संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०२३

खण्डः १ - अध्यायः ०२३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
भगीरथस्य राजर्षेर्वंशमुत्तमपूरुषं॥
त्वत्तोऽहं श्रोतुमिच्छामि गङ्गा येनावतारिता ॥१॥
मार्कण्डेय उवाच॥
भगीरथसुतः श्रीमान्विश्रुतो नाम धार्मिकः॥
विश्रुतस्यात्मजः श्रीमान्नाभाग इति विश्रुतः ॥२॥
अम्बरीषस्तु नाभागिरयुतारिस्तदात्मजः॥
तत्सुतो ऋतुपर्णश्च राजा नलसखो बली ॥३॥
शर्वकामः सुतस्तस्य सुदासस्तस्य चात्मजः॥
तस्य मित्रसहः पुत्रः तस्य पुत्रोश्मको नृप ॥४॥
मूलकस्तत्सुतो राजा महाबुद्धिर्नरेश्वरः॥
क्षत्रियाणां वधे घोरे रामेण विनिपातितः ॥५॥
पुरा पितृवधामर्षाद्रामो भार्गवनन्दनः॥
त्रिःसप्तकृत्वः पृथिवीं चक्रे निःक्षत्रियामिमाम् ॥६॥
भगीरथकुलोत्पन्नं मूलकं नाम जघ्निवान्॥
वज्र उवाच॥
कथं रामेण वसुधा पुरा निःक्षत्त्रिया कृता॥
किमर्थं च महाभाग तन्ममाचक्ष्व पृच्छतः ॥७॥
मार्कण्डेय उवाच॥
सोमवंशसमुत्पन्नो ययातिर्नाम पार्थिवः॥
तस्यापि संहतः पुत्रो बभूव पृथिवीपतिः ॥८॥
सहस्रजित्सुतस्तस्य नभजित्तस्य चात्मजः॥
तस्यापि हैहयः पुत्रः कुन्तिस्तस्यापि चात्मजः ॥९॥
तस्यापि संहतः पुत्रो महिष्मांऽस्तस्य चात्मजः॥
माहिष्मती कृता येन नगरी सुमनोहरा ॥१०॥
भद्रश्रेण्यः सुतस्तस्य दुर्मदस्तस्य चात्मजः॥
कनकस्तत्सुतो राजा कृतवीर्यस्तदात्मजः ॥११॥
अर्जुनस्तनयस्तस्य सप्तद्वीपेश्वरोऽभवत्॥
दत्तात्रेयोऽथ भगवान्विष्णुरूपानुरूपधृक् ॥१२॥
आराध्य तपसा येन प्राप्तं राज्यं सुदुर्लभम्॥
तथा बाहुसहस्रं च मतिं धर्मे तथोत्तमाम् ॥१३॥
अधर्मे वर्त्तमानस्य मरणं च जनार्दनात्॥
युद्धेन पृथिवीं जित्वा धर्मेणैवानुरंजयन् ॥१४॥
 तेनेयं पृथिवी सर्वा सप्तद्वीपा सपत्तना॥
सप्तोदधिपरिक्षिप्ता क्षात्रेण विधिना जिता ॥१५॥
पातालनगरे शैले वसुधायां रसातले॥
तस्य पार्थिवसिंहस्य चक्रं न प्रतिहन्यते ॥१६॥
द्वीपेषु स हि सर्वेषु खातं खातमथाऽकरोत्॥
यूपचिह्नानि च तथा खड्गी शतशनी रथी ॥१७॥
देशाननुचरन्योगात्सदा पश्यति तस्करान्॥
स एव पशुपालोभूत्क्षेत्रपालः स एव च ॥१८॥
स एव वृष्ट्या पर्जन्यो योगित्वादर्जुनोऽभवत्॥
स तु बाहुसहस्रेण ज्याघातकठिनत्वचा ॥१९॥
भाति रश्मिसहस्रेण शारदेनेव भास्करः॥
राक्षसा निर्जितास्तेन तेन बद्धश्च रावणः ॥२०॥
जित्वा भोगवती तेन कर्कोटकसुता हृता॥
तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ॥
भवन्ति लीना निश्चेष्टाः पातालस्था महासुराः ॥२१॥
मन्दरक्षोभचकिता अमृतोत्पादशङ्किताः॥
नतनिश्चलमूर्धानो भवन्ति च महोरगाः ॥२२॥
दशयज्ञसहस्राणि तेनेष्टानि महीक्षिता॥
द्वीपे द्वीपे महाराज धर्मज्ञेन महात्मना ॥२३॥
सर्वे यज्ञा महाराज तस्यासन्भूरिदक्षिणाः॥
सर्वे काञ्चनवेदीकाः सर्वे यूपैश्च काञ्चनैः ॥२४॥
द्विजानां परिवेष्टारस्तस्य यज्ञेषु देवताः॥
स्वयमासन्महाराज स्वयं भागहरास्तथा ॥२५॥
तस्य यज्ञे जगौ गाथा नारदस्सुमहत्तपाः॥
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ॥२६॥
यज्ञैर्दानैस्तपोभिर्वा विक्रमेण श्रुतेन वा ॥२७॥
पञ्चाशीतिसहस्राणि वर्षाणां स महीपतिः॥
सप्तद्वीपेश्वरः सम्राट् चक्रवर्त्ती बभूव ह ॥२८॥
तस्य राज्ञस्तु वसुधा बहुपार्थिवसङ्कुला॥
भाराक्रान्ता विलुलिता बभूव पृथिवीपते ॥२९॥
तस्य राज्ञो गतातङ्कैर्बहुपुत्रैर्नरोत्तम॥
तेजोयुक्तैः समाकीर्णा वसुधा वसुधाधिप ॥३०॥
बहुनागाश्वसंकीर्णा बहुगोकुलसङ्कुला॥
न शक्ता नृपते सोढुं तेजस्तदतिमानुषम् ॥३१॥
ज्वालावलिवपुः श्रान्ता खिन्ना नाकमुपागता ॥३२॥
एवं प्रभावे नरदेवनाथे पृथ्वीं समग्रां परिपाल्यमाने॥
भारेण सन्ना पृथिवी जगाम महेन्द्रलोकं मुनिदेवजुष्टम् ॥३३॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादेऽर्जुनोपाख्यानं नाम त्रयोविंशोऽध्यायः ॥२३॥

N/A

References : N/A
Last Updated : November 29, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP