संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
चतुस्त्रिंशत्तमोऽध्यायः

प्रथम खण्डः - चतुस्त्रिंशत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


ऋचीक उवाच ॥
ब्रह्मणोऽत्रिः सुतः सौम्यः सुतस्तस्याऽपि चन्द्रमाः ॥
सोमस्य तु बुधः पुत्रो बुधपुत्रः पुरूरवाः ॥१॥
श्रुतायुस्तनयस्तस्य पुत्रस्तस्यापि नग्नजित् ॥
तस्याऽपि काञ्चनः पुत्रः सुहोत्रस्तस्य चाऽऽत्मजः ॥२॥
तस्य जह्नुः स्मृतः श्रीमान्येन गङ्गा तु जाह्नवी ॥
सुव्रतस्तनयस्तस्य चालर्कस्तस्य चात्मजः ॥३॥
तस्य पुत्रो बलाकश्च कुशिकस्तस्य चाऽऽत्मजः ॥
महोदयपुरवरे स तु नित्यं कृतालयः ॥४॥
एतस्मिन्नेव काले तु श्वसुरः च्यवनस्तव ॥
स्ववंशसंकरं बुद्ध्वा कुशिकेभ्यो महायशाः ॥५॥
कुशिकानां समुच्छित्यै कुशिकं नृपतिं ययौ ॥
पूजितः कुशिकेनापि कुशिकं वाक्यमब्रवीत् ॥६॥
राजन्वक्ष्यामि कार्यं ते यदि शुश्रूषसेनघ ॥
सभार्येण च कर्तव्यं राजञ्छुश्रूषणं त्वया ॥७॥
कुशिक उवाच ॥
स्वमेवेदं तव गृहं यथेष्टं वस भार्गव॥
शक्तितस्तव शुश्रूषां करिष्ये भार्यया सह॥८॥
ऋचीक उवाच॥
गृहोषितं तं च्यवनं शुश्रूषुरनहंकृतः ॥
पूजयामास सततं सर्वकामसमृद्धिभिः॥९॥
बहुसंख्यान्दिनगणांश्च्यवनो नावबुद्ध्यति ॥
निराहारः सभार्यस्तं पर्युपास्ते महीपतिः ॥१०॥
अकाले प्राशयत्यन्नं कदाचिदपि दुलर्भम् ॥
कृतमित्येव तद्राजा निवेदयति सत्वरम् ॥११॥
कदाचिद्बहु भुङ्क्तेन्नं न भुङ्क्ते दिवसान्बहून् ॥
धनेन च तदीयेन तर्पयामास वै द्विजान् ॥१२॥
कदाचिद्दीपयत्येव वह्निं तातगृहोद्भवम् ॥
कदाचिच्च रथे युक्तं सभार्यो राजपुङ्गवम् ॥१३॥
राजमार्गे प्रतोदेन तुदन्यति यथेच्छया॥
तस्याऽसौ हितमेवेदं कर्मणा मनसा गिरा ॥१४॥
समाचरति यत्नेन भार्गवप्रियकाम्यया ॥
यदा न वृजिनं किंचिद्दृष्टवांस्तस्य भार्गव ॥१५॥
तदा तस्य वरं प्रादाद्वरं यन्मनसेप्सितम् ॥१६॥
च्यवन उवाच ॥
वर वरय भद्रं ते प्रसन्नोऽहं तवानघ ॥
निर्व्याजं तेऽनया राजस्सेवयाऽनघया सदा ॥१७॥
कुशिक उवाच ॥
यदि मे त्वं प्रसन्नोऽसि भृगूणां वंशवर्धन ॥
वंशो ब्राह्मणतां यातु वरमेतद्वृणोम्यहम् ॥१८॥
च्यवन उवाच ॥
एतदेव ध्रुवं भावी नन्मां वरयसे नृप ॥
अस्मद्वंशानुवंशस्य ब्राह्मण्यं ते भविष्यति ॥१९॥
तव वंशकृतोऽस्माकं क्षत्रधर्म्मो द्विजोत्तमः ॥
भविष्यति नरेन्द्रेन्द्र चैतत्सुविदितं मम ॥२०॥
एतज्ज्ञात्वा समुत्सेधं चिकीर्षुः स्वकुलस्य ते ॥
विकारैः क्रोधनार्थं ते गृहेऽहमवसं चिरम् ॥२१॥
विकारं न ततो दृष्टं मया भाव्यर्थचोदितम् ॥
तस्मान्मातुस्वया प्राप्तं वरमेतत्सुदुर्लभम् ॥२२॥
कुशास्यनामा पुत्रस्तु भविताऽति स्वधार्मिकः ॥
तस्यापि भविता पुत्रो गाधिरित्येव विश्रुतः ॥२३॥
विश्वामित्रः सुतस्तस्य ब्राह्मण्यमुपलप्स्यति ॥
कृत्वा वैरं वसिष्ठेन तपसा महता नृप ॥२४॥
स्त्रीणां चरुविपर्यासाद्विश्वामित्रस्य संभवः ॥
अस्मद्वंशानुभविता निर्वृत्तो भव पार्थिव ॥२५॥
यत्ते विनाशितं दग्धं भविता तद्विशेषवत् ॥
भार्यया सहितश्चैव जराहीनो भविष्यसि ॥२६॥
एवमुक्त्वा गते विप्रे राजा पूर्णमनोरथः ॥
उवाच सुमुखीं भद्रे जराशोक विवर्जिताम् ॥२७॥
एतत्सुनेत्रे च्यवस्य वाक्यं कस्याऽस्ति शक्तिर्भुवि मानवस्य ॥
कर्तुं मृषा तेन वरोरुमध्ये पौत्रस्तवोग्रो भविता नृलोके ॥२८॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कुशिकवरप्रदानं नाम चतुस्त्रिंशत्तमोऽध्यायः ॥३४॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP