संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
पञ्चाशत्तमोऽध्यायः

प्रथम खण्डः - पञ्चाशत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


 ॥मार्कण्डेय उवाच  ॥
ब्रह्मास्त्रं वैष्णवं रौद्रमाग्नेयमथ वासवम् ॥
अस्त्रञ्च नैर्ऋतं याम्यं कौबेरमथ वारुणम् ॥१॥
वायव्यमथ सौम्यञ्च सौरं पार्वतमेव च ॥
चक्रास्त्रमथ वज्रास्त्रं पाशास्त्रं सार्पमेव च ॥२॥
गान्धर्वं स्वापनं भौतं तथा पाशुपतं शुभम् ॥
ऐषीकं तर्जनं प्रासं भारुण्डं नर्तनं तथा ॥३॥
अस्त्ररोधनमादित्यं रैवतं मानवं तथा ॥
अक्षिसंतर्जनं भीमं जृम्भणं रोधनं तथा ॥४॥
सौपर्णमथ पार्जन्यं राक्षसं मोहनं तथा ॥
कालास्त्रं दानवास्त्रञ्च अस्त्रं ब्रह्मशिरस्तथा ॥५॥
एतान्यन्यानि चाऽन्यानि रामो निवसने ततः ॥
सप्रयोगरहस्यानि ससंहाराणि चाप्यथ ॥६॥
आजहार महादेवात्प्रसादसुमुखात्ततः ॥
एवं हि वसतः कालो ययौ रामस्य धीमतः ॥७॥
हरप्रसादसंजातविस्रम्भो भृगुनन्दनः ॥
ध्यानासक्तं हरं देवं कदाचिदथ दृष्टवान् ॥८॥
ध्यानप्रसक्तं स हरं समीक्ष्य रामस्तु संजातकुतूहलेन ॥
विसिष्मिये धर्मभृतां वरिष्ठः स चेतसा यादववंशचन्द्र ॥९॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखंडे मार्कण्डेयवज्रसंवादे अस्त्र प्रदानं नाम पञ्चाशत्तमोऽध्यायः ॥५०॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP