ् महर्षिभिः ॥१॥
लग्नाद् यावतिथे राशौ तिष्ठेल्लग्नेश्वरः क्रमात् ।
ततस्तावतिथे राशौ लग्नस्य पदमुच्यते ॥२॥
सर्वेषामाप भावानां ज्ञेयमेवं पदं द्विज ।
तनुभावपदं तत्र बुधा मुख्यपदं विदुः ॥३॥
स्वस्थानं सप्तमं नैवं पदं भवितुमर्हति ।
तस्मिन् पदत्वे विज्ञेयं मध्यं तुर्यं क्रमात् पदम् ॥४॥
यथा तुर्यस्थिते नाथे तुर्यमेव पदं भवेत् ।
सप्तमे च स्थिते नाथे विज्ञेयं दशमं पदम् ॥५॥
यस्माद् यावतिथे राशौ खेटात् तद्भवनं द्विज ।
ततस्तावतिथं राशिं खेटारूढं प्रचक्षते ॥६॥
द्विनाथद्विभयोरेवं विज्ञेयं सबलावधि ।
विगणय्य पदं विप्र ततस्तस्य फलं वदेत् ॥७॥
अथाऽहं पदमाश्रित्य फलं किञ्चिद् ब्रुवे द्विज ।
पदादेकादशे स्थाने ग्रहैर्युक्तोऽथवेक्षिते ॥८॥
धनवान् जायते बालस्तथा सुखसमन्वितः ।
शुभयोगात् सुमार्गेण धनाप्तिः पापतोऽन्तथा ॥९॥
मिश्रैर्मिश्रं फलं ज्ञेयं स्वोच्चमित्रादिगेहगैः ।
बहुधा जायते लाभो बहुधा च सुखागमः ॥१०॥
पदाल्लाभगृहं यस्य पश्यन्ति सकला ग्रहाः ।
राजा वा राजतुल्यो वा स जातो नात्र संशयः ॥११॥
पदाल्लाभगृहं पश्येद् व्ययं कश्चिन्न पश्यति ।
अविध्नेन सदा लाभो जायते द्विजसत्तम ॥१२॥
ग्रहदृग्योगबाहुल्ये पदादेकादशे द्विज ।
सार्गले चापि तत्रापि बह्वर्गलसमागमे ॥१३॥
शुभग्रहार्गले विप्र तत्राप्युच्चग्रहार्गले ।
शुभेन स्वामिना दृष्टे लग्नभाग्यादिगेन वा ॥१४॥
जातस्य भाग्यप्राबल्यं निर्दिशेदुत्तरोत्तरम् ।
उक्तयोगेषु चेत् खेटे द्वादशं नैव पश्यति ॥१५॥
पदस्थानाद् व्यये विप्र शुभपापयुतेक्षिते ।
व्ययबाहुल्यमित्येवं विशेषोपार्जनात् सदा ॥१६॥
शुभग्रहे सुमार्गेण कुमार्गात् पापखेचरे ।
मिश्रे मिश्रफलं वाच्यमेवं लाभोऽपि लाभगे ॥१७॥
पदारूढाद् व्यये शुक्रभानुस्वर्भानुभिर्युते ।
राजमूलाद् व्ययो वाच्यश्चन्द्रदृष्ट्या विशेषतः ॥१८॥
पदारूढाद् व्यये सौम्ये शुभखेटयुतेक्षिते ।
ज्ञातिमध्ये व्ययो नित्यं पापदृक् कलहाद् व्ययः ॥१९॥
पदाद् व्यये सुराचार्ये वीक्षिते चान्यखेचरैः ।
करमूलाद् व्ययो वाच्यः स्वस्यैव द्विजसत्तम ॥२०॥
आरूढाद् द्वादशे सौरे धरापुत्रेण संयुते ।
अन्यग्रहेक्षिते विप्र भ्रातृवर्गाद् धनव्ययः ॥२१॥
आरूढाद् द्वादशे स्थाने ये योगाः कथिता यथा ।
लाभभावे च ते योगा लाभयोगकरास्तथा ॥२२॥
आरूढात् सप्तमे राहुरथवा संस्थितः शिखी ।
कुक्षिव्यथायुतो बालः शिखिना पीडितो' थ वा ॥२३॥
आरूधात् सप्तमे केतुः पापखेटयुतेक्षितः ।
साहसी श्वेतकेशी च वृद्धलिङ्गी भवेन्नरः ॥२४॥
पदात्तु सप्तमे स्थाने गुरुशुक्रनिशाकराः ।
त्रयो द्वयमथैकोऽपि लक्ष्मीवान् जायते जनः ॥२५॥
स्वतुङ्गे सप्तमे खेटः शुभो वाऽप्यशुभः पदात् ।
श्रीमान् सोऽपि भवेन्नुनं सत्कीर्तिसहितो द्विज ॥२६॥
ये योगाः सप्तमे स्थाने पदाश्च कथिता मया ।
चिन्त्यास्तथैव ते योगा द्वितीयेऽपि सदा द्विज ॥२७॥
उच्चस्थो रौहिणेयो वा जीवो वा शुक्र एव वा ।
एवो बली धनगतः श्रियं दिशति देहिनः ॥२८॥
ये योगाश्च पदे लग्ने यथावद् गदिता मया ।
ते योगाः कारकांशेऽपि विज्ञेया बांधवर्जिताः ॥२९॥
आरूढाद् वित्तभे सौम्ये सर्वदेशाधिपो भवेत् ।
सर्वज्ञो यदि वा स स्यात् कविर्वादी च भार्गवे ॥३०॥
आरूधात् केन्द्रकोणेषु स्थिते दारपदे द्विज ।
लग्नजायापदे वापि सबलग्रहसंयुते ॥३१॥
स्र्/ईमांश्च जायते नूनं देशे विख्यातिमान् भवेत् ।
षष्ठेष्टमे व्ययस्थाने जातो दारपदेऽधनः ॥३२॥
पदे तत्सप्तमे वापि केन्द्रे वृद्धौ त्रिकोणके ।
सुवीर्यः संस्थितः खेतः भार्याभर्तृसुखप्रदः ॥३३॥
पदाद्दारपदे चैवं केन्द्रे कोणे च संस्थिते ।
द्वयोर्मैत्री भवेन्नूनं त्रिके वैरं न संशयः ॥३४॥
एवं लग्नपदाद् विप्र तनयादिपदे स्थिते ।
मित्रामित्रे विजानीयाल्लाभालाभौ विचक्षणः ॥३५॥
लग्नदारपदे विप्र मिथः केन्द्रगते यदि ।
त्रिलाभयोस्त्रिकोणे वा तथा राजा धराधिपः ॥३६॥
एवं लग्नपदादेव धनादिपदतो द्विज ।
स्थानद्वयं समालोक्य जातकस्य फलं वदेत् ॥३७॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP