संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
एकादशोऽध्यायः

प्रथम खण्डः - एकादशोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


वज्र उवाच ॥
हिमवत्पादसम्भूताः पुण्या ब्रह्मन्विशेषतः ॥
प्राधान्येन समाचक्ष्व नद्यः पापभयापहाः ॥१॥
मार्कण्डेय उवाच ॥
कौशेयवर्णसलिला कुशेशयविमिश्रिता ॥
कौशिकस्य प्रिया नित्यं कौशिकी निम्नगोत्तमा ॥२॥
निमज्जत्पापसंघौघनिर्मलीकरणे शुभा ॥
निश्चरा निम्नगा श्रेष्ठा नित्यं मुनिजनप्रिया ॥३॥
गजेन्द्रभिन्नकूला तु गङ्गातुल्या च पुण्यतः ॥
गन्धर्वगणगीता च गण्डकी गोकुलाकुला ॥४॥
लोकानां पावनायालं लोकनाथेन निर्मिता ॥
लोकदृष्टिमनोहारी लोहित्यश्च महानदः ॥५॥
दिवः सेव्या सदा विप्रैर्दिवि देवगणैर्यथा॥
दृषद्वती समाकीर्णा दर्शनीयोदका तथा ॥६॥
बहुदा बहुसत्त्वाऽथ मेना च प्रलयक्षमा ॥
अनवच्छिन्नवाहा तु लिखितस्य च बाहुदा ॥७॥
धर्मप्रदा सेवकानां धूतपापा महानदी॥
गोमती गोकुलाकीर्णा गजेन्द्रगणगाहिता ॥८॥
गन्धर्वगीतगंभीरा गणयक्षगणैर्युता ॥
कुहूकदम्बकादम्बकेकारवविनादिता ॥९॥
कुमुदोत्पल कह्लारकुसुमैराकुलोदका ॥
देवदेवस्य या देवी दयिता शङ्करस्य च ॥१०॥
देविका सा पुरा राजन्देवलोकगतिप्रदा ॥
विस्तारितमहाकूला विषमद्वीप वीजिता ॥११॥
विष्णुलोकप्रदा देवी वितस्ताघविनाशिनी ॥
चन्द्रभागा च चन्द्रांशुचारुशीतजलाविला ॥१२॥
चन्द्रलोकप्रदा स्नाने चामरत्वप्रदायिनी ॥
सरोजाकुलतीर्था च सरयूः सरितां वरा ॥१३॥
सततं सेविता सद्भिः सोमलोकमभीप्सुभिः ॥
इन्द्रेभसेविततटा इन्द्रलोक प्रदायिनी ॥१४॥
इन्दीवराकुलजला तथा देवी इरावती ॥
विशिष्टपाशविच्छेदे विपाशा कुशला तथा ॥१५॥
तथैव सर्वपापानां विपाककारिणी नृणाम् ॥
वशिष्ठविद्रुता देवी शतद्रुर्द्रुतगामिनी ॥१६॥
रौद्राणामपि सत्त्वानां रुद्रलोकप्रदा शिवा ॥
कृष्णेन कृष्णतोया च बाल्ये पीतपयोधरा ॥१७॥
यमस्वसा च यमुना याम्यदुःखविनाशिनी ॥
सप्तप्रकारा च नदी तथा देवी सरस्वती ॥१८॥
तस्याः सप्तसु भागेषु नामानि शृणु मे नृप ॥
सुप्रभा कातराक्षी च विशाला मानसह्रदा ॥१९॥
सरस्वत्योघनादा च सुवेणुर्विमलोदका ॥
पुष्करे नैमिषे चैव गयायां कोशलेषु च ॥२०॥
कुरुक्षेत्रे क्रमाज्ज्ञेया गङ्गाद्वारे हिमाचले ॥
नद्यस्तथैता हिमवत्प्रसूताः प्रधानभूताः कथिता नृवीर! ॥
उक्ताश्च नद्यश्च सहस्रशोऽन्याः सर्वाः पवित्रा ऋषिवर्यजुष्टाः ॥२१॥
वर्षस्य तस्यापि तथान्तरेऽस्मिन्सप्तप्रकारा च त्रिमार्गगापि ॥
द्वीपं प्रविष्टा भरतस्य राजन् भगीरथाराधितपद्मजोक्ता ॥२२॥
इति श्रीविष्णुधर्म्मोत्तरे प्रथमखण्डे मार्कण्डेवज्रसंवादे हिमवन्नदीवर्णनं नामैकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : July 22, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP