संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०२२

खण्डः १ - अध्यायः ०२२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
ब्रह्मन्विष्णुपदी गंगा त्रैलोक्यं व्याप्य तिष्ठति॥
यथा तथा भृगुश्रेष्ठ सर्वमेव प्रकीर्तय ॥१॥
मार्कण्डेय उवाच॥
प्रविश्य देवी ब्रह्माण्डं विष्णुलोकमुपागता॥
ब्राह्मीं सभां प्लावयित्वा तपोलोकमुपागता ॥२॥
जनलोकं गता तस्मान्महर्ल्लोकं ततो गता॥
स्वर्गलोकं समासाद्य प्रविष्टा चन्द्रमण्डलम् ॥३॥
चन्द्रमण्डलविभ्रष्टा भुवर्लोकमुपागता॥
आकाशगंगा कथिता तत्र सा रतिवर्धिनी ॥४॥
तस्यास्तु दृश्यते पन्थाः सततं व्योम्नि निर्मले॥
आकाशगंगामध्ये सा मेरौ निपतिता गिरौ ॥५॥
मेरुमध्याददृश्यन्ती दृश्यन्ती च तथा क्वचित्॥
प्रयाता सर्ववर्षाणि द्वीपानि च महामते॥
सा तु देवी जया नाम कुरुवर्षे ह्रदास्तु ते॥
तेभ्यः शान्ता च साध्वी च द्विधा गंगा विनिस्सृता ॥७॥
ज्योत्स्ना च मृगमन्दा च स्मृता हैरण्वती शुभा॥
पुण्डरीका पयोदा च रम्ये वर्षे निगद्यते ॥८ ।
भद्रा च कथिता देवी गान्धर्वी च मनोऽनुगा॥
इलावृते तथा सैव प्रोक्ता जाम्बवती शुभा ॥९॥
तस्यास्तीरभवं मूर्ध्नि कनकं धार्यते सुरैः॥
केतुमाले च कथिता निर्मला नड्वला तथा ॥१०॥
मनस्विनी ज्योतिष्मती हरिवर्षे निगद्यते॥
तथा किम्पुरुषाख्ये तु रम्भा चन्द्रवती शुभा ॥११॥
इन्द्रद्युम्नपयोदा सा काशैका मतिपावनी॥
मनोजवा ताम्रपर्णी गभस्तिमतिमालिनी ॥१२॥
नागद्वीपे नागवती सौम्ये सोमप्रभा तथा॥
रुद्रलोकं ततः प्राप्ता ब्रह्मलोकं ततो गता ॥१३॥
गान्धर्वी चैव गन्धर्वी वारुणे वरुणह्रदा॥
ह्रादिनी ह्लादिनी चैव पुण्यतोया च वर्षिणी ॥१४॥
सीता चक्षुश्च सिन्धुश्च गंगा चास्मिन्प्रकीर्तिता॥
अमरान्निषधान्सर्वान्धीवरानृषिकांस्तथा ॥१५॥
ओष्ठप्रावरणान्सौम्यान्कर्णप्रावरणांस्तथा॥
कालोदरान्विकर्णांश्च ह्रादिनी तु निषेवते ॥१६॥
इन्द्रद्युम्नसरः पुण्यमुपचारादजायत॥
तथा खरपदान्देशान्वेत्रशङ्कुपदानपि ॥१७॥
तञ्जानकामतं चैव ह्लादिनी तु निषेवते॥
दरदाञ्जहुडांश्चैव काश्मीरान्नैरसान्कुरून् ॥१८॥
गान्धारान्दरदाभीरान्कुपर्वान्भीमरौरवान् ॥५३॥
शिवपर्वानिन्द्रपर्वान्सिन्धुतीरान्निषेवते ॥१९॥
देवान्दैत्यान्कालकेयान्गन्धर्वान्किन्नरांस्तथा॥
विद्याधरांस्तथा नागान्सुपर्वान्सुमनोहरान् ॥२०॥
कलापग्रामकांश्चैव नरनारायणाश्रमम्॥
किरातांश्च पुलिन्दांश्च मयस्य नगरीं तथा ॥२१॥
कुतून्सभारतांश्चैव पुलिन्दाँश्चैव भागशः॥
पाञ्चालान्काशयान्वत्सान्मागधांस्ताम्रलिप्तकान् ॥२२॥
सह्योत्तरांश्च वङ्गांश्च तथा श्रावस्तिवासिन॥
अङ्गान्वंगान्सपुण्ड्रांश्च गंगा भावयते शुभा ॥२३॥
ह्रादिनी ह्लादिनी चैव पावनी जाह्नवी तथा॥
प्रविष्टा सागरं पूर्वं द्वीपेस्मिन्नृपसत्तम ॥२४॥
सीताचक्षुश्च सिन्धुश्च पश्चिमं नृप सागरम्॥
गङ्गाव्याप्तिस्तव प्रोक्ता जम्बूद्वीपे मयानघ ॥२५॥
लोकेषु च तथा राजन्द्वीपेष्वन्येषु मे शृणु॥
सुकुमारी कुमारी च सुकृता सेविनी तथा ॥२६॥
इक्षुश्च वेणुका नन्दा शाकद्वीपे च सप्तधा॥
शाल्मले त्वथ गोमेदे द्वीपे पुष्करसंज्ञके ॥२७॥
नदीत्वं सा समुत्सृज्य चोदधित्वमुपागता॥
तस्मिन्द्वीपत्रये नद्यो न सन्ति यदुनन्दन ॥२८॥
उदकान्युद्भिदान्येव तेषु सन्ति सहस्रशः॥
एवं भूमितलं प्लाव्य पातालं कृष्णमृत्तिकम् ॥२९॥
एकीभूता प्रविष्टा सा भोगवत्यां समीपतः॥
श्वेतभौमं गता तस्माद्रक्तभौमं ततो गता ॥३०॥
शिलाभौमं गता तस्माद्रुक्मभौमं ततो गता॥
रुक्मभौमादपि गता रौद्रं तेजस्सुदारुणम् ॥३१॥
ततोऽपि विलयं गत्वा वाराहं लोकमागता॥
वाराहलोकाद्ब्रह्माण्डं तदर्थं भिन्न वाहिनी ॥३२॥
छिद्रेण तेन सा देवी स्वां योनिं पुनरागता ॥३३॥
एवं नरेन्द्रेश जगत्समग्रमाक्रम्य गंगा सततं स्थिता या॥
तस्याः प्रभावश्रवणादशेषं पापं नराणां समुपैति शांतिम् ॥३४।॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गंगाव्याप्तिर्नाम द्वाविंशतितमो ऽध्यायः ॥२२॥

N/A

References : N/A
Last Updated : November 29, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP