संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
चतुर्विंशतितमोऽध्यायः

प्रथम खण्डः - चतुर्विंशतितमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


वज्र उवाच ॥
देवकार्यं विना विष्णुर्नोत्पत्स्यति महीतले ॥
कस्मिन्कार्ये बभूवासौ दत्तात्रेय इति श्रुतः ॥१॥
मार्कण्डेय उवाच ॥
शक्रेण च यदा वृत्रो हतो वीर्योपबृंहितः ॥२॥
तस्मिन्हतेऽसुरे त्वष्टा विश्वरूपमवासृजत् ॥
तपस्यन्तं च तं गत्वा जघान च शचीपतिः ॥३॥
तस्मिन्हते ब्रह्महत्या जगाम बलसूदनम् ॥
ब्रह्महत्याभिभूतस्तु राज्यं त्यक्त्वा त्रिविष्टपे ॥४॥
मानसे बिसतन्तुस्थो बभूव स पुरन्दरः ॥
राजा कृतः शक्रहीनैर्देवैस्तु नहुषस्तदा ॥५॥
सोऽकामयत पौलोमीं शक्रस्य महिषीं प्रियाम् ॥
कालालाभपरा प्राह शक्रं देवी तथा शची ॥६॥
अपूर्वेण हि यानेन समीपं मे सुरेश्वर ॥
ऋषिभिः शिबिकां युक्त्वा स जगाम तदन्तिकम् ॥७॥
शिबिकां वहमानं तु मन्दंमन्दं द्विजोत्तमम् ॥
पादेन ताडयामास सोऽगस्त्यं पापनिश्चयः ॥८॥
अगस्त्येन तथा शप्तो भव सर्पो महीपते ॥
युधिष्ठिरेण संगम्य शापमोक्षमवाप्स्यसि ॥९॥
एवमुक्ते तु मुनिना सर्पत्वं स जगाम वै ॥
नष्टे शक्रे च पतिते नहुषे पापनिश्चये ॥१०॥
रजस्तमोभ्यामाक्रान्ता बभूवुस्त्रिदशालयाः ॥
ततः प्रवृत्ता लोकेऽस्मिन्ननावृष्टिः सुदारुणा ॥११॥
दुर्भिक्षमरकौ चोभौ विषण्णास्त्रिदशालयाः ॥
नष्टोत्सवमहायज्ञं निर्वषट्कारमङ्गलम् ॥१२॥
अनावृष्टिहतं सर्वं बभूव वसुधातलम् ॥
क्षुत्क्षाममानुषप्रायं विनष्टपशुसञ्चयम् ॥१३॥
कपालास्थिसमाकीर्णं केशशैवालसंकुलम् ॥
स्नायुभग्नद्विजगणैः क्रव्यादैरतिसंकुलम् ॥१४॥
निर्गन्धिकुणपाकीर्णं शून्यप्रायं विभीषणम् ॥
क्षुत्क्षामभूतसङ्घाभ्यां विनिवृत्तवणिक्पथम् ॥१५॥
प्रनष्टकृषिवार्तं च दातृभिश्च विवर्जितम् ॥
नरकेऽपि महाघोरे निराक्रन्दैर्जनैयुतैः ॥१६॥
दुर्लभान्नं निरानन्दं स्कन्धासक्तकुमारकैः ॥
इतश्चेतश्च यास्यद्भिर्दानवैरतिसंकुलम् ॥१७॥
शुष्कतोयाशयं भीमं नामशेषमहापगम् ॥
तस्मिन्काले महाघोरे चोत्सृष्टनियमा द्विजाः ॥१८॥
आर्यावर्तं परित्यज्य म्लेच्छदेशमुपाश्रिताः ॥
भक्ष्याभक्ष्यं परित्यज्य कुर्वाणाः प्राणधारणम् ॥१९॥
प्राणधारणसक्तानां क्षुधाव्याकुलचेतसाम् ॥
तेषां ब्रह्म तदा नष्टं धावतां च इतस्ततः ॥२०॥
तदा नष्टेषु देवेषु म्लेच्छीभूतमिदं जगत् ॥
म्लेच्छीभूते जगत्यस्मिन्स्वधास्वाहाविवर्जिताः ॥२१॥
यथा मर्त्यास्तथा जाताः सर्वे ते देवतागणाः ॥
क्षुत्क्षामकण्ठैस्त्रिदशैः प्रार्थितश्च जनार्दनः ॥२२॥
शक्रार्थं त्रिदशा गत्वा त्रैलोक्यहितकाम्यया ॥२३॥
तानुवाच हरिर्देवः सर्वे गच्छन्तु मानसम् ॥
बिसतंतुगतं शक्रं तस्माल्लप्स्यथ मा चिरम् ॥२४॥
यजतां सोऽश्वमेधेन मामेव सुरसत्तमाः! ॥
अहमेव करिष्यामि विपाप्मानं बिडौजसम् ॥२५॥
तत्कृता ब्रह्महत्यां तु चतुर्धा स करिष्यति ॥२६॥
अमेध्यक्षेपके वह्नौ पादेनैकेन यास्यति ॥
तथा चैकेन पादेन ह्यशुचिक्षेपके जले ॥२७॥
पादेनैकेन च तथा सर्वकाले द्रुमच्छिदम् ॥
रजस्वलांगं पादेन तथा चैकेन यास्यति ॥२८॥
अहमंशेन यास्यामि भूतलं सुरकारणात् ॥
नष्टे च भूतले धर्मं स्थापयिष्याम्यहं पुनः ॥२९॥
एतत्सर्वं यथोद्दिष्टं देवदेवेन शार्ङ्गिणा ॥
चक्रुस्सुरगणाः सर्वे राज्यं चावाप वृत्रहा ॥३०॥
शक्रेण नित्यं बिसतन्तुगेन ध्यातो महात्मा हरिरप्रमेयः ॥
हत्वापि कामेन स विप्रमुख्यं लेभे त्रिलोकीं पुनरेव तस्मात् ॥३१॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वृत्रवधोपाख्यानं नाम चतुर्विंशतितमोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP