संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
सप्तत्रिंशत्तमोऽध्यायः

प्रथम खण्डः - सप्तत्रिंशत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


 ॥मार्कण्डेय उवाच  ॥
एतस्मिन्नेव काले तु काष्ठोदर्काः सुदारुणाः ॥
बभूवुः सुमहोत्पाताः सैंहिकेयनिवेशने ॥१॥
चचाल शब्दं कुर्वाणा मही सवनकानना ॥
पपात महती चोल्का मध्येनाऽऽदित्यमण्डलात् ॥२॥
अपर्वणि शशाङ्कार्कौ संछन्नौ तमसा तथा ॥
प्रवृष्टाश्च तथा रक्तं भूरि मेघा भयावहम् ॥३॥
शस्त्राणि मुमुचुर्धूममसकृदश्रुवाहनाः ॥
इन्द्रचापसवर्णेन परिवेशेन भास्करः ॥४॥
परिविष्ट उभे सन्ध्ये चन्द्रश्च सकलां निशम् ॥
सैंहिकेयो विपत्न्योपि साल्वस्य सुमहात्मनः ॥५॥
आक्रम्यजन्मन क्षत्रं केतुस्तस्थौ महाग्रहः ॥
ववुस्तीक्ष्णा महावाताः क्षोभयन्तो दिशो दश ॥६॥
भानुश्चाऽऽसीत्कबन्धाङ्गो मृगाश्चासन्नसस्वनाः ॥
न्यलीयन्त ध्वजाग्रेषु दानवानां दुरात्मनाम् ॥७॥
क्रव्यादपक्षिसंघाता ह्यपसव्यं भयानकाः ॥
शुष्केन्धनसमृद्धोऽपि न जज्वाल हुताशनः ॥८॥
वपूंषि दानवेन्द्राणां न प्राकाशंत यादव ॥
उष्णशीतविपर्यास ऋतूनामप्यदृश्यत ॥९॥
प्रसुस्रवुर्द्रुमा रक्तं व्यशीर्यन्त च भूषणाः ॥
खरा गोषु व्यजायन्त मार्जारा मूषिकासु च ॥१०॥
अकाले पुष्पिता वृक्षा अकाले फलिता द्रुमाः ॥
विना वर्षं महानद्यः प्रतीपं जग्मुरोजसा ॥११॥
भयानकाञ्जातभयः सुघोरानुत्पातसंघान्प्रसमीक्ष्य राजा ॥
साल्वः समाहूय भृगोस्तस्तनूजं दैत्यैः समेतोऽथ चकार मन्त्रम् ॥१२॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवाद औत्पातिकं नाम सप्तत्रिंशत्तमोऽध्यायः ॥३७॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP