TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ५७

बृहत्पाराशरहोराशास्त्रम् - अध्याय ५७

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


शन्यन्तर्दशाफलाध्यायः
मूलत्रिकोणे स्वर्क्षे वा तुलायामुच्चगेऽपि वा ।
केन्द्रत्रिकोणलाभे वा राजयोगादिसंयुते ॥१॥
राज्यलाभो महत्सौख्यं दारपुत्रादिवर्धनम् ।
वाहनत्रयसंयुक्तं गजाश्वाम्बरसङ्कुलम् ॥२॥
महाराजप्रसादेन सेनापत्यादिलाभकृत् ।
चतुष्पाज्जीवलाभः स्याद्ग्रामभूम्यादिलाभकृत् ॥३॥
तथाऽष्टमे व्यये मन्दे नीचे वा पापसंयुते ।
तद्भुक्त्यादौ राजभीतिर्विषशस्त्रादिपीडनम् ॥४॥
रक्तस्त्रावो गुल्मरोगो ह्यतिमारादिपीडनम् ।
मध्ये चौरादि भीतिश्च देशत्यागो मनोरुजः ॥५॥
अन्ते शुभकरी चैव शनेरन्तर्दशा द्विज ।
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥६॥
तद्दोषपरिहारार्थं म्र्ट्युञ्जयजपं चरेत् ।
ततः शान्तिमवाप्नोति शङ्करस्य प्रसादतः ॥७॥
मन्दस्यान्तर्गते सौम्ये त्रिकोणे केन्द्रगेऽपि वा ।
सम्मानं च यशः कीर्तिं विद्यालाभं धनागमम् ॥८॥
स्वदेशे सुखमाप्नोति वाहनादिफलैर्युतम् ।
यज्ञादिकर्मसिद्धिश्च राजयोगादिसम्भवम् ॥९॥
देहसौख्यं हृदुत्साहं गृहे कल्याणसम्भवम् ।
सेतुस्नानफलावाप्तिस्तीर्थयात्रादिकर्मणा ॥१०॥
वाणिज्याद्धनलाभश्च पुराणश्रवणादिकम् ।
अन्नदानफलं चैव नित्यं मिष्ठान्नभोजनम् ॥११॥
षष्ठाष्टमव्यये सौम्ये नीचे वास्तंगते सति ।
रव्यारफणिसंयुक्ते दायेशाद्वा तथैव च ॥१२॥
नृपाभिषेकमर्थाप्तिर्देशग्रामाधिपत्यता ।
फलमीदृशमादौ तु मध्यान्ते रोगपीडनम् ॥१३॥
नष्टानि सर्वकार्याणि व्याकुलत्वं महद्भयम् ।
द्वितीयसप्तमाधिशे देहबाधा भविष्यति ॥१४॥
तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ।
अन्नदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् ॥१५॥
मन्दस्यान्तर्गते केतौ शुभदृष्टियुतेक्षिते ।
स्वोच्चे वा शुभराशिस्थे योगकारकसंयुते ॥१६॥
केन्द्रकोणगते वापि स्थानभ्रंशो महद्भयम् ।
दरिद्रबन्धनं भीतिः पुत्रदारादिनाशनम् ॥१७॥
स्वप्रभोश्च महाकष्टं विदेशगमनं तथा ।
लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमः ॥१८॥
गङ्गादिसर्वतीर्भेषु स्नानं दैवतदर्शनम् ।
दायेशात्केन्द्रकोणे वा तृतीयभवराशिगे ॥१९॥
समर्थो धर्मबुद्धिश्च सौख्यं नृपसमागमः ।
तथाऽष्टमे व्यये केतौ दायेशाद्वा तथैव च ॥२०॥
अपमृत्युभयं चैव कुत्सितान्नस्य भोजनम् ।
शीतज्वरातिसारश्च व्रणचौरादिपीडनम् ॥२१॥
दारपुत्रवियोगश्च संसारे भवति ध्रुवम् ।
द्वितियद्यूनराशिस्थे देह पीडा भविष्यति ॥२२॥
छागदानं प्रकुर्वीत ह्यपमृत्युनिवारणम् ।
केतुग्रहप्रसादेन सुखशान्तिमवाप्नुयात् ॥२३॥
मन्दस्यान्तर्गते शुक्रे स्वोच्चे स्वक्षेत्रगेऽपि वा ।
केन्द्रे वा शुभसंयुक्ते त्रिओकोणे लाभगेऽपि वा ॥२४॥
दारपुत्रधनप्राप्तिर्देहारोग्यं महोत्सवः ।
गृहे कल्याण्सम्पत्ति राज्यलाभं महत्सुखम् ॥२५॥
महाराजप्रसादेन हीष्टसिद्धिः सुखावहा ।
स्सम्मानं प्रभुसम्मानं प्रियवस्त्रादिलाभकृत् ॥२६॥
द्विपान्तराद्वस्त्रलाभः श्वेताश्वो महिषी तथा ।
गुरुचारवशाद्भाग्यं सौख्यं च धनसम्पदः ॥२७॥
शनिचारान्मनुष्योऽसौ योगमाप्नोत्यसंशयम् ।
शत्रुनीचास्तगे शुक्रे षष्ठाष्टमव्ययराशिगे ॥२८॥
दारनाशो मनःक्लेशः स्थाननाशो मनोरुजः ।
दारानां स्वजनक्लेशः सन्तापो जनविग्रहः ॥२९॥
दायेशाद्भाग्यगे चैव केन्द्रे वा लाभसंयुते ।
राजप्रीतिकरं चैव मनोऽभीष्टप्रदायकम् ॥३०॥
दानधर्मदयायुक्तं तीर्थयात्रादिकं फलम् ।
सास्र्तार्थकाव्यरचनां वेदान्तश्रवणादिकम् ॥३१॥
दारपुत्रादिसौख्यं च लभते नाऽत्र संशयः ।
दायेशाद्व्ययगे शुक्रे षष्ठे वा ह्यष्टमेऽपि वा ॥३२॥
नेत्रपीडा ज्वरभयं स्वकुलाचारवर्जितः ।
कपोले दन्तशूलादि हृदि गुह्ये च पीडनम् ॥३३॥
जलभीतिर्मनस्तापो वृक्षात्पतनसम्भवः ।
राजद्वारे जनद्वेषः सोधरेण विरोधनम् ॥३४॥
द्वितीयसप्तमाधीशे आत्मक्लेशो भविष्यति ।
तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ॥३५॥
श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धिदाम् ।
जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ॥३६॥
मन्दस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा ।
भाग्याधिपेन संयुक्ते केन्द्रलाभत्रिकोणगे ॥३७॥
शुभदृष्टियुते वापि स्वप्रभोश्च महत्सुखम् ।
गृहे कल्याणसम्पत्तिः पुत्रादिसुखवर्द्धनम् ॥३८॥
वाहनाम्बरपश्वादिगोक्षीरैस्संकुलं गृहम् ।
लग्नाष्टमव्यये सूर्ये दायेशाद्वा तथैव च ॥३९॥
हृद्रोगो मानहानिश्च स्थानभ्रंशो मनोरुजा ।
इष्ट्बन्धुवियोगश्च उद्योगस्य विनाशनम् ॥४०॥
तापज्वरादिपीडा च व्याकुलत्वं भयं तथा ।
आत्मसम्बन्धिमरणमिष्टवस्तुवियोगकृत् ॥४१॥
द्वितीयद्यूननाथे तु देहबाधा भविष्यति ।
तद्दोषपरिहारार्थं सूर्यपूजां च कारयेत् ॥४२॥
मन्दस्यान्तर्गते चन्द्रे जीवदृष्टिसमन्विते ।
स्वोच्चे स्वक्षेत्रकेन्द्रस्थे त्रिकोणे लाभगेऽपि वा ॥४३॥
पूर्णे शुभग्रहैर्युक्ते राजप्रीतिसमागमः ।
महाराजप्रसादेन वाहनाम्बरभूषणम् ॥४४॥
सौभाग्यं सुखवृद्धिं च भृत्यानां परिपालनम् ।
पितृमातृकुले सौख्यं पशुवृद्धिः सुखावहा ॥४५॥
क्षीणे वा पापसंयुक्ते पापदृष्टे वा नीचगे ।
क्रूरांशकगते वापि क्रूरक्षेत्रगतेऽपि वा ॥४६॥
जातकस्य महत्कष्टं राजकोपो धनक्षयः ।
पितृमातृवियोगश्च पुत्रीपुत्रादिरोगकृत् ॥४७॥
व्यवसायात्फलं नेष्टं नानामार्गे धनव्ययः ।
अकाले भोजनं चैव मौषधस्य च भक्षणम् ॥४८॥
फलमेतद्विजानीयादादौ सौख्यं धनागमः ।
दायेशात्केन्द्रराशिस्थे त्रिकोणे लाभगेऽपि वा ॥४९॥
वाहनाम्बरपश्वादिभ्रातृवृद्धिः सुखावहा ।
पितृमातृसुखावाप्तिः स्त्रीसौख्यं च धनागमः ॥५०॥
मित्रप्रभुवशादिष्टं सर्वसौख्यं शुभावहम् ।
दायेशाद्द्वादश भावे रन्ध्रे वा बलवर्जिते ॥५१॥
शयनं रोगमालस्यं स्थानभ्रष्टं सुखापहम् ।
शत्रुवृद्धिविरोधं च बन्धुद्वेषमवाप्नुयात् ॥५२॥
द्वितीयद्यूननाथे तु देहालस्य भविष्यति ।
तद्दोषशमनार्थं च तिलहोमादिकं चरेत् ॥५३॥
गुडं घृतं च दध्नाक्तं तण्डुलं च यथाविधि ।
श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥५४॥
मन्दस्यान्तर्गते भौमे केन्द्रलाभत्रिकोणगे ।
तुङ्गे स्वक्षेत्रगे वापि दशाधिपसमन्विते ॥५५॥
लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमः ।
राजप्रीतिकरं सौख्यं वाहनाम्बरभूषणम् ॥५६॥
सेनापत्यं नृपप्रीतिः कृषिगोधान्यसम्पदः ।
नूतनस्थाननिर्माणं भ्रातृवर्गेष्टसौख्यकृत् ॥५७॥
नीचे चास्तङ्गते भौमे लग्नादष्टव्ययस्थिते ।
पापदृष्टियुते वापि धनहानिर्भविष्यति ॥५८॥
चौराहिव्रणशस्त्रादिग्रन्थिरोगादिपीडनम् ।
भ्रातृपित्रादिपीडा च दायादजनविग्रहः ॥५९॥
चतुष्पाज्जीवहानिश्च कुत्सितान्नस्य भोजनम् ।
विदेशगमनं चैव नानमार्गे धनव्ययः ॥६०॥
अष्टमद्यूननाथे तु द्वितीयस्थेऽथ वा यदि ।
अपमृत्युभयं चैव नानाकष्टं पराभवः ॥६१॥
तद्दोषपरिहारार्थं शान्तिहोमं च कारयेत् ।
वृषदानं प्रकुर्वीत सर्वारिष्टनिवारणम् ॥६२॥
मन्दस्यान्तर्गते राहौ कलहश्च मनोव्यथा ।
देहपीडा मनस्तापः पुत्रद्वेषो रुजोभयम् ॥६३॥
अर्थव्ययो राजभयं स्वजनादिविरोधिता ।
विदेशगमनं चैव गृहक्षेत्रादिनाशनम् ॥६४॥
लग्नाधिपेन संयुक्ते योगकारकसंयुते ।
स्वोच्चे स्वक्षेत्रगे केन्द्रे दायेशाल्लाभराशिगे ॥६५॥
आदौ सौख्यं धनावाप्तिं गृहक्षेत्रादिसम्पदम् ।
देवब्राह्मणभक्तिं च तीर्थयात्रादिकं लभेत् ॥६६॥
चतुष्पाज्जीवलाभः स्याद्गृहे कल्याण्वर्द्धनम् ।
मध्ये तु राजभीतिश्च पुत्रमित्रविरोधनम् ॥६७॥
मेषे कन्यागते वापि कुलीरे वृषभे तथा ।
मीनकोदण्डसिंहेषु गजान्तैश्वर्यमादिशेत् ॥६८॥
राजसम्मनभूषाप्तिं मृदुलाभरसौख्यकृत् ।
द्विसप्तमाधिपैर्युक्ते देहबाधा भविष्यति ॥६९॥
मृत्युञ्जयं प्रकुर्वीत छागदानं च कारयेत् ।
वृषदानं प्रकुर्वीत सर्वसम्पत्सुखावहम् ॥७०॥
मन्दस्यान्तर्गते जीवे केन्द्रे लाभत्रिकोणगे ।
लग्नाधिपेन संयुक्ते स्वोच्चे स्वक्षेत्रगेऽपि वा ॥७१॥
सर्वकार्यार्थसिद्धिः स्याच्छोभनं भवति ध्रुवम् ।
महाराजप्रसादेन धनवाहनभूषणम् ॥७२॥
सन्मानं प्रभुसम्मानं प्रियवस्त्रार्थलाभकृत् ।
देवतागुरुभक्तिश्च विद्वज्जनसमागमः ॥७३॥
दारपुत्रादिलाभश्च पुत्रकल्याणवैभवम् ।
षष्ठाष्टमव्यये जीवे नीचे वा पापसंयुते ॥७४॥
निजसम्बन्धिमरणं धनधान्यविनाशनम् ।
राजस्थाने जनद्वेषः कर्यहानिर्भविष्यति ॥७५॥
विदेशगमनं चैव कुष्ठरोगादिसम्भवः ।
दायेशात्केन्द्रकोणे वा धने वा लाभगेऽपि वा ॥७६॥
विभवं दारसौभाग्यं राजश्रीधनसम्पदः ।
भोजनाम्बरसौख्यं च दानधर्मादिकं भवेत् ॥७७॥
ब्रह्मप्र्तिष्ठासिद्धिश्च क्रतुकर्मफलं तथा ।
अन्नदानं महाकीर्तिर्वेदान्तश्रवणादिकम् ॥७८॥
दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ।
बन्धुद्वेषो मनोदुःखं कलहः पदविच्युति ॥७९॥
कुभोजनं कर्महानी राजदण्डाद्धनव्यय ।
कारागृहप्रवेशश्च पुत्रदारादिपीडनम् ॥८०॥
द्वितीयद्यूननाथे तु देहवाधा मनोरुजः ।
आत्मसम्बन्धमरणं भविष्यति न संशयः ॥८१॥
तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ।
स्वर्णदानं प्र्कुर्वीत ह्यारोग्यं भवति ध्रुवम् ॥८२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-07-26T08:43:54.9970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

symbolist

  • पु. प्रतीकवादी 
RANDOM WORD

Did you know?

कापूर जाळण्यामागची संकल्पना काय? कांही फायदे आहेत काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site