संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०८४

खण्डः १ - अध्यायः ०८४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
लग्नानि द्वादशोक्तानि दिनरात्रेण नित्यशः॥
यत्रादित्यः स्थितो राशौ तदाद्यानि नराधिप ॥१॥
मेषो वृषोथ मिथुनः कुलीरस्सिंह एव च॥
कन्या तुला तथा कीटो धन्वी मकर एव च ॥२॥
कुम्भो मीनश्च राजेन्द्र लग्ना द्वादश कीर्त्तिताः॥
कुजश्शुक्रो बुधश्चन्द्रः सूर्यश्चान्द्रिस्सितस्तथा ॥३॥
भौमो जीवश्च सौरश्च शनिर्जीविस्तथैव च॥
मेषादीनां क्रमेणोक्ताः प्रभावः पृथिवीपते ॥४॥
लग्रस्यार्धं स्मृता होरा तयोर्विषमराशिषु॥
आदित्यचन्द्रौ चन्द्रार्कावीश्वरौ समराशिषु ॥५॥
लग्नत्रिभागो द्रेष्काणः क्रमात्तेषां तथेश्वराः॥
लग्नेशः पंचमेशश्च नवमेशस्तथैव च ॥६॥
मेषाद्याः कथिता नित्यं मेषसिंहधनुर्धराः॥
मकराद्यास्तथा प्रोक्ता वृषकन्यामृगास्तथा ॥७॥
तुलाद्या मिथुनस्तौली कुम्भश्च वसुधाधिप॥
कुलीराद्याः कुलीरश्च कीटो मीनस्तथैव च ॥८॥
आद्युक्तराशिप्रभृति गणनीया नवांशकाः॥
राशीनां तु यथोक्तानां क्रमान्नव नवेश्वराः ॥९॥
स्वराशितस्तथारभ्य क्रमेणैव नवेश्वराः॥
राशीश्वरेश्वराः प्रोक्ता राशीनां द्वादशांशकाः ॥१०॥
पंच भौमस्य सौरस्य पंच त्रिंशांशका मताः॥
जीवस्याष्टौ विनिर्दिष्टाः सप्त प्रोक्ता बुधस्य तु ॥११॥
शुक्रस्योक्तास्तथा पञ्च राशौ विषम संज्ञके॥
आद्यास्तु पञ्च शुक्रस्य ततस्सप्त बुधस्य च ॥१२॥
जीवस्याष्टौ तथा प्रोक्ताः पञ्च सौरस्य चाप्यथ॥
कुजस्य तु तथा पञ्च राशौ तु समसंख्यके ॥१३॥
लग्नं च होरा च तथा द्रिकाणं नवांशकं द्वादशभागसंज्ञम्॥
त्रिंशांशकं चाप्यथ षष्ठमत्र षड्भेदमाहुर्मुनयश्च लग्नम् ॥१४॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० स० षड् लग्नवर्णनो नाम चतुरशीतितमोऽध्यायः॥८४॥

N/A

References : N/A
Last Updated : December 02, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP